________________
५८
अध्यात्मोपनिषत् रूपानुभवापरपर्यायप्रातिभसंज्ञा-सम्पन्नः मार्गानुसारिप्रकृष्टोहाख्यज्ञानं, ननु इदमपि प्रातिभं श्रुतज्ञानमेव अन्यथा षष्ठज्ञानप्रसङ्गः। न चैतत्केवलं सामर्थ्ययोगकार्यत्वादस्येति चेदुच्यते नैतच्छ्रतं न केवलं न च ज्ञानान्तरमिति रात्रिं-दिवारुणोदयवत्, अरुणोदयो हि न रात्रिं-दिवातिरिक्तो न च तयोरेकमपि वक्तुं शक्यते । तत्काल एव तथोत्कृष्टक्षयोपशमवतो भावात्, श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान्नश्रुतं, क्षायोपशमिकत्वादशेषद्रव्यपर्यायाविषयत्वान्न केवलमिति । इष्टं चैतत्तारकनिरीक्षणादिज्ञानशब्दवाच्यमपरैरपीत्यदोषः । इति हरिभद्रसूरयः । 'सन्ध्येव दिनरात्रिभ्यां केवलश्रुतयो:पृथक्' यथा दिनरात्रिभ्यां सन्ध्या (सम्+ध्यै+अङ् सन्धौ भवा या सा, संध्यायन्त्यस्यां सन्ध्या, सज्येते सन्धीयेते अहोरात्रावस्यामिति वा 'सञ्जेर्ध च । अहोरात्रस्य य:सन्धिः सूर्यनक्षत्रवर्जितः। सा च सन्ध्या समाख्याता (स्मृतिः) पृथक्-भिन्ना कथ्यते एवं केवलज्ञानाच्च श्रुतज्ञानाद् भिन्न एष ज्ञानविशेषोऽस्तीति (क्षपकश्रेणिगमिदं प्रातिभज्ञानं) प्रातिभं यदपि प्रातिभमक्षलिङ्गशब्दव्यापारानपेक्षमकस्मादेवाद्य मे महीपतिप्रसादो भवितेत्याकारं स्पष्टतया वेदनमुदयते, तदप्यतीन्द्रिय-निबन्धनतया मानसमिति प्रत्यक्षकुक्षिनिक्षिप्तमेव, प्रमाणनयतत्त्वालोकालंकारे पृ. १५४ पं.-९' स्याद्वादरत्नाकरविवृतौ ॥ २ ॥
सर्वशास्त्राणां व्यापारो दिग्प्रदर्शने एव समाप्त:पदमात्रं हि नाऽन्वेति, शास्त्रं दिग्दर्शनोत्तरम् । ज्ञानयोगो मुनेः पार्श्वमाकैवल्यं न मुञ्चति ॥ ३ ॥
'हि' यतः शास्त्रं 'पदमात्रं' पदं प्रमाणमस्य, 'दिग्दर्शनोत्तरं' दिशो दर्शनादुत्तरं-अनन्तरं-पश्चान्नान्वेति (पादमात्र) नानुगच्छति-न सहचरति १. प्रातिभावा सर्वम् (यो ३/३३) यथा सूर्योदयस्य पूर्वलिङ्गप्रभा तद्वत्
प्रसंख्यानस्य पूर्वलिङ्ग प्रातिभं ज्ञानमित्यर्थः । स्वप्रतिभोत्थं अनौपदेशिकं ज्ञानं प्रातिभं इति उच्यते । अनेन ज्ञानेन करामलकवत् सर्वं जानाति योगी ।