________________
अध्यात्मोपनिषत्
शास्त्रज्ञानरसाऽऽस्वादवेत्तार आत्मानो विरलाः- स्वल्पसंख्याका एवात एव केषां-शास्त्रज्ञानां पुरुषाणां कल्पनादर्वी युक्तितर्करूपा घृतलेखनी, शास्त्रनामकक्षीरान्नपरमान्नावगाहिनी - भ्रामिका न परन्तु विशुद्धानुभवनामकशास्त्रज्ञाननामकपायसरसास्वादवेत्तारः र: पुरुषास्तु विरलाः कतिपये
७२
जिह्वया, इति ॥ २२ ॥
--
शास्त्रदृष्टेः परं निर्द्वन्द्वं ब्रह्माऽस्ति
पश्यतु ब्रह्म निर्द्वन्द्वं निर्द्वन्द्वानुभवं विना । कथं लिपिमयी दृष्टिः वाड्मयी वा मनोमयी ॥ २३ ॥
अकाराद्यक्षराऽऽकाररूपा
लिपिमयीति= लेखने उपयोगिन्यः, ब्राहम्याद्या लिपयः, तन्मयी लिपिमयी, मुखद्वारोच्चार्यमाणाऽकारादिहकारान्तवर्णपद-वाक्यात्मकव्यञ्जनाक्षरमयी वाक्प्रचुरा वाङ्मयी, इन्द्रिय मनोनिमित्तकश्रुतग्रन्थानुसारि श्रुतज्ञानोपयोगरूपलब्ध्यक्षरमयी दृष्टिर्मनोमयी, शास्त्रदृष्ट्यन्तर्भावशक्या, लिपिमयी-वाड्मयी-मनोमयीरूपदृष्टित्रयी, ‘निर्द्वन्द्वं’=द्रव्यकर्मभावकर्मरूपद्वन्द्वातीतं, 'ब्रह्म' परमात्मानंविशुद्धात्मानं वा 'निर्द्वन्द्वानुभवं विना' रागद्वेषत: परं, इन्द्रियानिन्द्रियाभ्यामन्यं, अनुकूलताप्रतिकूलताभिन्नं माध्यस्थ्यमयं विशिष्टज्ञानरूपानुभवं विना 'कथं पश्यतु ' केन प्रकारेणाथवा कया दृष्टया निरीक्षतां ? ने कयाऽपि बाह्यदृष्टया चर्मयन्त्रदृष्टयापि द्रष्टुं कोऽपि समर्थः, लौकिकदृष्ट्या विशिष्टयाऽपि न ब्रह्म साक्षात् क्रियतेऽपितु विशुद्धालौकिका - पूर्वानुभवज्ञानेन निःसंशयमवश्यमेव दृश्यते इति ॥ २३ ॥
V
चतुर्थी सदोज्जागरदशैवानुभवदशाऽस्तिन सुषुप्तिरमोहत्वान्नापि च स्वापजागरौ । कल्पना-शिल्पविश्रान्ते-स्तुर्यैवाऽनुभवो दशा ॥ २४॥