SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ प्रथम शास्त्रयोगशुद्धि-अधिकारः भासरूपसर्वाद्वैतदर्शनशास्त्रं, साङ्ख्यदर्शनशास्त्रं च, व्यवहारनयाभासरूपचार्वाकदर्शनशास्त्रम्, ऋजुसूत्रनयाभासरूपबौद्धदर्शनशास्त्रम्, शब्दनयाभासरूपशब्दब्रह्मवादिनः शास्त्रम्, समभिरूढनयाभास-एवंभूतनयाभास द्रव्यास्तिकनयाभास-पर्यायार्थिकनयाभासअर्थनयाभास-शब्दनयाभासअर्पितनयाभासअनर्पितनयाभास-व्यवहारनयाभास-निश्चयनयाभासज्ञाननयाभासक्रियानयाभासादय एते दुर्नयसंज्ञिताः, तत्प्रतिपादकशास्त्रं च तापशुद्धं नार्थात् दुर्नयमताभिनिविष्टबुद्धिभिस्तीर्थान्तरीयैस्तद्धर्मिगतधर्मान्तरनिराकरणाऽभिप्रायेणैव सावधारणं तत् प्रयुज्यते, यथा नित्यमेव वस्तु, अनित्यमेव वेत्यादि, तदा तादृशपदार्थाप्रसिद्ध निरालम्बनत्वादलीकतां प्राप्नुवत्केन वार्येत, तस्मानयप्रमाणाऽभिज्ञः स्याद्वादी सकलादेशविकलादेशावधिकृत्य यद् ब्रूते तत्तत्सत्यं, दुर्नयमतावलम्बिनो यद्यदाचक्षते तत्तदलीक़मिति भावः ॥ ५३॥ नित्यैकान्तमतस्य निराकरणम् - नित्यैकान्ते न हिंसादि, तत्पर्यायाऽपरिक्षयात्। मनःसंयोगनाशादौ, व्यापारानुपलम्भतः॥ ५४॥ सांख्या एवं मन्यन्ते हि आत्मा नित्य एवे ‘ति नित्यैकान्ते-द्रव्यपर्यायोभयरूपेण सर्वथाऽऽत्मन एकान्तनित्यत्वे न हिंसादि तत्पर्यायाऽपरिक्षयात्' सांख्यमते हिंसादि (आदिनाऽहिंसादि) न घटते यतः तस्यात्मनः मनुष्यादिपर्यायाणामपरिक्षयात्-अविनाशात् -नित्यत्वात् (अप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वं) नित्यत्वमिति अर्थात् मनुष्यादिशरीरगतप्राणानां नाशो हिंसोच्यते तदत्र न घटते, सांख्यः प्राह:-'मनः संयोगनाशादौ' आत्मनो नित्यत्वेऽपि विवक्षित-हिंसादि न घटते तथापि अस्मन्मते परिभाषितहिंसादि घटते तथाहि-लोके व्यक्तेर्मरणमुच्यते तदात्मव्यक्तेर्यश्चरमात्ममन:संयोगोऽथवा चरमेन्द्रियमन:संयोगोऽस्ति तस्य
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy