SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४५ स्वतन्त्रा:'=देशरूपा अंशविशेषा नयास्तु स्वतन्त्राः - स्वार्थसत्याः सन्तः स्वरूपस्याद्वादस्य तंत्रा : अधीना एव ( स्वाभिमतधर्मस्थापनकर्तृत्वरूपस्वातंत्र्यसंपन्नाः) नान्याधीनाः परन्तु प्रकल्पिताप्रकर्षेण छाद्मस्थ्यस्वाच्छन्द्यसंस्पृष्टमतिकल्पनाशिल्पकल्पिता न 'नयानशेषानविशेषमिच्छन्; न पक्षपाती समयस्तथा ते' मत्सरित्वाभावपूर्वकपक्षपातित्वाभावात् हे भगवन्, ते तव समयः सिद्धान्त आगम इति अतः नयानशेषानविशेषमिच्छन्, सर्वनयात्मकृत्वादनेकान्तवादस्य । यथा विशकलितानां मुक्तामणीनामेकसूत्राऽनुस्यूतानां हारव्यपदेशः, एवं पृथगभिसन्धीनां नयानां स्याद्वादलक्षणैकसूत्रप्रोतानां श्रुताख्यप्रमाणव्यपदेशः, एवं च सर्वनयात्मकत्वे भगवत्समयस्य सर्वदर्शनमयत्वं न विरूद्धमेव, नयरूपत्वाद्दर्शनानाम् एवं च तस्य सर्वनयात्मकस्याद्वादस्य, स्यावादिनो वा 'दूषणेऽपि च भूषणे कथं रागद्वेषौ' केनचित् प्रत्यनीकेनैकान्तवादिना निन्दावहेलनातिरस्कारादिरूपदूषणदानेऽथवा स्याद्वादानुकूलेन मित्रेण तत्त्वान्वेषिणासत्यग्राहिणा सत् - सर्वश्रेष्ठसिद्धान्तादिसद्विशेषणादिना भूषणरूपकथने, निन्दकस्तावको भयोपरिष्टान्न रागद्वेषावर्थाद् दृष्टिरागद्वेषत्यागरूपसमतासुधाऽप्रतिहता वर्त्तते । (स्वार्थसत्यसर्वनयविषयकमांध्यस्थ्यमावेदितमत्र) ॥ ६२ ॥ प्रथम शास्त्रयोगशुद्धि-अधिकारः महेन्द्रजालवद् दुर्नयार्थे माध्यस्थ्यं सताम्अर्थे महेन्द्रजालस्य, दूषितेऽपि च भूषिते । यथा जनानां माध्यस्थ्यं, दुर्नयाऽर्थे तथा मुनेः ॥ ६३ ॥ यथा 'महेन्द्रजालस्यार्थे' = महद् यद् इन्द्रजालं तस्य महेन्द्रजालस्य मन्त्र - द्रव्यहस्तप्रयोगादिनाऽसंभवद्वस्तुप्रदर्शनस्य रूपपरार्वत्तनादिकमायारूपस्य 'अर्थे'=असति वाऽसत्यरूपे विषये, केनचिद् 'दूषिते' निन्दादि -
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy