Book Title: Acharang Sutram Pratham Shrutskandh
Author(s): Vikramsenvijay
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 8
________________ UAB विषयविभागविलोकनतोऽपि विद्वज्जना नतमस्तका भवन्ति श्रमणानां लोकोत्तरबाह्याऽभ्यन्तराऽऽचार एवंविषय इति । अत एवैतद्ग्रन्थोपरि नियुक्तिचूर्णिटीकादयो विविधव्याख्याग्रंथाः सन्ति । तन्मध्ये साम्प्रतं श्रीशीलाङ्काचार्यैर्विहिता टीका मुख्यतयाऽध्ययनाऽध्यापनार्थमुपादीयते । सा च टीका विविधविषयाणामाकरभूता तथाऽपि न सर्वेषां सुखावगाहा विस्तृतविषयत्वात् । अत एव संक्षेपरूचीनां सूत्रार्थमात्रपरिशीलनार्थिनां वाचनाप्रदातॄणां चाऽविलम्बेनैव सूत्रार्थप्रदायिकाम-क्षरगमनिकां तथा विषमपदानामर्थं स्फुटीकुर्वत् पादटिप्पणकं समावेशयन्नयं ग्रन्थः प्रेक्षावतां समुपादेयो भविष्यति । ग्रन्थस्य च समुपादाने हेतुरेक एव यच्चित्तोद्भूतो द्वितीयाचन्द्रलेखाकल्पो धर्मस्तदैव पूर्णिमाचन्द्रपूर्णतां प्रयाति यदा वीतराग-प्रणीताऽऽचारपथं प्राप्नोति । आचारपथप्राप्तिश्च न ज्ञानाहते । ज्ञाने च ग्रन्थस्य हेतुता सुस्पष्टा । अपि च रागद्वेषमोहाघभिभूतानां सर्वेषां संसारिजन्तूनां शरीरमानसानेकाऽतिकटुकदुःखोपनिपातपीडितानां चिन्तामणिकल्पोऽयं धर्मसामग्रीसंयुक्तो मनुष्यभवोऽतिदुर्लभः । तत्राऽपि प्राप्य सद्गुरुयोगं, श्रुत्वा हितोपदेशं, पीत्वा वैराग्यामृतपानं, हित्वा सकलक्लेशजालं संसारं विरला एव ये प्रमादपरिहारेण सकलान्तरङ्गारिराजं मोहमहीधरं समूलघातं हन्तु सततं पञ्चाचारपालने समुद्यता भवन्ति । जिनेन्द्रशासनस्य गरिम्णा गरिष्ठो भूतकालः सुस्पष्ट एव यत्र भूयांसो महासत्त्वा एतद्ग्रन्थोक्तपञ्चाचारस्य निरतिचारं परिपालनात एवानन्दरमालयं सिद्धिसौधं प्रयाताः । एवं स्थिते ये केऽपि भव्यात्मनो भवहेतुमाश्रवं रुरुत्सवः, मोक्षहेतु संवरं च सुपुपुक्षुवः सिद्धिपदं च प्रेप्सवस्तैः सर्व एतद्गन्थोक्त आचारधर्म आत्मसात् करणीय एव।

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 372