________________
प्रथम शास्त्रयोगशुद्धि-अधिकारः सजातीयवस्तुपरम्पराकल्पनस्य विरामाभावः यथा जातौ जात्यन्तरं तत्रापि जात्यन्तरं इत्येवं तत्र तत्र जात्यंतरस्वीकारेऽनवस्था अवकाशेन-स्थानेन सहिताः सावकाशा न, कथमिति चेत् 'ते हि प्रमाणसिद्धार्थात् प्रकृत्यैव पराङ्मुखाः' =प्रमाणतया प्रतिष्ठाप्राप्तस्याद्वादरूपार्थतः प्रकृत्या-स्वभावत एव, ते-आत्माश्रयादिदोषाः, पराङ्मुखा विमुखाः-वैमुख्यकारिण एव ॥ ४३ ॥
स्याद्वादस्य द्वेषी जनोऽपि कः ?उत्पन्नं दधिभावेन, नष्टं दुग्धतया पयः। गोरसत्वात् स्थिरं जानन्, स्याद्वादविट जनोऽपि कः॥४४॥
गोरसरूपं पयो, दुग्धत्वेन नष्टं सत्, दधिभावेन-दधित्वेनोत्पन्नं सत्, गोरसत्वेन स्थिरं-ध्रुवं जानन् को जनोऽपि स्याद्वादद्वेषी स्यात्? अपितु न कोऽपि जनः स्याद्वादद्वेषी स्यादेव यथा गोरसं दुग्धतया विनश्यद् दधितयोत्पद्यमानं गोरसतया तिष्ठत्येव, अर्थात् गोरसे स्थायिनि पूर्वदुग्धपरिणामविनाशोत्तरदधिभावोत्पादौ सम्भवन्तौ प्रत्यक्षादिप्रमाणबलेनोपलब्धौ तौ च कथमपह्नोतुं पार्यते ? एवं पदार्थसार्थे स्याद्वादरूपमुत्पादव्ययध्रौव्यभावं पश्यन्तु शेमुषीमुख्याः । ततः सिद्ध त्रयात्मकं वस्तुतत्त्वमिति ॥ ४४॥
कापिलोऽनेकान्तवादे स्वमतं दर्शयति - इच्छन् प्रधानं सत्त्वाद्यै-विरुद्धै गुम्फितं गुणैः । साङ्ख्यः संख्यावतां मुख्यो, नाऽनेकान्तं प्रतिक्षिपेत्।४५ ।
सङ्ख्यावतां-विदुषां मुख्यः- प्रधानः, साङ्ख्यः-कापिलः, प्रधानं प्रकृति महदाधुत्पादमूलहेतुभूतं सत्त्वरजस्तमोभिर्गुणैरन्योऽन्यविरोधदुर्धरैरपि गुम्फितं - ग्रथितमविरुद्धतयाऽभिदधानः स्वात्मनो नाऽनेकान्तमत