________________
६२
अध्यात्मोपनिषत्
पूर्णज्ञानवान्, आत्मरतिरूपभावचारित्रवानिति ।
आचारांग-अध्य० ३, उद्दे० १ - ( यस्य मुनेरिमे - प्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपरसगन्धस्पर्शा मनोज्ञेतर भेदभिन्ना अभिसमन्वागता इति, अभिः- आभिमुख्येन सम्यग् - इष्टानिष्टावधारणतयाऽन्विति-शब्दादिस्वरूपावगमात् पश्चादागता ज्ञाताः परिच्छिन्ना यस्य मुने र्भवन्ति स लोकं जानातीति सम्बन्धः, इदमुक्तं भवति इष्टेषु न राग - मुपयाति नापीतरेषु द्वेषम्, एतदेवाभिसमन्वागमनं, (अभिसमन्वागमनंज्ञपरिज्ञया शब्दादिविषयाणां ज्ञानं प्रत्याख्यानपरिज्ञया शब्दादिविषयाणां प्रत्याख्यानं) तेषां नान्यदिति.
'आत्मवान्' - आत्मा ज्ञानादिकोऽस्याऽस्तीत्यात्मवान्, शब्दादिपरित्यागेन ह्यात्माऽनेन रक्षितो भवति, ज्ञानं यथावस्थितपदार्थपरिच्छेदकमस्याऽस्तीति ज्ञानवान्, वेद्यते जीवादिस्वरूपं अनेनेति वेद:- आचाराद्यागमः, सोऽस्यास्तीति वेदवान्, तथा दुर्गतिप्रसृतजन्तुधरणस्वभाव: स्वर्गापवर्गमार्गे धर्मोऽस्याऽस्तीति धर्मवान्, एवं ब्रह्म- अशेषमलकलङ्कविकलं योगिशर्माऽथवा अष्टादशधा ब्रह्मचर्यमस्याऽस्तीति ब्रह्मवान् स मुनिः ॥ ८ ॥
सिद्धसाधकयोः को विशेष: ?विषयान् साधक: पूर्व-मनिष्टत्वधिया त्यजेत् । न त्यजेन्न च गृह्णीयात्, सिद्धो विन्द्यात्सतत्त्वतः ॥ ९ ॥ 'साधकः पूर्वं त्यजेदनिष्टधिया विषयान् = साधकदशासम्पन्नः पूर्वमादितो बलवदनिष्टत्वबुद्ध्या शब्दादिविषया अनिष्टा नरकादिदुःखहेतुत्वेन महाऽपायभूताः सन्तीति ज्ञानेन विषयत्यागवान् भवेत्, 'सिद्धः सतत्त्वतो विन्द्यात्' ज्ञानयोगसिद्धपुरुषस्तु सतत्त्वतः स्वभावतः, प्रकृतितः, न विषयत्यागी, न विषयग्राही अपितु आत्मज्ञानरूपस्वभावे सदा मग्नतावानेवेति ॥ ९॥