SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ३२ अध्यात्मोपनिषत् एतदेवाह-एवमुक्तरीत्या भजनाऽनेकान्तः सम्भवति, नियमश्चैकान्तश्च, समयस्य सिद्धान्तस्य "रयणप्पभासिय सासया सिय असासया'- इत्येवमनेकान्तप्रतिपादकस्य- "दव्वट्ठयाए सासयापज्जवट्ठए असासया" इत्येवं चैकान्ताभिधायकस्याविरोधेन न चैवमव्यापकोऽनेकान्तवादः, स्यात्पदसंसूचितानेकान्तगर्भस्यैवैकान्तस्वभावत्वादनेकान्तस्यापि स्यात्कारलाञ्छनैकान्तगर्भस्यानेकान्तस्वभावत्वात् न चानवस्था देशकात्या॑भ्यामवयवावयविरूपस्य वस्तुन इव स्याद्वादस्याऽप्येकान्ताऽनेकान्तात्मकस्यैव प्रमाणादेव प्रतीतेः) ॥ ४२ ॥ प्रमाणसिद्धार्थाद् दोषाणामनवकाशत्वम्आत्माश्रयादयोऽप्यत्र, सावकाशा न कर्हिचित् । ते हि प्रमाणसिद्धार्थात्, प्रकृत्यैव पराङ्मुखाः ॥४३॥ य एव दोषा:किल नित्यवादे, विनाशवादेऽपि समास्ते एव अर्थात् नित्यैकान्तवादे य एव दोषा अनित्यैकान्तवादिभिः प्रसञ्जिताः क्रमयौगपद्याभ्यामर्थक्रियानुपपत्तिविरोधव्यभिचारादयः त एव विनाश वादेऽपि क्षणिकैकान्तवादेऽपि समास्तुल्याः, नित्यैकान्तवादिभिः प्रसज्यमाना अन्यूनाधिकाः । सामान्यविशेषाद्येकान्तवादेषु समा दोषा ज्ञेयाः, तथा विरोध-वैयधिकरण्य-अनवस्था-संकर-व्यतिकरसंशयाप्रतिपत्तिविषयव्यवस्थाहानीत्यादयो दोषाः परोद्भाविता:स्याद्वादस्य जात्यन्तरत्वाद्निरवकाशा एव, एवं चा 'ऽत्रापि आत्माश्रयादयो न कर्हिचित् सावकाशाः' अर्थात् कदाचनाऽत्रापि-जात्यन्तररूपेऽनेकान्तवादे आत्माश्रयान्योन्याश्रयानवस्थादिदोषा आत्माश्रयः स्वस्य स्वापेक्षितत्वेऽनिष्टप्रसंगस्तर्कदोषः, परस्परज्ञान सापेक्षज्ञानाश्रयोऽन्योऽन्याश्रयः तर्कदोषः, अनवस्था यथा क्लृप्तवस्तु
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy