SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः ६१ जालं, शाम्बरीमायातुल्यं 'वेत्ति' सर्वमसत्यं क्षणविनश्वरं जानाति, स मुनिः 'तत्र' - पुद्गलप्रपञ्चचञ्चलचारुलीलायां 'नानुरज्यते' अनुरागरूपरंगसंगतो न भवतीति ॥ ६ ॥ का आध्यात्मिकी सुधा ? किं आध्यात्मिकं विषं ? - आस्वादिता सुमधुरा, येन ज्ञानरतिः सुधा । न लगत्येव तच्चेतो, विषयेषु विषेष्विव ॥ ७ ॥ 'येन' मुनिना जगत्तत्वज्ञानिना, ज्ञानरतिः- आत्मज्ञाननिष्ठा रति:रमणता-क्रीडा-विशिष्टस्थायिरसः सा एव सुधा, सुधाभुग्भिरप्यगम्याऽऽध्यात्मिकामृतविशेषज्ञानरतिरूपा सुधा, 'सुमधुरा आस्वादिता = आत्यन्तिकचिदानन्दमाधुर्यधुर्या, निभृतं निपीता, 'तच्चेतो विषयेषु विषेष्विव न लगत्ये' विति तस्याध्यात्मिकज्ञानरतिरूपसुधापायिनो यतिनश्चेत:- अन्तःकरणं विषयेषु विषेष्विव न लगत्येव सदा मारकेषु शब्दादिविषयेषु विषसमानेषु न लगत्येव-न निमज्जति वल्गतीति । ७। स्वभावचिन्तनद्वारोपनता विषयास्त्यागधर्मायैव सतत्त्वचिन्तया यस्याभिसमन्वागता इमे । आत्मवान् ज्ञानवान् वेद-धर्मवान् ब्रह्मवांश्च सः ॥ ८ ॥ 'इमे' अभिसमन्वागता=पुण्ययोगतोऽभितः समन्तादुपनता इमे विषयाः 'सतत्त्वचिन्तया' भोगानन्तरं इच्छानन्तरं वा बलवदनिष्टनरकाद्यपायदुःखहेतुत्वेनार्थात् स्वरूपचिन्तनेन विषयीकृता अतस्तत्-त्यागाभिमुखः सन् 'स' स पुरुषो, हि, 'आत्मवान्'- निश्चयत आत्मस्वरूपवान् 'ज्ञानवान्'= वस्तुस्वरूपविषयकज्ञानवान् 'वेदवान्' आचारांगादिरूपवेदआगमादिमान् ज्ञानाऽपेक्षया, दुर्गत्यादिमहापायरक्षकस्वर्गापवर्गादिसद्गतिसमर्पकधर्मवान्, श्रद्धाज्ञानाचारापेक्षया, 'ब्रह्मवान्' ब्रह्मचर्यधर्मवान्, परमात्मतत्त्वविषयक =
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy