SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६० अध्यात्मोपनिषत् लक्षकत्वात्-परिचायकत्वादात्मनः शास्त्रेणात्मदर्शनं न भवति, परन्तु स्वात्मदर्शनं परमेष्टमतः कथ्यते तेनात्मदर्शनाऽऽका-क्षी ज्ञानेनाऽन्तर्मुखो भवेत् आत्मप्रत्यक्षस्याऽऽकाक्षावान् पुरुषः तेनज्ञानेन अनुभवात्मकात्मदर्शकज्ञानेनाऽन्तर्मुखः, आत्मागुणस्वभावान्तर्दृष्टि-प्रधानो भवेत् अन्तरात्मा भवेत्, बहिरात्मदशां परित्यजेच्च 'द्रष्टु १गात्मता मुक्ति दृश्यैकात्म्यं भवभ्रम: दृग्(दृश्यतेऽनया दृग्) दृष्टिदर्शनं, (ज्ञानाभिन्नं)आत्मा-स्वभावो यस्य स गात्मा तस्य भावः-दृगात्मता, अन्तरात्मदशाभावजन्य आत्मगपरमात्मदशानुभवः द्रष्टरूपात्मविषयक(ज्ञानाभिन्न) दर्शनस्वभाववत्ता स्वयमहं स्वं पश्यामीति विशिष्टज्ञानेनाऽनुभावो जायतेऽतो द्रष्टरूपाऽऽत्मविषयकदर्शनस्वभावो मुक्तिरुच्यते, द्रष्टुरात्मनो-द्रष्ट्रात्मभिन्नसर्वपौद्गलिकपदार्थरूपदृश्येन सहैक आत्मा-स्वभावो यस्य स दृश्यैकात्मा, तस्य भाव ऐकात्म्यं बहिरात्मदशाभावः- भौतिकदृश्यपरपदार्थमतैकस्वभावः- ममतास्वभावरूपविभावः 'अहं परपदाथै :सहैकात्म्यं करोमीत्यनुभक्न, आत्मनः पर-पदार्थ-दृश्यगतैकात्मतैव भवभ्रमः' जन्ममरणादिभवरूपसंसारे भ्रमणमेवार्थात् ‘आत्मनाऽऽत्मा द्रष्टव्यः' स्वयं स्वं पश्यतु मा परदृश्येन सहैकात्म्यं करोतु जन इत्युपदेशोऽवगन्तव्य इति ॥ ५ ॥ आत्मविषयकज्ञाने मग्नस्य पुद्गललीलायां नाऽनुरागःआत्मज्ञाने मुनिर्मग्नः, सर्व पुद्गलविभ्रमम् । महेन्द्रजालवद्वेत्ति, नैव तत्राऽनुरज्यते ॥ ६ ॥ चिदान्दमूर्तिरूपात्मविषयकज्ञाने 'मग्नो मुनिः' समाहितमना लग्नचित्तो मुनिःसर्वं पुद्गलविभ्रमं महेन्द्रजालवद् वेत्ति' पुद्गलस्य विभ्रमं रूपिविश्वसम्बन्धि-कल्पितललितलीला-बाह्यच्छायाशोभाऽऽडम्बरविशिष्टभ्रान्तिरूपं सकलं भौतिकरमणीय-विभ्रमं, 'महेन्द्रजालवत्'=मंत्रतंत्रद्रव्यहस्तप्रयोगादिनाऽसंभवद्वस्तुप्रदर्शनवत्-विस्मापकजालमिव,
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy