________________
अध्यात्मोपनिषत्
दोषविषयीकृते अपि च 'भूषिते' स्तुत्यादिरूपभूषणविषयीकृते 'जनानां'प्रेक्षकजनानां 'माध्यस्थ्यं' - उभयविषये समानताऽस्ति, तथा तेन प्रकारेण 'दुर्नयाऽर्थे' नित्यानित्याद्येकान्तवादाश्रितनयाभासमताऽभिमते केनचिद् दूषितेऽपि च भूषिते वस्तुतोऽसति वाऽसत्ये पदार्थे, मुनेः- स्याद्वादसत्यरूपतत्त्वं मन्यते इति मुनिः तस्य मुनेः, माध्यस्थ्यं - ताटस्थ्यं भवस्थितिचिन्तनद्वारा करुणागर्भितं साम्यं - प्रसादाप्रसादाभावरूपं वर्तत एव । (दुर्नयविषयकमाध्यस्थ्यमत्र. ) ॥ ६३ ॥
४६
अज्ञानान्ध एव स्याद्वादं दूषयेन्न तु पण्डित:
दूषयेदज्ञ एवोच्चैः, स्यादवादं न तु पण्डितः । अज्ञप्रलापे सुज्ञानां, न द्वेषः करुणैव तु ॥ ६४॥
मात्सर्यप्रयुक्तपक्षपातजनकस्याद्वादविषयकाज्ञानरूपान्धतायुतोऽज्ञ एवोच्चैः - महता प्रकारेण स्याद्वादं दूषयेत्' सर्वदर्शनव्यापकं स्याद्वादंअनेकान्तसिद्धान्तं, दोषोद्भावनद्वारा कलङ्कितं कुर्यात्, परन्तु 'पण्डितस्तु न दूषयेत्, स्याद्वादशास्त्राभ्यासमननद्वारा तत्त्वानुगबुद्धिरूपपण्डासमन्वितः पण्डितस्तु न दूषयेत् दूषणान्वितं न कुर्यादपि तु भूषणाऽन्वितं कुर्यात्, ' ' अज्ञप्रलापे सुज्ञानां न द्वेषः करुणैव तु' = अज्ञानां सम्यग्ज्ञानरहितानां प्रलापे - अनर्थकवचसि, सुज्ञानां सम्यग्ज्ञानप्रकाशशालिनां, 'न द्वेष:' न क्रोधाद्यावेशः अपितु करुणैव परदुःखप्रहाणेच्छारूपा, दयैव - परानुग्रहरूपा वा करुणा ज्ञेया ॥ ६४॥
ज्ञानं विभजते आद्यं श्रुतज्ञानम् -
".
त्रिविधं ज्ञानमाख्यातं श्रुतं चिन्ता च भावना । आद्यं कोष्ठगबीजाभं, वाक्यार्थविषयं मतम् ॥ ६५ ॥