Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 7
________________ 15 प्रस्तावना ( ग्रन्थस्य गरिमा ) देवगुरुप्रसादतोऽयमाचाराङ्गनामा ग्रन्थः सटिप्पणाऽक्षरगमिनकान्वितः अधिकाराणामग्रे उपन्यस्यते । अस्य चोत्पत्त्यादिवार्ता किञ्चित् प्रतन्यते । तथाहि - येऽतीता ये चानागता अर्हन्तो भगवन्तस्ते सर्वेऽपि स्वस्वतीर्थप्रवर्त्तनादावाचारार्थमुपदिशन्ति । एवमेवाऽऽसन्नोपकारिणा श्रमण भगवता श्रीमन्महावीरस्वामिनाऽऽविर्भूतकेवलालोकेनाऽपि महसेनवने सदेवमनुजाऽसुराणां पर्षदि प्रथमत आचारार्थ उपदिष्टः । एष एवाऽर्थः श्रीइन्द्रभूतिगौतमप्रमुखैर्गणधरैः सूत्रतो ग्रथितः । अयमपि मूलग्रन्थस्तेषां भगवतां गणधराणां श्रीसुधर्मस्वामिनां प्रणीतो वर्तते इति सर्वसम्मतोऽयं व्यतिकरः । अस्य ग्रन्थस्य प्राथम्यं प्राधान्यं च निर्विवाद, मोक्षोपायत्वात्, प्रवचनसारभूतत्याच्च । यतोऽत्रैव मोक्षोपायभूतं चरणकरणं प्रतिपाद्यते । एष च प्रवचनसारः प्रधानमोक्षहेतु प्रतिपादनात्, अत्र च स्थितस्य सतः शेषाङ्गाध्ययनयोग्यत्वादिति । अस्य ग्रन्थस्य च द्वौ मुख्यविभागो - (१) प्रथमश्रुतस्कन्धो (२) द्वितीयश्रुतस्कन्धश्च । तत्र प्रथमश्रुतस्कन्धो नवाऽध्ययनात्मको द्वितीयश्च पञ्चचूलारूपः । साम्प्रतं प्रथमश्रुतस्कन्ध सप्तमं महापरिज्ञाऽध्ययनं व्युच्छिन्नम् । द्वितीयश्रुतस्कन्धस्य च पञ्चमी निशीथाख्या चूलाऽतो ग्रन्थतः पूर्वपुरुषैः पृथक्कृत्य 'निशीथसूत्रमिति' नाम्ना पृथक् प्रसिद्धिं प्रापिता वर्तते । एवं प्रथमश्रुतस्कन्धस्याऽर्थगाम्भीर्यमष्टानामध्ययनानां तदन्तर्गतानामुद्देशकानां द्वितीयश्रुतस्कन्धस्य च चतसृणां चूलिकानां तदन्तर्भूतानामध्ययनानां तेषाममेवोद्देशकानां च विषयविभागोऽतिविस्तृत इति नेह प्रतन्यते, जिज्ञासुभिर्विषयानुक्रमत एव विलोकनीयः ।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 372