________________
४८
अध्यात्मोपनिषत्
तृतीयभावनामयज्ञानस्य विवरणम् - ऐदम्पर्यगतं यच्च, विध्यादौ यत्नवच्च यत् । तृतीयं तदशुद्धोच्च - जात्यरत्नविभानिभम् ॥ ६७॥ 'यच्च' किञ्च यत्तृतीयं भावनामयं ज्ञानं 'ऐदम्पर्यगतं ' ऊहापोहरहितवाक्यार्थोहापोहसहितमहावाक्यार्थरूपार्थ-विज्ञानजन्यपरमार्थरूपतत्त्वविषयक ज्ञानाऽभिन्ने ऐदम्पर्ये - तात्पर्ये गतं स्थितं परिणतं वर्त्तते 'विध्यादौ यत्नवच्च यत्' यद् भावनामयं ज्ञानं विधि- द्रव्य-दातृ-पात्रादिषु यत्नमहादरपूर्वकप्रयत्नशालि, 'तदशुद्धोच्चजात्यरत्नविमानिभं' शुद्धोच्चजात्यरत्नं निसर्गत एवाऽन्यरलेभ्योऽधिकं प्रकाशते तथापीदं भावनामयं ज्ञानमप्यशुद्धोच्चजात्यरत्नसमानो विशिष्टभव्यजीवस्तस्य कर्ममलेन मलिनत्वेऽपि द्वितीयज्ञानादधिकं भावनाज्ञानं प्रकाशते, भावनाज्ञानस्य महत्त्वं कथ्यते तथाहि भावनास्थैर्य प्रयुक्तकुशलस्थैर्यतो मोक्षस्य प्रधानकारणतो निरुपाधिकजीवपरिणामरूपभावनायां सर्वोचितानुष्ठाने प्रधानत्वं ज्ञायते, भावनाऽनुगतं ज्ञानं तात्त्विकं प्रातिभं ज्ञानं श्रुतमयज्ञाने ज्ञातमज्ञातदृष्टमज्ञातं, भावनाज्ञानेन दृष्टज्ञातं ज्ञातमेवेति, यतः श्रुतज्ञानमुपरागमात्रं - उपरितो-बाह्यतो ज्ञानं नाऽन्तरतः, अतः श्रुतमयज्ञानेनापायरूपानर्थेभ्यो निवृत्तिर्न भवति, हिताहितप्रवृत्तिनिवृत्त्यो र्मूलं भावनाज्ञानं । भावनाज्ञानिनो हि दृष्टापाययोगेऽप्यदृष्टापायेभ्योनिवर्त्तमाना दृश्यन्ते एवान्यजीवरक्षादौ प्रवर्त्तमानाः । अतो मुमुक्षुणा सर्वत्र भावनायां भावनाज्ञाने च प्रयत्नः कार्य इति ॥ ६७॥
प्रथमे ज्ञाने स्वल्पदर्शनविषयकग्रहः
आद्ये ज्ञाने मनाक् पुंस- स्तद्रागाद्दर्शनग्रहः ।
द्वितीये न भवत्येष, चिन्तायोगात्कदाचन ॥ ६८ ॥