________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
'अनुभवो न सुषुप्तिः' सुषुप्तौ मनसो विचाराभावाद् विकाराभावाद्वा घोरनिद्रा वर्त्तते गाढदर्शनावरणीयकर्मोदयवती दशारूपा सुषुप्तिरस्ति ( अविद्यात्मिका हि सा महासुषुप्तिर्यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः इत्याध्यात्मिकी महासुषुप्तिः) अनुभवो मोहरहितोऽस्ति, सुषुप्तिर्महामोहसहिताऽस्ति निद्रा तु चैतन्यस्याविस्पष्टता तमसाऽऽवृतघटवदवस्थानं निद्रोदयाद्धि जीवस्तमोऽवस्थायामवस्थितो भवति अत एव निद्राविशेषः सुषुप्तिरुच्यते, अमोहत्वाद् " अनुभवो न स्वापजागरौ” = निद्रितावस्थागतस्वप्नवद्दशायां, यद्यपि स्वप्नो भव्योऽपि मनोमोहकोऽपि महानपि तथापि मनःकल्पनां विना नास्त्यन्योंऽशो वास्तविकतायाःयदाऽनुभवदशायां कल्पनाया अंशो नास्ति तस्मात् स्वापदशायामनुभवांशीऽपि नास्ति, अतः स्वप्नभिन्नाऽनुभवदशाऽस्त्येवं 'नाऽनुभवो जागरदशा' यतः - चैतन्यस्य विस्पष्टतासद्भावेऽपि कल्पनाशिल्पस्य विद्यमानताऽस्ति, जाग्रद्दशात उत्तरकालं स्वप्नादिदशोत्पत्तिरस्ति, यदोज्जाग्रत् सदाss कालंजाग्रद्दशा स्यात्तदनन्तरं न स्वापनिद्रादिदशायाः कदाचन सम्भवोऽतो 'नानुभवो जागरदशेति कथ्यते, कल्पनाशिल्पविश्रान्तेस्तुर्यैवानुभवो दशाकर्ममनोमोहादिजन्यकल्पनानामकशिल्पस्य सर्वथा विश्रामाद्विरामाच्चतुर्थी उजागर सर्वथोत्कर्षेण जाग्रच्चैतन्यविस्पष्टतामयदशा, केवलज्ञानज्योतिर्मयदशारूपोऽनुभवस्तु सर्वथा मोहरहितः सूपपादो वर्त्तते ।
4
-
७३
(स च (जीवः)जाग्रत्स्वप्नसुषुप्तिरूपावस्थात्रयवान् । तत्र जाग्रद्दशा नामेन्द्रियजन्यज्ञानाऽवस्था । अवस्थाऽन्तरे इन्द्रियाभावान्नातिव्याप्तिः । इन्द्रियजन्यज्ञानं चान्तःकरणवृत्ति । स्वरूपज्ञानस्य ( चैतन्यरूपस्य ) अनादित्वात् । अन्तःकरणवृत्ति:- अन्तःकरणस्य तत्तत् पदार्थस्याकारतुल्या भवन्ती स्थितिः । इन्द्रियाऽजन्या - इन्द्रियव्यापारोपरमकालीना विषयगोचराकल्पितगजाद्यधिष्ठानाकारा, अपरोक्षाऽन्तः करणाऽवस्थाविशेषः स्वप्ना