________________
अध्यात्मोपनिषत्
'तद्विलक्षणं' प्रत्यक्षविलक्षणं ज्ञानं परोक्षज्ञानं प्रमेयांशगतज्ञानं परोक्षं, प्रमितिप्रमातृरूपांशे गतं प्रत्यक्षज्ञानं, एकं (ज्ञानत्वापेक्षयैकं) ज्ञानं वदन्प्रतिपादयन् गुरुः, (प्रभाकर: ) अनेकान्तं स्याद्वादं न प्रतिक्षिपेत्, न निराकुर्यादिति (१ - पूर्वमीमांसकः) ॥ ४८ ॥
३६
भट्टो वा मुरारिरपि स्याद्वादे संमतिं ददाति - जातिव्यक्त्यात्मकं वस्तु, वदन्ननुभवोचितम् । भट्टो वाऽपि मुरारिर्वा, नाऽनेकान्तं प्रतिक्षिपेत् ॥ ४९ ॥ 'जातिव्यक्त्यात्मकं’=जातिः सामान्यं च व्यक्ति विशेषश्च, तावेवात्मा-स्वरूपं यस्य तत् जातिव्यक्त्यात्मकं वस्तु, अर्थात् सामान्यविशेषोभयस्वरूपाऽवच्छिन्नं वस्तु, यथा वस्तुनः स्वरूपं सामान्यं तथा विशेषश्च, वस्तुनि तादात्म्यसम्बन्धेन सामान्यं यथा वर्त्तते तथा विशेषश्च 'तदभिन्नाभिन्नस्य तदभिन्नतान्यायेन, सामान्याऽभिन्नो विशेषः, विशेषाऽभिन्नं सामान्यं, सामान्यविशेषोभयत्वाऽभिन्नं वस्त्वेवेत्यनुभवोचितं जातिव्यक्त्यात्मकं वस्तु, वदन् भट्टो (मीमांसकविशेषः) मुरारि र्वा, अनेकान्तं स्याद्वादं न प्रतिक्षिपेत् - तिरस्कुर्यादिति, मीमांसामांसलमतिर्मीमांसकोऽपि सर्वज्ञाऽपलापं प्रलपन् संशयज्ञानमेकमनेकाकारं प्रतिजानानो नानेकान्तं प्रतिक्षिपेत् ॥ ४९॥
ब्रह्मवेदान्तिनोऽनेकान्तेऽनुमतिः -
अबद्धं परमार्थेन, बद्धं च व्यवहारातः ।
ब्रुवाणो ब्रह्मवेदान्ती, नाऽनेकान्तं प्रतिक्षिपेत् ॥ ५० ॥ परमार्थेन - वस्तुतः, अबद्धं-संसारबन्धनरहितमात्मानं, व्यवहारतः लोकानुकूलप्रवाहसम्बन्धव्यवहारापेक्षया, बद्धं-संसारबन्धनसहितमात्मानं ब्रुवाणो-वदन् ब्रह्मवेदान्ती अनेकान्तं स्याद्वादमतं न प्रतिक्षिपेत् निरा