________________
प्रथम शास्त्रयोगशुद्धि-अधिकारः
तिस्रो विधा: प्रकारा यस्मिंस्तत्, त्रिविधं ज्ञानं - त्रिप्रकारकं ज्ञानं, एकं श्रुतज्ञानं, द्वितीयं चिन्ताज्ञानं च तृतीयं भावनाज्ञानं (ज्ञानत्वेन विषयतृष्णापरिहारित्वेन विधियत्नवत्त्वेन जलादित्वेन साम्यमतउदकदुग्धामृतकल्पं यथार्हं ज्ञेयम्) आद्यं ज्ञानं विवृत्यते = ' आद्यं कोष्ठगबीजाभं'= कोष्ठे अन्नकोष्ठके-कोष्ठागारे गतं यद् धान्यबीजं तत्सदृशं आद्यं ज्ञानं, श्रुतज्ञानमर्थाच्चिन्ताज्ञानं प्रति गुरुभक्त्यादिविधानात् बीजंकारणमन्यथा चिन्ताभावनाज्ञानानुपपत्तिः, यः शास्त्ररूपसिद्धान्तं शृण्वन् संवेगं गच्छति तस्य श्रुतज्ञानं अतो मिथ्याऽभिनिवेशरहितं मतं नान्यस्य, किञ्च युक्तिगम्यतर्करूपोहासत्पक्षनिराकरणरूपापोहादिरहितं श्रुतज्ञानं तथा 'वाक्यार्थविषयं' सर्वशास्त्राऽविरोधि, गीतार्थस्य पदसमुदायात्मकवाक्यार्थ-नयात्मक शाब्दबोधमात्रविषयकं श्रुतमयं ज्ञानं, ( स्वार्थप्रत्यायने शक्तिमान् वाक्यान्तरघटितपदापेक्षणरहितः परस्परसहकारिसमूहो वाक्यम्) (भिन्नभिन्नानुपूर्वीविशिष्टा वर्णा विशिष्टपरिणामवन्तः शब्दाः, ते च पदवाक्यादिरूपतया व्यवस्थिताः) ॥ ६५॥
४७
द्वितीयचिन्तामयज्ञानस्य विवरणम् -
महावाक्यार्थजं यत्तु, सूक्ष्म-युक्ति-शताऽन्वितम् । तद् द्वितीयं जले तैल-बिन्दुरीत्या प्रसृत्वरम् ॥ ६६॥ 'यत्तु' द्वितीयं चिन्तामयं ज्ञानं, ऊहापोहादिसहितं 'महावाक्यार्थजं' अनन्तधर्माऽऽत्मकवस्तुप्रतिपादकानेकान्त-विषयरूपमहावाक्यार्थशाब्दबोधजन्यं, 'सूक्ष्मयुक्तिशताऽन्वितं ' - अतिसूक्ष्मबुद्धिशालिगम्यसुयुक्तिशतेनालोचनायुक्तं, जले तैलबिन्दुवद् विस्तारि व्यापकतास्वभावं सर्वपदार्थविधायक सर्वशास्त्रे चिन्तामयं ज्ञानमिति ॥ ६६॥