________________
अष्टाध्यायीसूत्रपाठः । अ० २ पा० ३.
३९३ परप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च ॥ ५९ श्रेण्यादयः कृतादिभिः ॥ ६० तेन नविशिष्टेनानञ् ॥ ३ ॥ ६१ सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ॥ ६२ वृन्दारकनागकुञ्जरैः पूज्यमानम् ॥ ६३ कतरकतमौ जातिपरिप्रश्ने ॥ ६४ किं क्षेपे ॥ ६५ पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहहष्कयणीप्रवक्तृश्रोत्रियाध्यापकधूर्तेर्जातिः ॥ ६६ प्रशंसावचनैश्च ॥ ६७ युवा खलतिपलितवलिनजरतीभिः ॥ ६८ कृत्यतुल्याख्या अजात्या ॥ ६९ वर्णो वर्णेन ॥ ७० कुमारश्रमणादिभिः ॥ ७१ चतुष्पादो गर्भिण्या ॥ ७२ मयूरव्यंसकादयश्च ॥ "समर्थोऽन्यपदार्थेचसिद्धशुष्कसन्महद्वादश ॥"
द्वितीयः पादः। १ पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ॥ २ अर्ध नपुंसकम् ॥ ३ द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् ॥ ४ प्राप्तापन्ने च द्वितीयया ॥ ५ कालाः परिमाणिना ॥ ६ नञ् ॥ ७ ईषदकृता ॥ ८ षष्ठी ॥ ९ याजकादिभिश्च ॥ १० न निर्धारणे ।। ११ पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ॥ १२ क्तेन च पूजायाम् ॥ १३ अधिकरणवाचिना च ॥ १४ कर्मणि च ॥ १५ तृजकाभ्यां कर्तरि ॥ १६ कर्तरि च ॥ १७ नित्यं क्रीडाजीविकयोः ॥ १८ कुगतिप्रादयः ॥ १९ उपपदमतिङ् ॥ २० अमैवाव्ययेन ।। १ ॥ २१ तृतीयाप्रभृतीन्यन्यतरस्याम् ॥ २२ क्त्वा च ॥ २३ शेषो बहुव्रीहिः ॥ २४ अनेकमन्यपदार्थे । २५ संख्ययाव्ययासन्नादूराधिकसंख्याः संख्येये ॥ २६ दिङ्नामान्यन्तराले ॥ २७ तत्र तेनेदमिति सरूपे ॥ २८ तेन सहेति तुल्ययोगे ॥ २९ चार्थे द्वन्द्वः ॥ ३० उपसर्जनं पूर्वम् ॥ ३१ राजदन्तादिषु परम् ॥ ३२ द्वन्द्वे घि ॥ ३३ अजाद्यदन्तम् ॥ ३४ अल्पाच्तरम् ॥ ३५ सप्तमीविशेषणे बहुव्रीहौ ॥ ३६ निष्ठा ॥ ३७ वाहिताम्यादिषु ॥ ३८ कडाराः कर्मधारये ॥ "पूर्वापराधरोत्तरंतृतीयाप्रभृतीन्यष्टादश" ॥
तृतीयः पादः। १ अनभिहिते ॥ २ कर्मणि द्वितीया ॥ ३ तृतीया च होश्छन्दसि ॥ ४ अन्तरान्तरेण युक्ते ॥ ५ कालाध्वनोरत्यन्तसंयोगे ॥ ६ अपवर्गे तृतीया ॥ ७ सप्तमीपञ्चम्यौ कारकमध्ये ॥ ८ कर्मप्रवचनीययुक्त द्वितीया ॥ ९ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ १० पञ्चम्यपापरिभिः ॥ ११ प्रतिनिधिप्रतिदाने च यस्मात् ॥ १२ गत्यर्थकर्मणि द्वितीयाचतुर्यो चेष्टायामनध्वनि ॥ १३ चतुर्थी संप्रदाने ॥ १४ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ १५ तुमर्थाच्च भाववचनात् ॥ १६ नमःखस्तिखाहावधालंवषड्योगाच्च ॥ १७ मन्यकर्मण्यनादरे विभाषाप्राणिषु ॥ १८ कर्तृकरणयोस्तृतीया ॥ १९ सहयुक्तेऽप्रधाने ॥ २० येनाङ्गविकारः ॥ १॥ २१ इत्थंभूतलक्षणे ॥ २२ संज्ञोऽन्यतरस्यां कर्मणि ॥