Book Title: Vaiyakaran Siddhant Kaumudi
Author(s): Vasudev Lakshman Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 487
________________ लिङ्गानुशासनम् । ४८३ लानसमानभवनवसनसंभावनविभावनविमानानि नपुंसके च । ४३ पोपधः । ४४ पापरूपोडुपतल्पशिल्पपुष्पशप्पसमीपान्तरीपाणि नपुंसके । ४५ शूर्पकुतपकुणपद्विपविटपानि नपुंसके च । ४६ भोपधः । ४७ तलभं नपुंसकम् । ४८ जम्भं नपुंसके च । ४९ मोपधः । ५० रुक्मसिध्मयुध्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके । ५१ सङ्ग्रनमदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च। ५२ योपधः। ५३ किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके । ५४ गोमयकषायमलयान्वयाव्ययानि नपुंसके च । ५५ रोपधः । ५६ द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रच्छिद्रनारतीरदूरकृच्छ्रन्ध्राश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदरशरीरकन्दरमन्दरपञ्जराजरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्रयन्त्रक्षत्रक्षेत्रमित्रकलत्रच्छत्रमूत्रसूवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रास्त्रशस्त्रशास्त्रवस्त्रपत्रपात्रनक्षत्राणि नपुंसके । ५७ शुक्रमदेवतायाम् । ५८ चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च । ५९ षोपधः । ६० शिरीष षाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके । ६१ यूषकरीषमिषविषवर्षाणि नपुंसके च। ६२ सोपधः। ६३ पानसबिसबुससाहसानि नपुंसके। ६४ चमसांसरसनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च । ६५ कंसं चाप्राणिनि । ६६ रश्मिदिवसाभिधानानि । ६७ दीधितिः स्त्रियाम् । ६८ दिनाहनी नपुंसके । ६९ मानाभिधानानि । ७० द्रोणाढको नपुंसके च । ७१ खारीमानिके स्त्रियाम् । ७२ दाराक्षतलाजासूनां बहुत्वं च । ७३ नाड्यापजनोपपदानि व्रणाङ्गपदानि । ७४ मरुद्गरुत्तरदृत्विजः । ७५ ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौरविकविकपिमुनयः । ७६ ध्वजगजमुञ्जपुञ्जाः । ७७ हस्तकुन्तान्तवातव्रातदूतधूर्तसूतचूतमुहूर्ताः। ७८ षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः । ७९ वंशांशपुरोडाशाः । ८० हृदकन्दकुन्दबुद्बुदशब्दाः । ८१ अर्धपथिमथ्यभुक्षिस्तम्बनितम्बपूगाः । ८२पल्लवपल्वलकफरेफकटाहनिर्म्यहमठमणितरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्रपुङ्खाः । ८३ सारथ्यतिथिकुक्षिबस्तिपाण्यञ्जलयः । १ नपुंसकम् । २ भावे ल्युडन्तः । ३ निष्ठा च । ४ त्वष्यौ तद्धितौ । ५ कर्मणि च ब्राह्मणादिगुणवचनेभ्यः । ६ यद्यढग्यगञण्वुञ्छाश्च भावकर्मणि । ७ अव्ययीभावः । ८ द्वन्द्वैकत्वम् । ९ अभाषायां हेमन्तशिशिरावहोरात्रे च । १० अनकर्मधारयस्तत्पुरुषः । ११ अनल्पे छाया । १२ राजामनुष्यपूर्वा सभा। १३ सुरासेनाच्छायाशालानिशाः स्त्रियां च । १४ शिष्टः परवत् । १५ रात्राहाहाः पुंसि । १६ अपथपुण्याहे नपुंसके। १७ संख्यापूर्वा रात्रिः । १८ द्विगुः स्त्रियां च । १९ इसुसन्तः । २० अर्चिः स्त्रियां च । २१ छदिः स्त्रियामेव । २२ मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि । २३ सीरार्थीदनाः पुंसि । २४ वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च । २५ अटवी स्त्रियाम् । २६ लोपधः । २७ तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि । २८ शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालवालनिगलपलालबिडालखिलशूलाः पुंसि च । २९ शतादिः

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532