SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ प्रथम शास्त्रयोगशुद्धि-अधिकारः देशकालाऽनवच्छेदेन बन्धश्च मोक्षश्च न भूतौ भवतो भविष्यतश्चात् कालत्रयाऽवच्छेदेन एकात्मन्येव बन्धमोक्षाविति।। . आत्मनो नित्यैकान्तवादे नित्यनिर्लेपवादे कथं बुद्धिलेपः ?सांख्यमते नित्यनिर्लेपत्वावच्छिन्नात्मनो व्यवस्थायां-निर्णये जडस्वरूपबुद्धिलेपः-प्रकृतिसम्बन्ध:कः ? बुद्धिलेपवानात्मेति कल्पने नित्यनिर्लेपवानात्मेति व्यवस्थाया भङ्गः स्यात् बन्धमोक्षतत्त्वसिद्धौ यदि बुद्धिलेपकल्पना तदा (बुद्धेरेव) प्रकृतेरेव बन्धमोक्षौ प्रकृतिविकृत्यनात्मकस्य पुरूषस्य न बन्धमोक्षौ, यतः सामानाधिकरण्येन, बन्धमोक्षौ सङ्गतो, तस्मात्प्रकृति (जड-बुद्धिः) रूपाधिकरणे बन्धमोक्षौ समागतौ जडरूपपरबुद्धौ कथं बन्धमोक्षौ ? तत्तु सर्वथाऽनिष्टमेव, यश्चेतनो बध्यते स मुच्यते इति, वचनात् अतः सांख्यमते आत्मनि-पुरुषेबन्धमोक्षसंसारमुक्तिरूपतत्त्वस्य सर्वथाऽभावप्रसङ्गः स्यात् अतः नित्यनिर्लेपैकान्तवादे आत्मा, संसारी वा सिद्ध इति आत्मव्यवस्थाया भङ्गोऽतः सांख्यमते सिद्धितदुपायरहितत्वे कथं मुमुक्षुणा ज्ञानिना तन्मतं ग्राह्यमेवेति? ॥ ५५ ॥ अनित्यैकान्तपक्षे हिंसादिकमयुक्तम् - अनित्यैकान्तपक्षेऽपि, हिंसादिकमसङ्गतम्। स्वतो विनाशशीलानां, क्षणानां नाशकोऽस्तु कः? ५६। बौद्धमते-आत्मन एकान्ताऽनित्यत्वे, हिंसादिकं (हिंसा आदौ यस्मिंन्स्तत् कृत्याकृत्यादि सर्व) असङ्गतम्-सङ्गति रूपयुक्तिहीनमर्थादसम्भवाघ्रातमिति कथमसंगतिरिति चेत् नाशहेतोरयोगेन क्षणिकत्वं साध्यते घटादिपदार्थनाशकत्वासंभवतः सर्वे भावाः स्वभावत उत्पद्यन्ते सद्यो विपद्यन्ते च एवं प्रतिक्षणं नाशोत्पादविषयकधारा प्रचलति अत एव कथ्यते 'स्वतो विनाशशीलानां क्षणानां नाशकोऽस्तु कः' क्षणानां
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy