________________
लिङ्गानुशासनम् ।
४८३ लानसमानभवनवसनसंभावनविभावनविमानानि नपुंसके च । ४३ पोपधः । ४४ पापरूपोडुपतल्पशिल्पपुष्पशप्पसमीपान्तरीपाणि नपुंसके । ४५ शूर्पकुतपकुणपद्विपविटपानि नपुंसके च । ४६ भोपधः । ४७ तलभं नपुंसकम् । ४८ जम्भं नपुंसके च । ४९ मोपधः । ५० रुक्मसिध्मयुध्मेध्मगुल्माध्यात्मकुङ्कुमानि नपुंसके । ५१ सङ्ग्रनमदाडिमकुसुमाश्रमक्षेमक्षौमहोमोद्दामानि नपुंसके च। ५२ योपधः। ५३ किसलयहृदयेन्द्रियोत्तरीयाणि नपुंसके । ५४ गोमयकषायमलयान्वयाव्ययानि नपुंसके च । ५५ रोपधः । ५६ द्वाराग्रस्फारतक्रवक्रवप्रक्षिप्रक्षुद्रच्छिद्रनारतीरदूरकृच्छ्रन्ध्राश्रश्वभ्रभीरगभीरक्रूरविचित्रकेयूरकेदारोदरशरीरकन्दरमन्दरपञ्जराजरजठराजिरवैरचामरपुष्करगह्वरकुहरकुटीरकुलीरचत्वरकाश्मीरनीराम्बरशिशिरतन्त्रयन्त्रक्षत्रक्षेत्रमित्रकलत्रच्छत्रमूत्रसूवक्त्रनेत्रगोत्राङ्गुलित्रभलत्रास्त्रशस्त्रशास्त्रवस्त्रपत्रपात्रनक्षत्राणि नपुंसके । ५७ शुक्रमदेवतायाम् । ५८ चक्रवज्रान्धकारसारावारपारक्षीरतोमरशृङ्गारभृङ्गारमन्दारोशीरतिमिरशिशिराणि नपुंसके च । ५९ षोपधः । ६० शिरीष षाम्बरीषपीयूषपुरीषकिल्बिषकल्माषाणि नपुंसके । ६१ यूषकरीषमिषविषवर्षाणि नपुंसके च। ६२ सोपधः। ६३ पानसबिसबुससाहसानि नपुंसके। ६४ चमसांसरसनिर्यासोपवासकार्पासवासमासकासकांसमांसानि नपुंसके च । ६५ कंसं चाप्राणिनि । ६६ रश्मिदिवसाभिधानानि । ६७ दीधितिः स्त्रियाम् । ६८ दिनाहनी नपुंसके । ६९ मानाभिधानानि । ७० द्रोणाढको नपुंसके च । ७१ खारीमानिके स्त्रियाम् । ७२ दाराक्षतलाजासूनां बहुत्वं च । ७३ नाड्यापजनोपपदानि व्रणाङ्गपदानि । ७४ मरुद्गरुत्तरदृत्विजः । ७५ ऋषिराशिदृतिग्रन्थिक्रिमिध्वनिबलिकौलिमौरविकविकपिमुनयः । ७६ ध्वजगजमुञ्जपुञ्जाः । ७७ हस्तकुन्तान्तवातव्रातदूतधूर्तसूतचूतमुहूर्ताः। ७८ षण्डमण्डकरण्डभरण्डवरण्डतुण्डगण्डमुण्डपाषण्डशिखण्डाः । ७९ वंशांशपुरोडाशाः । ८० हृदकन्दकुन्दबुद्बुदशब्दाः । ८१ अर्धपथिमथ्यभुक्षिस्तम्बनितम्बपूगाः । ८२पल्लवपल्वलकफरेफकटाहनिर्म्यहमठमणितरङ्गतुरङ्गगन्धस्कन्धमृदङ्गसङ्गसमुद्रपुङ्खाः । ८३ सारथ्यतिथिकुक्षिबस्तिपाण्यञ्जलयः ।
१ नपुंसकम् । २ भावे ल्युडन्तः । ३ निष्ठा च । ४ त्वष्यौ तद्धितौ । ५ कर्मणि च ब्राह्मणादिगुणवचनेभ्यः । ६ यद्यढग्यगञण्वुञ्छाश्च भावकर्मणि । ७ अव्ययीभावः । ८ द्वन्द्वैकत्वम् । ९ अभाषायां हेमन्तशिशिरावहोरात्रे च । १० अनकर्मधारयस्तत्पुरुषः । ११ अनल्पे छाया । १२ राजामनुष्यपूर्वा सभा। १३ सुरासेनाच्छायाशालानिशाः स्त्रियां च । १४ शिष्टः परवत् । १५ रात्राहाहाः पुंसि । १६ अपथपुण्याहे नपुंसके। १७ संख्यापूर्वा रात्रिः । १८ द्विगुः स्त्रियां च । १९ इसुसन्तः । २० अर्चिः स्त्रियां च । २१ छदिः स्त्रियामेव । २२ मुखनयनलोहवनमांसरुधिरकार्मुकविवरजलहलधनान्नाभिधानानि । २३ सीरार्थीदनाः पुंसि । २४ वक्त्रनेत्रारण्यगाण्डीवानि पुंसि च । २५ अटवी स्त्रियाम् । २६ लोपधः । २७ तूलोपलतालकुसूलतरलकम्बलदेवलवृषलाः पुंसि । २८ शीलमूलमङ्गलसालकमलतलमुसलकुण्डलपललमृणालवालनिगलपलालबिडालखिलशूलाः पुंसि च । २९ शतादिः