SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ( ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः) ज्ञानयोगं स्वजीवने प्रतिदिनं प्रयुञ्जीतदिशा दर्शितया शास्त्रै-र्गच्छन्नच्छमतिः पथि । ज्ञानयोगं प्रयुञ्जीत, तद्विशेषोपलब्धये ॥ १ ॥ शास्त्राणां दिग्दर्शकत्वप्रसिद्ध्या 'शास्त्रैर्दर्शितया दिशा' शासनत्राणशक्तिविशिष्टवीतरागवचनरूपैः शास्त्रै दर्शितया (निःश्रेयसस्य दिशा 'अच्छमतिः पथि गच्छन्' निर्दम्भबुद्धिकः, सम्यग्दर्शनज्ञानचारित्रात्मकमोक्षमार्गे गच्छन् गतिं कुर्वन् 'ज्ञानयोगं प्रयुञ्जीत' ज्ञानाचाराराधनारूपयोगस्य प्रयोगं कुर्वीत, किमर्थमिति चेदुच्यते 'तद्विशेषोपलब्धये'= मोक्षमार्गगतस्य(गतौ) महोत्तेजकविशिष्टज्ञानस्य प्राप्तये साक्षात्काराय वा ज्ञानयोगस्याऽवश्यं प्रयोगः कर्त्तव्य इति ॥१॥ प्रातिभ-ज्ञानविशेषस्य विवरणम्योगजाऽदृष्टजनितः, स तु प्रातिभसंज्ञितः । सन्ध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् ॥ २ ॥ 'स तु योगजादृष्टजनित:'= स तु-स ज्ञानविशेषस्तु योगाभ्यासजनितमदृष्टं-धर्मविशेषः, तेन जनितः, योगजाऽदृष्टजनितः, "योगजो द्विविध:प्रोक्तो, युक्तयुञ्जानभेदतः । युक्तस्य सर्वदा भानं, चिन्तासहकृतोऽपरः"। युक्तस्य तावद्योगजधर्मसहायेन मनसा आकाशपरमाण्वादिनिखिलपदार्थगोचरं ज्ञानं सर्वदैव भवितुमर्हति । द्वितियस्य चिन्ताविशेषोऽपि सहकारीति (न्या.सि.मु.) 'स तु प्रतिभसंज्ञितः' केवलार्कारुणोदय
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy