________________
४८४
सिद्धान्तकौमुद्याम् । संख्या । ३० शतायुतप्रयुताः पुंसि च । ३१ लक्षाकोटी स्त्रियाम् । ३२ शङ्कः पुंसि । ३३ सहस्रः क्वचित् । ३४ मन्यच्कोऽकर्तरि । ३५ ब्रह्मन्पुंसि च । ३६ नामरोमणी नपुंसके । ३७ असन्तो व्यच्कः । ३८ अप्सराः स्त्रियाम् । ३९ त्रान्तः । ४० यात्रामात्राभस्त्रादंष्ट्रावरत्राः स्त्रियामेव । ४१ भृत्रामित्रच्छात्रपुत्रमन्त्रवृत्रमेढ़ोष्ट्राः पुंसि । ४२ पत्रपात्रपवित्रसूत्रच्छत्राः पुंसि च । ४३ बलकुसुमशुल्बपत्तनरणाभिधानानि । ४४ पद्मकमलोत्पलानि पुंसि च । ४५ आहवसङ्ग्रामौ पुंसि । ४६ आजिः स्त्रियामेव । ४७ फलजातिः। ४८ वृक्षजातिः स्त्रियामेव । ४९ वियजगत्सकृच्छकन्पृषच्छकृद्यकृदुदश्वितः। ५० नवनीतावतानानृतामृतनिमित्तवित्तचित्तपित्तव्रतरजतवृत्तपलितानि । ५१ श्राद्धकुलिशदैवपिठरकुण्डाङ्काङ्गदधिसक्थ्यक्ष्यस्थ्यास्पदाकाशकण्वबीजानि । ५२ दैवं पुंसि च । ५३ धान्याज्यसस्यरूप्यपण्यवर्ण्यघिष्ण्यहव्यकव्यकाव्यसत्यापत्यमूल्यशिक्यकुड्यमद्यहHतूर्यसैन्यानि । ५४ द्वन्द्वबर्हदुःखबडिशपिच्छबिम्बकुटुम्बकवचकबरवृन्दारकाणि । ५५ अक्षमिन्द्रिये ॥
१ स्त्रीपुंसयोः । २ गोमणियष्टिमुष्टिपाटलिबस्तिशाल्मलित्रुटिमसिमरीचयः । ३ मन्युसीधुकर्कन्धुकसिन्धुण्डुरेणवः । ४ गुणवचनमुकारान्तं नपुंसकं च । ५ अपत्यार्थस्तद्धिते ॥
१ पुनपुंसकयोः । २ घृतभूतमुस्तक्ष्वेलितैरावतपुस्तबुस्तलोहिताः । ३ शृङ्गार्धनिदाघोद्यमशल्यादृढाः । ४ बजकुञ्जकुथकूर्चप्रस्थदर्भािधर्चपुच्छाः । ५ कबन्धौषधायुधान्ताः । ६ दण्डमण्डखण्डशवसैन्धवपार्धाकाशकुशकाशाङ्कुशकुलिशाः । ७ गृहमेहदेहपट्टपटहाष्टापदार्बुदककुदाश्च ॥
१ अवशिष्टलिङ्गम् । २ अव्ययम् । ३ कतियुष्मदस्मदः । ४ ष्णान्ता संख्या। ५ गुणवचनं च । कृत्याश्च । ७ करणाधिकरणयोर्युट् । ८ सर्वादीनि सर्वनामानि ॥
॥ इति श्रीपाणिनिमुनिप्रणीतं लिङ्गानुशासनं समाप्तम् ॥