SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रथम शास्त्रयोगशुद्धि-अधिकारः श्रुतज्ञानमये प्रथमे ज्ञाने, पुरुषस्य श्रुतशास्त्रसिद्धान्तविषयकरागस्य कारणात् 'मनाग् दर्शनग्रहः ' स्वल्पकोटिको दर्शनस्वधर्मविषयको ग्रह:विशिष्टाग्रहरूपपक्षपातो वर्त्तते, 'द्वितीये' चिन्तामये द्वितीये ज्ञाने 'एष' स्वल्पकोटिकोऽपि दर्शनग्रहः स्वल्पोऽपि दृष्टिरागरूपदर्शर्नग्रह: 'चिन्तायोगात्'-ऊहापोहादिरूपविशिष्टचिन्तनरूपचिन्ताया: सम्बन्धतः; कदाचनकस्मिंश्चिदपि काले, न भवति असम्भवकोटिमारोहति, अर्थाद् चिन्ताज्ञाने स्वल्पदर्शनग्रहासंभवः; सतामपि दुरुच्छेदरूपस्वल्पदृष्टिरागाभावस्तत्र चिन्ताज्ञानस्याचिन्त्यप्रभाव:; ततः सम्यग् दृष्टेः प्रादुर्भावः ॥ ६८ ॥ ४९ अन्तिमे भावनाज्ञाने सर्वत्रैव हितावृत्तिः - चारिसञ्जीविनी - चार - कारकज्ञाततोऽन्तिमे । सर्वत्रैव हिता वृत्ति, - र्गाम्भीर्या - त्तत्वदर्शिनः ॥ ६९॥ भावनाज्ञानं हितकरणफलकं भवतस्तत्राऽन्तिमे - चरमे भावनाज्ञाने 'चारिसञ्जीविनीचारकारकज्ञाततो' (वनस्पतिसमूहगतचारिरूप) सञ्जीविनीचारभक्षणकारकस्त्रीदृष्टान्ततः, तत्त्वदर्शिन:- तात्पर्यपर्यन्तदर्शनशालिनः महापुरुषस्य गम्भीरतापूर्वकं सर्वत्र - सर्वदर्शनगतमताभिमतनयशालिसर्वजने, हिता - हितकारिणी वृतिः - मानसादिद्वारा वर्त्तनं भवतीति चारिसञ्जीविनी - चारकारकदृष्टांतो लिख्यते - स्वस्तिमतीनगर्यां द्वे विप्रकन्ये वसतः, द्वयो मिथो मैत्री गाढाऽऽसीत्, द्वयो विवाह : सञ्जातः, भिन्नभिन्ननगर श्वसुरालयं जग्मतुः, एकदा ते द्वे सख्यौ मिलिते, अकस्मात्ततो मिथः सुखदुःखभृतां वार्तां चक्रतुः, एका प्राह- अतीवाऽहं दुःखिताऽस्मि, मदीयः पतिर्मदधीनो नास्ति, द्वितीया प्राहत्त्वं चिन्तां माऽकार्षीः, त्वामहं मूलौषधीं ददामि त्वं त्वत्पतिं तां भोजये:, त्वदधीनस्त्वत्- पतिर्भविष्यति, तया सा मूलौषधी स्वसरव्यै दत्ता, दत्त्वा सा स्वस्थाने जगाम, साऽपि स्वपतिं मूलौषधीं भोजयति स्म, तदनन्तरं स्वपति वृषभीभूतः, पश्चात्सा पश्चात्ताप >
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy