Book Title: Acharang Sutram Pratham Shrutskandh Author(s): Vikramsenvijay Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra View full book textPage 9
________________ WE सद्भाग्येन द्वयधिकद्विसहस्रविक्रमाब्दे राजस्थानविहरणे महोपकारिपूज्यपादस्वर्गीयपरम- गुरुदेवाचार्य श्रीमद् विजयप्रेमसूरीश्वर श्रीमुखेन श्रीआचाराङ्गसूत्रस्य सर्वप्रथमा वाचना मया लब्धा तदैव आचाराङ्गस्याचारधर्मस्य वात्तर्या मम चित्तं सहर्षमनरीनृत्यत । तत्पश्चात् मया चतुः आचाराङ्गसूत्रस्य वाचना पू० श्रमणश्रमणीभ्यो दत्ता एवं यथा यथा परिशीलनं जातं तथा तथा तद्धर्मस्य माधुर्येणाहमतिप्रमोदितवान्, एतदाचारधर्ममात्मसात् कर्तुं च स्फुरणा जाता, किन्त्वयं प्रमत्तजीव एतत्पालने कातर आसीत् । एतच्छिथिलता मम हृदये सततमशल्यायत । एकदा चेतसि स्फुरितम् एतत्सूत्रस्य यदि पुनः पुनः परिशीलनं स्यात् तर्ह्यवश्यमेवैषा शिथिलता पलायेत, आचारप्रासादस्य च सोपानश्रेण्यारोहणे सफलता प्राप्येत । एतदर्थं यदि सूत्राऽर्थगमनिका लघुटीका स्यात्तर्हि सुबोधा स्यात् । तस्मान्मया परमगुरुदेव-संयमत्यागतपोमूर्तिसुविशालगच्छाधिपति-भवोदधितारकसिद्धान्तमहोदधीनां पू. आ. भ. विजय प्रेमसूरीश्वराणां लघुशिष्य-विद्वद्वर्यमुनिवर्यश्रीकुलचन्द्रविजयः प्रेरितः । मत्प्रेरितेन मुनिवर्येण एतत्सूत्रस्याक्षरगमनिकाकार्यारम्भः कृतः । भावमङ्गलप्रसादेन मुनिवर्येण शीघ्रातिशीघ्रं लेखनकार्यं कृत्वा संशोधनार्थं मह्यं प्रेषितम् । अनया लघुटीकया येषां सूत्राणामुपरि टीकाकृद्भगवंता श्रीशीलाङ्काचार्येण अतिदेशमात्रं निर्दिष्टं तेषां सूत्राणामपि स्पष्टता भवति । सकृद् द्विर्वा यैरेतट्टीका पठिता तेषामेषाऽक्षरगमनिका आदर्शापेक्षां दूरीकरोति । आचारधर्मार्थिभिर्मुमुक्षुभिरियमक्षरगमनिका प्रतिवर्ष सकृदवश्यमेव पठनीय !, यत आचारधर्मश्चेतसि स्फारं स्फुरन्ननादिप्रमादस्याऽऽराधनाप्रतिपक्षस्य कालघण्टां वादयेत् । एवं सति मुनिवर्यस्य स्तुत्य प्रयासस्य सार्थकताऽपि अनुभवपथाऽऽतिथ्यमागमिष्यति ।Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 372