________________
अध्यात्मोपनिषत्
यो ध्वंसः मरणरूपहिंसा परिभाष्यते, जैनः प्राह - तन्न सम्यक्कथनं, यतो मन:संयोगनाशस्यार्थसमाजतः (द्वितीयसामग्रीतः) सिद्धेः, मन:संयोगनाशादौ च अन्यव्यक्तिरूपहिंसकस्य हिंसारूपव्यापारस्यानुपलम्भात् अनुपलब्धेरननुभवादिति नित्यैकान्तवादे हिंसा न घटते तदाऽहिंसादिधर्मः कथं घटेतेति ॥ ५४॥
४०
सांख्यमते नित्यनिर्लेपात्मव्यवस्थायां का बुद्धिः ? - बुद्धिलेपोऽपि को नित्य - निर्लेपात्मव्यवस्थितौ । सामानाधिकरण्येन, बन्धमोक्षौ हि सङ्गतौ ॥ ५५ ॥
सांख्यमते=पुरुषस्य च प्रकृतिविकृत्यनात्मकस्य अपरिणामिनित्यस्य चिद्रूपस्य पुष्करपलाशवन्निर्लेपस्यात्मनो न बन्धमोक्षौ, किन्तु प्रकृतेरेव, 'नानाश्रयायाः प्रकृतेरेव बन्धमोक्षौ न पुरुषस्ये' ति तदप्यसारम्, अनादिभवपरम्परानुबद्धया प्रकृत्या सह यः पुरुषस्य विवेकाऽग्रहणलक्षणोऽविष्वग्भावः स चेन्न बन्धः, तदा को नामाऽन्यो बन्धः स्यात्, प्रकृति: सर्वोत्पत्तिमतां निमित्तमिति च प्रतिपद्यमानेनाऽऽयुष्मता संज्ञान्तरेण कर्मैव प्रतिपन्नम् । तस्यैवंरूपत्वादचेतनत्वाच्च ततः पुरुषस्यैव बन्धमोक्षौ, संसारश्च स्वीकरणीय एव मिथ्यादर्शनाविरतिप्रमादकषाययोगेभ्योऽभिन्नस्वरूपत्वेन कर्मबन्धहेतुभ्यो बन्धसिद्धौ च सिद्धस्तस्यैव निर्बाधः संसारः, बन्धमोक्षयोश्चैकाधिकरणत्वाद य एव बद्धः स एव मुच्यते इति पुरुषस्यैव मोक्ष आबालगोपालं तथाप्रतीते: इत्यादि विवेचनतः सिद्ध एव नित्यस्य निर्लेपस्य आत्मनो व्यवस्थितौ - व्यवस्थायां, कापिलानां को बुद्धिलेपः ? अर्थात् न कोऽपि बुद्धिलेपो यतो हि 'सामानाधिकरण्येन बन्धमोक्षौ संगतौ' य आत्मा बद्धः स एव मुच्यते इत्यपेक्षया एकात्मरूपाधिकरणाऽवच्छेदेन एकाधिकरणवृत्तित्वेन - भिन्नाधिकरणाऽवृत्तित्वेन सामानाधिकरण्यं बन्धे च मोक्षे च वर्त्तते, कदाचिदपि स्वात्मानं विमुच्य