SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४२ प्रथम शास्त्रयोगशुद्धि-अधिकारः मध्ये न भेदो-विशेषो विधीयते-क्रियते अर्थात् संक्लिष्टानां मध्ये आनन्तर्यं न विशेषविधायकमतः क्षणानां-निर्विशेषविधायक-हिंसादिनियामकमानन्तर्यमन्यथासिद्धत्वेन निरर्थकमिति। (अवश्यक्लृप्तनियतपूर्ववर्त्तिन एव कार्यसम्भवे तद्भिन्नमन्यथासिद्धं, दण्डादिभिरवश्यक्तृप्तप्रतिनियतपूर्ववर्तिभिरेव घटादिकार्यसम्भवे रासभादिकमन्यथासिद्धम्) ॥ ५८॥ . भेदकानन्तर्येण समग्रा क्रियाभिदा भिद्यतेमनोवाक्काययोगानां, भेदादेवं क्रियाभिदा । समग्रैव विशीर्येतेत्येतदन्यत्र चर्चितम् ॥ ५९॥ एवं सर्वत्र क्षणानां भेदकारकानन्तर्यद्वारा, मनोयोगभेदात्मामानसिकक्रियाभेदः, वायोगभेदजन्यवाचिक-क्रियाभेदः, काययोगभेदप्रयुक्तकायिकक्रियाभेद इत्यादिसमस्तक्रियाभेदानां विनाश:विशरणं स्यादित्येतद्वस्तु, अन्यत्र-एतद्ग्रन्थ-भिन्नग्रन्थेषु चर्चाविषयीकृतमेव तत्र निरीक्षणीयमित्यतिदेशः ॥ ५९॥ अनेकान्तशास्त्रं सर्वान्यशास्त्राद्विशिष्यते - नित्याऽनित्याद्यनेकान्त-शास्त्रं तस्माद्विशिष्यते। तद्द्दष्ट्यैव हि माध्यस्थ्यं, गरिष्ठमुपपद्यते॥६०॥ 'नित्याऽनित्याद्यनेकान्तशास्त्रं' भिन्नभिन्नापेक्षारूपदृष्टिकोणतो नित्यत्वाऽनित्यत्वसत्त्वासत्त्वसामान्यविशेषाद्यनन्त-धर्मावच्छिन्नवस्तुप्रतिपादकानेकान्तरूपं शास्त्रं (शासनरक्षणगुणसामर्थ्ययाथार्थ्यविशिष्टं) 'तस्मात्'=नित्यानित्यायेकान्त-द्रव्यपर्यायात्मकवस्तुप्रतिपादनपरायणसर्वनयाभासादिरूपदुर्नयप्रतिपादितशास्त्रतः, विशिष्यते' समन्वयसिद्धिपारस्परिकं दृष्टिकोणं समीक्ष्य समाधानदृष्टिसर्वधर्ममिलनतः, एकान्ताग्रहविग्रहविरा
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy