________________
५९
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः परन्तु 'ज्ञानयोगो' प्रातिभानुभवात्मकज्ञानविशेषः 'मुनेः पार्श्वमाकैवल्यं सर्वकर्मक्षयात्केवलस्यात्मनो भावः कैवल्यं-निर्वाणं आकैवल्यं मोक्षपर्यन्तं यावत् मुनेः-विशिष्टज्ञानिनः साघो:पार्थ(पार्श्व स्यादेतयोरधः' एतयोः कक्षयोरधस्तात्) सामीप्यं न मुञ्चति न त्यजत्यदेष ज्ञानयोग आकैवल्यमखण्डिततया तिष्ठत्येव मुनौ-ज्ञानिनीति ॥ ३ ॥
वस्तुत आत्मनोलक्षकं शास्त्रं नं तु दर्शकम्तत्त्वतो ब्रह्मणः शास्त्रं लक्षकं न तु दर्शकम् । न चादृष्टात्मतत्त्वस्य, दृष्ट-भ्रान्ति र्निवर्तते ॥ ४ ॥
तत्त्वतो-वस्तुतः, शास्त्रं =आगमादिकं शास्त्रं, ब्रह्मणो-आत्मनो लक्षकं (प्रतिपादकं-परीक्षक-परिचायकं ज्ञापकं-शिक्षकमिति यावत्) न तु दर्शकं-दर्शन-साक्षात्कार-प्रत्यक्षकारकं । अत एव 'अदृष्टात्मतत्त्वस्य'= अदृष्टमप्रत्यक्षीकृतं आत्मनामकं तत्त्वं येन सोऽदृष्टात्मतत्त्वस्तस्यादृष्टात्मतत्त्वस्य-आत्मतत्त्वविषयकप्रत्यक्षज्ञानरहितस्य, आत्मा बद्धोऽस्ति वा नवेति आत्मनि बन्धविषये पतितां प्रत्यक्षशङ्कारूपभ्रान्तिं दूरीकर्तुं शास्त्रं न प्रभवति अर्थात् वस्तुत आत्माऽबद्धोऽस्ति तादृशशास्त्रीयज्ञाने सत्यपि मिथ्याबुद्धेः संस्कारात् स आत्मा बद्धोऽस्ति इदृशं प्रत्यक्षं ज्ञानं भवति, अर्थात् दृष्ट-प्रत्यक्ष-विषयकशङ्कामपनेतुं शास्त्रज्ञानं न प्रभवति, तदा शास्त्रतत्त्वं श्रुत्वा-मत्वा मुहुः स्मृत्वा साक्षादनुभवन्ति ये तेषामनुभवज्ञानानन्तरं दृष्ट-प्रत्यक्षभ्रान्ति निवृत्ता भवति तथाऽत्रापि अप्रत्यक्षीकृतात्मतत्त्वस्य दृष्टभ्रान्ति न निवर्त्तते परन्तु दृष्टात्मतत्त्वस्य दृष्टभ्रान्ति निवर्तते एवेति॥ ४॥
आत्मदर्शनाऽपेक्षो, ज्ञानेनाऽन्तर्मुखो भवेत्तेनाऽऽत्मदर्शनाऽऽकाक्षी, ज्ञानेनाऽन्तर्मुखो भवेत् । द्रष्टुर्दगाऽऽत्मता मुक्तिदृश्यैकात्म्यं भवभ्रमः ॥५॥