________________
प्रथम शास्त्रयोगशुद्धि-अधिकारः
३५
म्बितम्-चित्रपटाद्यनेकाकार मिश्रितम्, इच्छन् - अभ्युपगच्छन्, तथागतो =बौद्धो, नानेकान्तं प्रतिक्षिपेत् निराकुर्यात् तस्याऽनेकान्तवादनिराकरणं न बलवदनिष्टाननुबन्धीत्यर्थः । स हि परमाणौ मानाभावात्तत्सिद्धयधीनस्थूलाऽवयवित्वस्याऽप्यसिद्धे नलादेः प्रतिभासत्वान्यथाऽनुपपत्त्या, विषयं विनाऽपि वासनामात्रेण धियां विशेषाच्च ज्ञानाद्वैतमेव स्वीकुरुते तच्च ज्ञानं ग्राहकतयैकस्वभावमपि ग्राह्यंतयाऽनेकीभवतः स्वांशान् गृह्णदनेकमपि, इति कथं न तस्यानेकान्तवादिकक्षापञ्जरे प्रवेश: ? । उ यशो वि.म. ॥ ४६॥
स्यादवादे नैयायिकवैशेषिकयोः संवाद:
चित्रमेकमनेकं च रूपं प्रामाणिकं वदन्।
?
योगो वैशेषिको वाऽपि नाऽनेकान्तं प्रतिक्षिपेत् ॥ ४७ ॥ एकं चित्रं रूपं तत्रैव चानेकाकाररूपं प्रामाणिकं प्रमाणसिद्धं वदन्तावक्षपादकणादौ न स्याद्वादं निराकुरुतः। तेषां हि मते मेचकज्ञानमेकमनेकाकारमुररीक्रियते, यतस्तेषामेवं सिद्धान्तसिद्धिः, 'एकस्यैव चित्रपटादेश्चलाचलरक्तारक्तावृतानावृताद्यनेकविरुद्धधर्मोपलभ्भेऽपि दुर्लभो विरोधगन्धः', तस्मादस्मद्वद् यौगवैशेषिकावप्यनेकान्तमताऽनुमतिं वितन्वतौ स्तः स्वयं हि ये एकत्र घटे व्याप्यवृत्त्येकं चित्रमव्याप्यवृत्तिचित्रान्तरं चाभ्युपगच्छन्ति तेषामनेकान्तवादाऽनादरो न ज्यायानिति भावः ॥ ४७॥
गुरुरपि स्याद्वादं सन्मानयति
प्रत्यक्षं मितिमात्रंशे, मेयांशे तद्विलक्षणम् । गुरुर्ज्ञानं वदन्नेकं नाऽनेकान्तं प्रतिक्षिपेत् ॥ ४८ ॥ मितिश्च माता च, मितिमातरौ तयोरंशे-भागे= प्रमाणफलरूपप्रमितिरूपांशे विशिष्टज्ञातृरूपप्रमातृरूपांशे च प्रत्यक्षं तथा मेये प्रमेयरूपांशे,