________________
७०
अध्यात्मोपनिषत्
शुद्धात्मद्रव्यलक्षणम्
अर्पदस्य पदं नास्ती - त्युपक्रम्याऽऽगमे ततः । उपाधिमात्रव्यावृत्त्या, प्रोक्तं शुद्धात्मलक्षणम् ॥ १९ ॥
ततः- परसंश्लिष्टशुद्धात्मद्रव्यलक्षणाभावात् अपदस्य - अनामिनः(पदागम्यस्य - शब्दातीतस्य) अनामिनोनामविशेषः कथं मध्यमावैखरीवाण्या वचनोल्लेख:कार्यते आत्मनः, पदनाम (वाचकशब्दो) नास्तिनविद्यते, इत्युपक्रम्याऽऽरभ्यागमे - जिनागमे 'उपाधिमात्रव्यावृत्त्या' प्रोक्तं शुद्धात्मलक्षणम्-पररूपद्रव्यभावकर्ममात्रोपाधि(परसन्निधि- परारोपरीत्यास्थितस्यान्यरूपप्राकट्य - उपनाम - परविशेषणादिरूपोपाधि) मात्रस्यव्यावृत्त्या - आत्यन्तिकाभावेन सर्वथा निरूपाधिकत्वं शुद्धस्यात्मनो लक्षणं स्वरूपं प्रोक्तं-प्रकर्षेण कथितमेवेति ॥ १९ ॥
एतदर्थं वेदोऽप्यनुभाषते -
यतो वाचो निवर्त्तन्ते अ ( ह्य) प्राप्य मनसा सह । इति श्रुतिरपि व्यक्त - मेतदर्थानुभाषिणी ॥ २० ॥
यतो - यस्माद् ब्रह्मणः (परमात्मन आत्मनो ) प्रत्यक्षं, अप्राप्यअलब्ध्वा मनसा सह वाचो निवर्त्तन्ते प्रतिनिवृत्ता भवन्त्यर्थाद् वाङ्मनसयोरगोचरः परमात्मा वा शुद्धात्मेति, श्रुतिर्वेदवाक्यमपि, स्पष्टं 'शुद्धात्मा, वाङ्मनसयोरगोचरः' इत्येतस्यार्थस्यानुभाषिणी - अनुवादिनीसंवादिनी, अस्मदर्थसमानसमञ्जसार्थसंगतिमती श्रुतिर्बोध्येति ॥ २० ॥
१. - ' अपयस्स पयं नत्थि' न विद्यते पदम् अवस्थाविशेषो यस्य सोऽपदः तस्य पद्यते गम्यते येनार्थस्तत् पदम्-अभिधानं तच्च नास्ति न विद्यते, वाच्यविशेषाभावात्, तथाहि योऽभिधीयते स शब्दरूपगन्धरसस्पर्शाऽन्यतरविशेषेणाऽभिधीयते, तस्य च तदभाव इति ( आचा. लोक.अ. ५. उदे.६)
२. - तैतिरीयोपनिषद् २-४. )