SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ प्रथम शास्त्रयोगशुद्धि-अधिकारः ३७ = 1 कुर्यादिति (ब्रह्मसाक्षात्कारान्तरं हि घटादीनां बाधः यत्र त्वस्य सर्वमात्मैवाऽभूत् तत् केन कं पश्येत् (बृ. ४-५ - १५ ) इति श्रुतेः, न तु संसारदशायां बाधः, 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति' (बृ. ४-५ - १५ ) इति श्रुते: व्यवहारदशायां संसारदशायां द्वैतमिव द्वैतं भवतीव । प्रपञ्चोपादानभूतेन अज्ञानेन द्विचन्द्रादिदर्शनवत् क्रियाकारकफल-लक्षणकल्पितभेदादिव भवति, वास्तविकं द्वैतं न भवति तथा चाबाधितपदेन संसारदशायामबाधितत्वं विवक्षितमिति न घटादिप्रमायामव्याप्तिः । तदुक्तम् देहात्मप्रत्ययो यद्वत् प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात् ॥ १ ॥ इति आत्मनिश्चयाद् ब्रह्मसाक्षात्कारपर्यन्तमित्यर्थः । लौकिकमिति घटादिज्ञानमित्यर्थः । वेदान्तपरिभाषायां निरुपाधिकपरब्रह्मसोपाधिककार्यब्रह्मभेदेन संसारदशापरमार्थदशाभेदः । अत्र 'द्वासुपर्णा सयुजासख्या समानं वृक्षं परिषस्वजाते' (मुं.३/१) एतद् श्रुतिमध्ये संसारीजीवः संसारकर्मफलानुभववान्, तथेश्वररूपब्रह्म, असंसार त्वसम्पन्नं प्रतिपाद्यते। तत्त्वमसि रूपमहावाक्यस्य तात्पर्यं चिन्तनीयम् । संसारबन्धनेन संसारिजीवब्रह्मबद्धं व्यवहारत - उपचारत:, ईश्वररूपं ब्रह्म असंसारित्वेन परमार्थतोऽबद्धमुच्यते ॥ ५० ॥ सर्वदर्शनशास्त्रव्यापकं स्याद्वादं वेदा न निराकुर्युः - ब्रुवाणा भिन्नभिन्नार्थान्, नयभेदव्यपेक्षया । प्रतिक्षिपेयुर्नो वेदाः स्याद्वादं सार्वतान्त्रिकम् ॥ ५१ ॥ " वेदाः- श्रुतयः, भिन्नाभिन्ननयानामपेक्षया, भिन्न-भिन्नार्थान् ब्रुवाणावदन्तो वेदाः सर्वतन्त्रव्यापिनं सार्वतान्त्रिकं स्याद्वादं न प्रतिक्षिपेयुर्निराकुर्युः - तथाहि परमात्मना महावीरेणेन्द्रभूतिनामा मधुरवाचा गौतमगोत्र एवोक्त: 'भो गौतमेन्द्र भूते ! वेदार्थं विभावयेति कथयित्वा वेदस्य निश्चयनयापेक्षया सम्यगर्थो विवेचितः, तमर्थं विदित्वा गौतमेन्द्रभूति
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy