SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अध्यात्मोपनिषत् भगवतः शिष्यो जातः, एवं शेषा दशाऽपि विद्वांसो भिन्नभिन्ननयाऽपेक्षया वेदस्य समीचीनार्थं दर्शयित्वा प्रतिबोधितास्तेऽपि शिष्या जाता, गणधरपदवीभाजः संजाताः, जैनदर्शनेऽद्यापि गणधरवादः प्रतिष्ठितः प्रसिद्धश्चातः समीक्षणीयःसर्वैरिति विज्ञपयाम्यहम् ॥ ५१॥ अथ लोकायतिकानां व्यवहारदुर्नयावलम्बिना सकलतान्त्रिकबाह्यानां किं सम्मत्याऽसम्मत्या वेति तेषामवगणनामेवाऽऽविष्कुर्वते विमतिः सम्मतिर्वाऽपि, चार्वाकस्य न मृग्यते। परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥५२॥ चार्वाकस्य-नास्तिकस्य, विमति-विरूद्धप्रतिपत्तिः, सम्मतिः सम्यक्प्रतिपत्तिा , न मृग्यते-न विचार्यते, कुतः? यस्य चार्वाकस्य शेमुषी-बुद्धिः, 'परलोकात्ममोक्षेषु' परलोके जीवे मोक्षे च, मुह्यति-मूढा स्याद् यदाऽऽबालगोपालप्रसिद्ध जीवाद्यपि न जानाति, तस्य का विमतिः ? सम्मतिर्वेत्यर्थः, ततः एवमेव सिद्धं सर्वमतसम्मतमनेकान्तं। यत एव चानेकान्तात्मकं वस्तूपपत्तिक्षममिति । येषां परलोकात्ममोक्षेष्वेव मोह:तैःसह विचारान्तरविमतिसम्मती अपर्यालोचितमूलारोपणकप्रासादकल्पनसंकल्पकल्पे इति भावः॥ ५२॥ तापशुद्धाऽशुद्धशास्त्रयोर्निरूपणम् - तेनाऽनेकान्त सूत्रं यद्, यद्वा सूत्रं नयात्मकम्। तदेव तापशुद्धं स्याद्, न तु दुर्नय-संज्ञितम्॥ ५३॥ तेन-सार्वतन्त्रिकस्याद्वादसिद्धान्तहेतुना, प्रमाणरूपानेकान्तमयशास्त्ररूपसूत्रं (दिग्दर्शकत्वेन) यद् अथवा प्रमाणकारकनयमयशास्त्रसूत्रं यद्, तदेव शास्त्रपरीक्षकतापशुद्धिपरीक्षायामुत्तीर्णमेव, 'न तु दुर्नयसंज्ञितं' परन्तु नयाभाससंज्ञासमन्वितं शास्त्रं तापशुद्धं न, नयाभासरूपदुर्नयशास्त्रं नैगमाभासरूपवैशेषिकनैयायिकयोः शास्त्रम्, संग्रहनयाभासावान्तरभूतपरसंग्रहा
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy