________________
४२
अध्यात्मोपनिषत् पदार्थानां स्वत एव स्वयमेव विनाशप्रकृतिकानां को नाशहेतुरन्योऽस्तु? स्वयमेव स्वमुत्पादयति क्षणानन्तरं नाशयति चेति ॥ ५६॥
क्षणानामनन्तरत्वं हिंसाहेतुः कथं न ?आनन्तर्यं क्षणानां तु, न हिंसादिनियामकम्। विशेषाऽदर्शनात्तस्य, बुद्धलुब्धकयोर्मिथः ॥ ५७॥
अत्र बौद्धः-सूकरस्यान्त्यक्षणो नरादिक्षणहेतुर्भवतु ! ततस्तत्राऽपि हिंसकत्वापतने स्वः स्वस्यहिंसको भवेत्, अर्थात् नरादिक्षणहेतु र्लुब्धकोऽपि हिंसकत्वेन सिद्ध इति चेत् तदा भवदीये भगवति बुद्धेऽपि सूकरहिंसकत्वापत्तिर्भविष्यति, यतः सूकरस्य विजातीयधारारूपनरादिक्षणोत्पादे यथा तत्क्षणपूर्वे लुब्धकोऽस्ति ततः स हेतुर्जातः, तथा तत्क्षणपूर्वे भगवान् बुद्धोऽप्यस्त्येव, द्वयो न कश्चिद्विशेषः। एवं बुद्धोऽपि सूकरहिंसको भविष्यति। एतत्तु भवतामनिष्टमेवेति विवेचनत एतत्सिद्धमेव 'क्षणानां'-पदार्थानामानन्तर्यं अनंतरत्वं तु न हिंसादि-नियामकम्-न हिंसादि कार्य प्रति हेतु र्यतस्तस्य-आनन्तर्यस्य-(अनन्तरत्वे) मिथस्तत्क्षणपूर्ववर्तिबुद्धलुब्धकयो विशेषस्य दर्शनाभावादिति ॥ ५७॥
हिंसादिनियामकः संक्लेशनामको विशेषोऽस्त्येव कथं न ?संक्लेशेन विशेषश्चे-दानन्तर्यमपार्थकम्। न हि तेनाऽपि संक्लिष्ट-मध्ये भेदो विधीयते॥५८॥
बौद्धः प्राह-अत्रानन्तरत्वे बुद्धलुब्धकयोर्मध्ये समानत्वेऽपि दुष्टाशयरूपसंक्लेशद्वारा विशेषो वर्तते, लुब्धके संक्लेशो वर्त्तते न बुद्धेऽतो. ऽनन्तरत्वसंक्लेशोभयविशिष्टो लुब्धक एव हिंसको न बुद्ध इति चेत् तदा 'क्षणानामानन्तर्यं हिंसादिनियामकम्' इति सिद्धान्तो निरर्थकोऽर्थहीन एव, हि-यतः, 'तेनापि' तेनाऽनन्तर्येणाऽपि, संक्लिष्टानां दुष्टाशयवतां