________________
अध्यात्मोपनिषत् अध्यात्मवर्जितं शास्त्रमपि संसार:पुत्रदारादि-संसारो, धनिनां मूढ-चेतसाम् । पण्डितानां तु संसारः, शास्त्रमध्यात्मवर्जितम् ॥ ७२ ॥
यथा मोहेन मूढं चेतो येषां तेषां धनिनां-धनवतां समृद्धिशालिनां पुत्रश्च दाराश्च पुत्रदारा आदौ यस्य तत् पुत्रदारादिकं वस्तु संसारो जन्मजरामरणाधुपाधिरूपसंसारवृद्धिहेतुत्वात्संसारः कथ्यते तथा पण्डितानांपाण्डित्यदर्पान्वितानां, 'अध्यात्मवर्जितम्' आत्महितकारिज्ञानक्रियादिरूपाध्यात्मतत्त्वशून्यं शास्त्रं-शासनत्राणरहितं वाङ्मयं शास्त्रं संसारजन्मादिभवपरम्पराहेतुत्वात्संसार उच्यते; यद्यध्यात्मपरिपूतं शास्त्रं, स्वशक्तिसमन्वितं सत्, संसारतो मुक्तये भवतीति ॥ ७२ ॥
समता हितमेकपदज्ञानं प्रमाणम्माध्यस्थ्यसहितं ह्येकपदज्ञानमपि प्रमा । शास्त्रकोटि र्वथैवाऽन्या, तथा चोक्तं महात्मना ॥७३॥ वादांश्च प्रतिवादांश्च, वदन्तोऽनिश्चितांस्तथा । तत्त्वान्तं नैव गच्छन्ति, तिलपीलकवद्गतौ ॥७४॥ 'माध्यस्थ्यसहितं ह्येकपदज्ञानं' समतासहितं-एकंपदज्ञानएकपदविषयकं स्वभावलाभस्य संस्कार-भावना-वासनाकारणभूतं ज्ञानं प्रमाणात्मकं सम्यग्ज्ञानं भवति यथा माषतुषमुनये गुरुणा माध्यस्थ्यसाधकमेकपदं ‘मा रुष मा तुष' इत्याकारकं दत्तं तेन मुनिना द्वादश वर्षाणि पदमेकं भावितं-मथितंध्यातं ततो द्वादशवर्षान्ते केवलज्ञानं प्राप्तमिति 'शास्त्रकोटितथाऽन्या' माध्यस्थ्य-समतारहिता, स्वभावलाभसंस्कारकारणशून्याऽन्या-बुद्धिविषयकान्धतारूपाज्ञानभृतां शास्त्राणां कोटि:१. निर्वाणपदमप्येकं भाव्यतेयन्मुहुर्मुहुः तदेवज्ञानमुत्कृष्टं ध्यान्थ्यमात्रमतस्त्वन्यत् ॥