________________
प्रथम शास्त्रयोगशुद्धि-अधिकार: कृत्वा, मोक्षविषयको य उद्देशः सदाशयः गन्तव्यस्थानकरूपोत्कृष्टोदेशोध्येयो यावत् तेन मोक्षोद्देशेन सहाविशेषेण-अभेदेन, अभेदं कृत्वा, यः सर्वदर्शनतुल्यतां, सर्वनयविशेषरूपसर्वदर्शनसमानतां पश्यति-निरीक्षते स 'शास्त्रवित्'-शास्त्रज्ञानविशारद उच्यते इति ॥ ७० ॥
माध्यस्थ्यमेव शास्त्रार्थरूपधर्मवादःमाध्यस्थ्यमेव शास्त्रार्थो, येन तच्चारु सिध्यति । स एव धर्मवादः स्यादन्यद् बालिश-वल्गनम् ॥७१॥
शास्त्रविषयकतात्पर्यार्थस्तु माध्यस्थ्यमेव समतैव-सर्वहितकरणप्रधाना समतैव येन तच्चारु सिध्यति' येन शास्त्रार्थेन स्याद्वादालम्बनपूर्वकसर्वदर्शनतुल्यतादर्शनं तन्माध्यस्थ्यं मनोहरं सिद्धयति-सिद्धं भवति ‘स एव धर्मवादःस्यात्' स माध्यस्थ्यरूपापूर्वशास्त्रार्थ एव धर्मवादः नान्यो वादः; अर्थात् सर्वनयाभिज्ञानां धर्मवादतो विपुलं श्रेयः, एकान्तवादिनां मिथ्यादृष्टीनां तु शुष्कवादविवादाच्च नियतमश्रेयो भवति, विजिगीषावर्ज परोपरि स्वमतसंस्थापनबुद्धिवर्जं जिज्ञासापूर्वकमागतस्य जिज्ञासोस्तत्त्वज्ञानद्वारा जिज्ञासापूर्तिरेव धर्मवादः श्रेयान् ॥
तथाहि- "श्रीमज्जिनभट्टसूरिवर्येण जिज्ञासयाऽऽगतेन श्रीहरिभद्रपुरोहितेन सार्धं धर्मवादः कृतः, तेन धर्मवादरूपशास्त्रार्थेन स पुरोहितहरिभद्रः, श्रीहरिभद्रसूरीश्वरोऽजायत, श्रीजिनशासनस्य एकदिग्गजपण्डितस्य महत आचार्यवर्यस्य प्राप्ति र्जज्ञे, परन्तु बौद्धैः सह यदा सकारणं हरिभद्रसूरि विवादसमराङ्गणे उत्तीर्णस्तदा माता, याकिनीमहत्तरा प्रवर्त्तिनीप्रमुखा, गुरु पार्श्वे समाजगाम, तद्वार्ता ज्ञात्वा तत्क्षणाद् गुरुदेवस्तत्रागत्य हरिभद्रसूरि विवादतो न्यवारयदिति ।" । __ अत एव कथ्यते 'अन्यद् बालिशवल्गनम्' धर्मवादाद् भिन्न-मन्यत् सर्वं बालिशानां मूर्खाणां मौखर्यपूर्वकं वल्गनं परस्परं कलहादिकरणमिति ॥ ७१ ॥