Book Title: Adhyatmaop Nishad
Author(s): Vikramsenvijay
Publisher: Labdhi Bhuvan Jain Sahitya Sadan
View full book text
________________
४५
स्वतन्त्रा:'=देशरूपा अंशविशेषा नयास्तु स्वतन्त्राः - स्वार्थसत्याः सन्तः स्वरूपस्याद्वादस्य तंत्रा : अधीना एव ( स्वाभिमतधर्मस्थापनकर्तृत्वरूपस्वातंत्र्यसंपन्नाः) नान्याधीनाः परन्तु प्रकल्पिताप्रकर्षेण छाद्मस्थ्यस्वाच्छन्द्यसंस्पृष्टमतिकल्पनाशिल्पकल्पिता न 'नयानशेषानविशेषमिच्छन्; न पक्षपाती समयस्तथा ते' मत्सरित्वाभावपूर्वकपक्षपातित्वाभावात् हे भगवन्, ते तव समयः सिद्धान्त आगम इति अतः नयानशेषानविशेषमिच्छन्, सर्वनयात्मकृत्वादनेकान्तवादस्य । यथा विशकलितानां मुक्तामणीनामेकसूत्राऽनुस्यूतानां हारव्यपदेशः, एवं पृथगभिसन्धीनां नयानां स्याद्वादलक्षणैकसूत्रप्रोतानां श्रुताख्यप्रमाणव्यपदेशः, एवं च सर्वनयात्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वं न विरूद्धमेव, नयरूपत्वाद्दर्शनानाम् एवं च तस्य सर्वनयात्मकस्याद्वादस्य, स्यावादिनो वा 'दूषणेऽपि च भूषणे कथं रागद्वेषौ' केनचित् प्रत्यनीकेनैकान्तवादिना निन्दावहेलनातिरस्कारादिरूपदूषणदानेऽथवा स्याद्वादानुकूलेन मित्रेण तत्त्वान्वेषिणासत्यग्राहिणा सत् - सर्वश्रेष्ठसिद्धान्तादिसद्विशेषणादिना भूषणरूपकथने, निन्दकस्तावको भयोपरिष्टान्न रागद्वेषावर्थाद् दृष्टिरागद्वेषत्यागरूपसमतासुधाऽप्रतिहता वर्त्तते । (स्वार्थसत्यसर्वनयविषयकमांध्यस्थ्यमावेदितमत्र) ॥ ६२ ॥
प्रथम शास्त्रयोगशुद्धि-अधिकारः
महेन्द्रजालवद् दुर्नयार्थे माध्यस्थ्यं सताम्अर्थे महेन्द्रजालस्य, दूषितेऽपि च भूषिते । यथा जनानां माध्यस्थ्यं, दुर्नयाऽर्थे तथा मुनेः ॥ ६३ ॥
यथा 'महेन्द्रजालस्यार्थे' = महद् यद् इन्द्रजालं तस्य महेन्द्रजालस्य मन्त्र - द्रव्यहस्तप्रयोगादिनाऽसंभवद्वस्तुप्रदर्शनस्य रूपपरार्वत्तनादिकमायारूपस्य 'अर्थे'=असति वाऽसत्यरूपे विषये, केनचिद् 'दूषिते' निन्दादि
-

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178