SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अध्यात्मोपनिषत् अनन्तशक्तिनिधिरूपस्याऽऽत्मनः प्रकाशनामकशक्त्या (प्रकाशरूपात्मधर्मविशेषेण)' यद्रूपं' यः स्वभावः स्वलक्षण-रूपतत्त्वं ज्ञानं ज्ञानात्मकः सर्वश्रेष्ठगुण उच्यते - कथ्यते अवबोधस्य प्रकाशरूपत्वं, सर्वप्रकाशानां स्वार्थप्रकाशकत्वेन बोधस्यापि तत्सिद्धिः ज्ञानं चात्मनः स्वपरप्रकाशको ऽसाधारणगुणः, स चाम्बुधरपटलपरिमुक्तस्य दिनमणेरिवापास्तसमस्ततावरणस्य जीवस्य स्वभावभूतकेवलज्ञानव्यपदेशभाग्भवति, सकलघाति-केवलज्ञानावरणेन कार्त्स्न्येन ज्ञानस्यावरणाऽसम्भवात्तदानीं योऽयं मन्दप्रकाशः स केवलज्ञानावरणावृत्तस्य भवति तस्यैव भेदा मत्यादयश्चत्वारः । तादृशे मन्दप्रकाशे केवलज्ञानावरणस्यैव हेतुत्वं स्पष्टप्रकाशप्रतिबन्धकस्यापि तस्य तत्र हेतुत्वं, दृष्टं चोत्कटेऽभ्राद्यावरणे स्पष्टप्रकाशप्रतिबन्धकत्वं मन्दप्रकाशजनकत्वं चेति 'तदेव तु, ' - आत्मनः प्रकाशस्वरूपं ज्ञानमेव तु स्वरूपविश्रान्तिशक्त्या' = स्वरूपे स्वभावे रमणता-स्थिरता अवस्थानरूपविश्रान्तिनामकशक्त्या स्तैमित्यनैश्चल्यनामकधर्मविशेषेण सुखम् आनन्द इति वाच्यम् - कथनीयमर्थाद् आत्मनःप्रकाशस्वरूपज्ञानं तथाऽऽत्मनि रमणतारूपविश्रान्तिरूपं सुखमुच्यते, प्रकाशस्वरूपज्ञानाभिन्नं स्वस्वरूपविश्रान्तिरूपं सुखमेव, (सुखमपि च न ज्ञानातिरिक्तं किञ्चिदपि तु ज्ञानविशेषरूपमेव, अत्र ' कृत्स्नकर्मविमुक्त्या - ऽऽत्मनःस्वात्मन्यवस्थान 'मित्यनेन संग्रहनयेन मुक्तिरुक्ता, तेन ह्यावरणोच्छित्त्या व्यङ्ग्यं सुखं मुक्तिरिष्यते, संसारदशायां जीवस्वभावस्य सेन्द्रियदेहाद्यपेक्षाकारणरूपावरणेनाच्छाद्यमानत्वात्, प्रदीपस्यापवरकावस्थितपदार्थप्रकाशत्वस्वभावस्येव तदावारकबृहच्छरावांदिना, तदपगमे तु प्रदीपस्येव जीवस्यापि विशिष्टप्रकाशस्वभावोऽयत्नसिद्ध एवेति ॥ ११॥ ६४ सुखदुःखयो र्लक्षणम् सर्वं परवशं दुःखं, सर्वमात्मवशं सुखम् । एतदुक्तं समासेन, लक्षणं सुखदुःखयोः ॥ १२ ॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy