Book Title: Syadwad Bhasha Author(s): Vijayjinendrasuri Publisher: Harshpushpamrut Jain Grnathmala View full book textPage 8
________________ पुनः करणं 'साधकतमं करणम्' अतिशयितं च साधक साधकतमं प्रकृष्टं कारणमित्यर्थः । ननु साधकं कारणं हेतुरिति पर्यायास्तदेव न ज्ञानते किं तत्कारणमित्युच्यते 'कार्यानुकृतान्वयव्यतिरेकि कारणं' तचात्मेन्द्रियायेत्र, यथा-मृत्पिण्डचक्रादिकं घटस्य । तच्च कारणं त्रिविधं परिणामिनिवर्तकनिमित्तभेदात् तत्र परिणामिकारणमात्मा, यथा-मृत्पिण्डायेव घटादितया परिणमतीति घटे मृत्पिण्डः पटे तन्तव इत्यादिपरिणामिकारणम् । ननु मृत्पिण्डसंवन्ध इव चक्रादिसम्बधोऽपि घटते तत्कथं घटे मृत्पिण्डः पटे तन्तवो न चक्रतुर्यादयः परिणामिकारणम् । सत्यम् । द्विविधः सम्बन्धः संयोगोऽविष्वग्भावश्च, तत्र साध्यसाधनयोगणगुणिनोरवयवावयविनोस्संबन्धोऽविष्वग्भावस्तादात्म्यं स्वरूपसंवन्ध इति यावत् । स्वरूपसंवन्धत्वं च संवन्धान्तरमन्तरेणापि विशिष्टप्रतीतिजननयोग्यत्वमिति । न चात्र समवायसवन्धस्तस्य भावद्वयधर्मत्वादयुतसिद्धयोश्च संवन्धस्समवायः, अयुतसिद्धत्वे च"तावेवायुतसिद्धौ धौ विज्ञातव्यौ ययोर्खयोः । अविनश्यदेकमपराश्रितमेवावतिष्ठते ॥१॥" इति । ... तस्मान्मृत्पिण्डघटयोरविष्वग्भाव एव संबन्धः, मृत्पिण्डचक्रयो विष्वग्भावस्तत्स्वरूपाभावान्नाहि मृत्पिण्डश्चक्रतया परिणमति नापि चक्रं मृत्पिण्डतया अतस्तयोः संयोग एवंPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58