________________
५०
अध्यात्मोपनिषत् सन्तापवती जज्ञे, प्रतिदिनं वृषभीभूतं स्वपतिं गृहीत्वा वने तृणादिकं चारयामास, एवं स्वपतिं सिषेवे । एकदा स्त्री स्वपतिं वटवृक्षस्याऽधस्ताच्चारयति स्म, तद्वृक्षस्योपरिष्टादेकं विद्याधरदम्पतीरूपं युगलमुपविष्टमासीत्, विद्याधरो वृषभं निरीक्ष्य स्वस्त्रीं कथितवान्, यद् एष वृषभो न प्रकृतितः परन्तुमूलौषधीभोजनद्वारा पुरुषाकृतिं त्यक्त्वा वृषभाकृतिर्जातः । विद्याधर्योक्तं च स एष किं पुरूषो भावी न वा ? एषा स्त्री कीदृशी दीना दुःखिनी च दृश्यते ? तदा विद्याधरेणोक्तं वृषभोऽपि पुनःपुरुषो भवति, परन्तु तत्रोपायः कार्योऽस्ति तद् श्रूयतां तावत्, यद्येनं सञ्जीविनीनामकमूलौषधीरूपवनस्पतिं भोजयेत्तदा पुरुषो भवेन्नाऽन्यथा; सा सञ्जीविनीनामकौषधी चाऽस्य न्यग्रोधवृक्षस्याऽधस्ताद् वर्त्तते, वटस्याधउपविष्टा सा स्त्री विद्याधरदम्पत्यो र्वार्ता निशम्यावधार्य च भृशं प्रमुदिता, परन्तु तां सञ्जीविनीं न प्रत्यभिजानामि, हरिततृणादिकमत्र बहुप्रमाणमस्ति किं करोम्यहमिति विचारावर्ते पतिता, प्रान्ते निश्चितं तया 'वटाधःस्थं सर्वं तृणवनस्पत्यादिकं भोजनीयं मया' ततः सर्वतृणादिकं भोजयति, तत्तृणाद्यन्तः पातिनी सञ्जीविन्यपि भोजिता, तत्क्षणात्तत्पति वृषभाकारं परित्यज्य पुनः सत्यः पुरुषो जातः, साऽनन्दास्वादसम्पन्ना जाता, यद्येवमात्मनि माध्यस्थ्यनामकाध्यात्मिकसञ्जीविनी भोजिता स्यात्तदा परभावगामिनी परिणतिः पशुप्रकृतिर्दुरीभवेच्च स्वरूपज्ञानकुशलो भेदज्ञानी महात्मा पुरुषो भवेत्, माध्यस्थ्यं हि सर्वत्र महाहितं करोतीति ॥ ६९ ॥
स्याद्वादालम्बनेन सर्वदर्शनसमानतां पश्यति यः स शास्त्रज्ञःतेन स्याद्वादमालम्ब्य, सर्वदर्शनतुल्यताम् । मोक्षोद्देशाऽविशेषेण, यः पश्यति स शास्त्रवित् ॥७०॥ 'तेन' सगाम्भीर्यमाध्यस्थ्येनाथवा सर्वत्रहितकरणफलकभावनाज्ञानसम्पन्नेन हेतुना, 'स्याद्वादमालम्ब्य'=अनेकान्तवादरूपजैनप्रवचनमालम्बनं