________________
३४
अध्यात्मोपनिषत् वैमुख्यमाख्याति, तन्मते हि प्रकृतिरेका महदाद्यात्मिका अनेकाऽऽकारा अभ्युपगम्यते ततः साङ्ख्यो-ऽप्यनेकान्तमतसम्मुख एव.
तत्र सत्त्वरजस्तमोरूपगुणत्रयस्यार्थः सत्त्वगुणेन वदननयनादिप्रसन्नता, प्रसादकार्य - लिङ्गं स्यात्, रजोगुणेन तोषः स चाऽनन्दपर्यायः ‘तल्लिङ्गानि स्फूर्त्यादीनि,' तमोगुणेन च दैन्यं जन्यते वंदनविच्छायतानेत्रसंकोचादिव्यङ्ग्यं दैन्यं, आदिशब्देनाध्यात्मिकाधिदैवताधिभौतिकं दुःखमाक्षिप्यते.
(विरुद्धैः सत्त्वाद्यैः - सत्त्वरजस्तमोभिः प्रीत्यप्रीतिविषादात्मकतया लाघवोपष्टम्मगौरवधर्मतया विलक्षण स्वभावैः- गुणै गुम्फितं-तत्साम्याऽवस्थात्वमापन्नं, प्रधानमङ्गीकुर्वन् साङ्ख्यो यद्यनेकान्तं प्रतिक्षिपेत्तदा न संख्यावतां परीक्षकाणां मुख्यः, तत्प्रतिक्षेपे स्वाभिमतप्रधानस्यैव विलयेन स्वाधिरूढशाखाच्छेदनकौशलशालित्वात्तस्य सङख्यावतामिति निर्धारणे षष्ठी! यदि तु संख्यावतां मध्ये मुख्यस्तदाऽनेकान्तं न प्रतिक्षिपेदेव।) महोपा. यशो वि. गणी. ॥ ४५ ॥
अनेकान्ते बौद्ध-संमतिमाविष्करोतिविज्ञानस्यैकमाकारं, नानाऽऽकारकरम्बितम्। इच्छंस्तथागतः प्राज्ञो, नानेकान्तं प्रतिक्षिपेत्॥ ४६॥ विज्ञानस्य-संविद एकमेव स्वरूपं, नानाचित्रपटाद्यनेकाकारमिश्रं समभिलषन्, बौद्धो नाऽनेकान्तं निराकुर्यात्, अत एव प्राज्ञः, "ज्ञानाद्वैतवादिनां हि मते एकमेव चित्रज्ञानं, ग्राहकं तस्य चांशा ग्राह्याः, इत्येकस्यैव ग्राहकत्वं चाऽभ्युपगच्छन्, कथमनेकान्तवादं निराकुर्यात्" यदि प्रकर्षेणाऽज्ञो न स्यात् यत एकत्र चित्रपटीज्ञाने नीलानीलयोः, परस्परविरूद्धयोरप्यविरोधेनोररीकारात्। तस्मात्तथागतैरभ्युपगत एव स्याद्वादः॥. 'विज्ञानस्य' संविदः, एकमाकारं-स्वरूपं, नानाकारकर