________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
विशुद्धानुभवं विना परं ब्रह्मागम्यमस्तिअतीन्द्रियं परं ब्रह्म, विशुद्धाऽनुभवं विना । शास्त्रयुक्तिशतेनाऽपि, नैव गम्यं कदाचन ॥ २१ ॥
७१
'अतीन्द्रियं परं ब्रह्म' इन्द्रियमनोगोचरातीतं परं ब्रह्म-परमात्माऽथवा विशुद्धात्मा, 'विशुद्धानुभवं विना निरुपाधिकनिरन्तरायसमर्थविशुद्धाऽनुभवरूपप्रातिभज्ञानं विना, शास्त्रस्य च युक्तीनां शतेनाऽपिकदाचन नैव गम्यं, अर्थात् शासनत्राणशक्तिविशिष्टशास्त्रप्रतिपादितयुक्तिशतेनापि नैवं परं ब्रह्म परमात्माअर्हत्सिद्धात्मकः तथा विशुद्धात्मा, नैव-कदाचनकस्मिंश्चिदपि काले गम्यं - साक्षाल्लभ्यं नैव परन्तु यदि श्रुतकेवलमध्यवर्तिना सूर्यारुणोदयसमानविशुद्धानुभवेनातीन्द्रियमपि परं ब्रह्म गम्यमस्ति, परब्रह्मप्राप्तेरेक एव पन्था विशुद्धानुभवोऽस्तीति शास्त्रशतेनाऽपि युक्तिशतेनाऽर्थात् आगमोपपत्तिभ्यां परब्रह्मोपलब्धिरगम्येति ॥ २१ ॥
·
आगमोपपत्तिभ्यां गम्यकार्यानुभवस्य समन्वयः - केषां न कल्पनादव, शास्त्रक्षीरान्नगाहिनी । विरलास्तद्रसास्वाद - विदोऽनुभवजिह्वया ॥ २२ ॥ प्राक्कारणरूपशास्त्रज्ञानं क्षीरान्नं ( पायसं ) अनिवार्यतया पाचनयोग्यं, क्षीरान्नं ज्वलितं स्वादहीनं मा भूदेतदर्थं कल्पनानामकदर्वीचालनं सततं तत्र कर्त्तव्यमेव तथा युक्तिं तर्कबुद्धिं विना शास्त्रज्ञानरूपक्षीरान्नपाकोऽशक्यप्रायो ऽतस्तर्कबुद्धिरूपकल्पनादर्व्या प्रचालनं पुनः पुनः कार्यमेव तर्कबुद्धिकल्पनादर्वीतोऽविनाभाविशास्त्रज्ञानं क्षीरान्नं, शास्त्रज्ञानाऽविनाभाविविशुद्धानुभवनामकजिह्वा, तत्र कल्पनादव, शास्त्र क्षीरान्नगाहीनीचालनक्रियासहायिका, शास्त्रज्ञेन क्षीरान्नं भोज्यं भोग्यम्, तत् क्षीरान्नरसास्वादकारिकाऽनुभवजिह्वाऽस्ति, तया अनुभवनामकजिह्वया, क्षीरान्नरूप