SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ४४ अध्यात्मोपनिषत् मतःपरमशान्तिप्रभावानुभवतः परमात्मतत्त्वानुसन्धानद्वाराऽतिशेते, जयतीति यावत्, अत एव कथ्यते 'तदृष्टयैव हि माध्यस्थ्यं गरिष्ठमुपपद्यते'. =अनेकान्तशास्त्राभ्यासजन्यानेकान्तसर्वसापेक्षदृष्टिरूपसम्यग्दर्शनप्रधानत्वेन माध्यस्थ्यं-रागद्वेषपरिणत्यभावः, मध्यस्थन्यायसम्पन्नदृष्टिपूर्वकस्थितिः परमसमता-सर्वधर्मसहिष्णुतापूर्वकसर्वधर्मवद्भ्यः संपूर्णनिर्भयतान्यायपूर्वकं परम-सत्योद्धोषणं 'उपपद्यते' उपपन्नं सर्वथा भवतीति ॥ ६०॥ सर्वनयेषु स्वपुत्रतुल्याऽन्यूनाधिकबुद्धिर्भवतियस्य सर्वत्र समता, नयेषु तनयेष्विव। तस्यानेकान्तवादस्य, क्व न्यूनाधिकशेमुषी ?॥ ६१॥ 'यस्य' स्याद्वादरूपानेकान्तवादस्य पितृतुल्यस्य, 'सर्वत्र नयेषु तनयेषु इव समता' समस्तेषु नयेषु-स्वांश-वस्त्वंशरूपेषु तनयेषु-औरसस्वकीयपुत्रेषु यथा समता-निर्विशेषमनस्कता-भेदभावशून्यता वर्त्तते, 'तस्यानेकान्तवादस्य' जनक-समानस्य तस्य स्याद्वादरूपवादस्य (स्याद्वादवादिनो वा) 'क्व न्यूनाधिकशेमुषी'-न च कुत्रचिन्नये बुद्धे न्यूनताऽधिकता च अपितु समानबुद्धिकता विद्यते, बुद्धेर्मनसो वा सर्वत्र तुल्यता वर्ततेऽत एव लोकोत्तरसमता, तत्रापेक्षाभेदतः सर्वे नयाः स्वस्वस्थाने स्वस्वधर्मसत्तासाम्राज्यमनुभवन्तः परमधर्मसत्तां प्रति तिरस्कारबुद्धरत्यन्ताभावात्-मैत्रीसद्भावात्, सर्वनयेषु च समकक्षतया मतिं विदधत् साम्यभावो विजयते सदा स्याद्वादिनाम् ॥ ६१ ॥ स्याद्वादस्य नयाः स्ववस्त्वंशाः स्वतन्त्रा एवस्वतन्त्रास्तु नयास्तस्य, नांशाः किन्तु प्रकल्पिताः। रागद्वेषौ कथं तस्य, दूषणेऽपि च भूषणे ?॥ ६२॥ "तस्य'-अनेकान्तवादस्य-सर्वनयात्मकस्याद्वादस्य 'अंशा नयास्तु
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy