________________
द्वितीय ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः
योगारम्भ-सिद्धयोगयोः कुत्र सुखदुःखे स्तः?योगारम्भदशास्थस्य, दुःखमन्तर्बहिः सुखम् । सुखमन्तर्बहिर्दुःखं, सिद्धयोगस्य तु ध्रुवम् ॥१०॥
योगस्य-ज्ञानयोगस्य आरम्भप्रवेशरूपारम्भदशायां तिष्ठति स योगारम्भदशास्थः, तस्य, योगारम्भदशास्थस्य, ज्ञानयोगप्रवेशाभ्यासरूपावस्थास्थायिनः पुरुषस्य, भविष्यति काले कष्टक्रियाबहुलत्वचिन्तयाऽन्तरात्मनि दुःखम् प्रारम्भेऽल्पक्रियारूपप्रयत्नसम्भवेन यथेष्टसुखसाधनोपयोगसम्भवेन बहिर्बाह्य-पुद्गलादौ सुखं, 'सिद्धयोगस्य तु' सिद्धो योगो-ज्ञानयोगो यस्य स, तस्य सिद्धयोगस्य तु आत्मान्तर्गतभावान् पश्यतः पूर्णतामुपागतस्याध्यात्मसाम्राज्यचक्रवर्तिनः सिद्धयोगस्यान्तरात्मनि ध्रुवं सुखमपारं चिदानन्दोऽखण्डः, बहिर्दुःखम्' बहि बर्बाह्यशरीरादिपुद्गले एव दुःखं, उपसर्गपरिषहादिकालेऽपि दुःखानुभवो नात्मनि यतः तदुःखजनकपुद्गलकर्मजन्यत्वात् पुद्गल एव पततु-गच्छतु, यस्यास्ति तस्मै दत्तमिति एतादृशभाववान् सिद्धज्ञानयोग्यस्तीति । ___ कल्पना-मैत्रीकरुणादिभावनातः सर्वभूतमात्राय मन आदितःसुखं दत्तमेवातोऽन्तरात्मनि सुखमायातं यतो यत् परस्मै दीयते तत् स्वस्मिन्नवायातीति न्यायात् दुःखं तु शब्दरूपेण शब्दकोश एव स्थितं, उत्कृष्ट-विश्वमैत्रीभावतो विश्वस्मिन् विश्वे उत्कृष्टज्ञानयोगिना वर्तमानभवे, भावतीर्थकरेणान्तः सुखिना, सोपक्रमपापापगमनेन परात्मापि दुःखी । यः स सुखीकृतस्तथापि निरुपक्रमपापस्याऽविनाशेन दुःखं परबाह्यात्मनि स्थितमिति ॥ १० ॥
किं आत्मीयं ज्ञानं? किं आत्मीयं सुखं ?प्रकाशशक्त्या यद्रूप-मात्मनो ज्ञानमुच्यते । सुखं स्वरूपविश्रान्ति-शक्त्या वाच्यं तदेव तु ॥११॥