Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 35
________________ ३० भिन्नः स्यात्तदाहं जानामि, अहं पश्यामि, अहं ज्ञाताऽहं द्रष्टाहं सुखिनोऽह भव्यश्चेत्याद्यभेदप्रतिभासो न स्यादस्ति च सर्वप्राणिनां सोऽमेदप्रतिभासः । तथा यद्यभिन्नः स्यात्तदायं धर्मी एते धर्मा इति मेदबुद्धिर्न स्यादस्ति च सा । अथवा अभिन्नतायां ज्ञानादिसर्वधर्माणामक्यं स्यादेकजीवाभिन्नत्वात् । तथा च मम ज्ञानं मम दर्शनं चास्तीत्यादिज्ञानादिमिथोमेदबुद्धिर्न स्यादस्ति च सा ततो ज्ञानादिधर्मेभ्यो भिन्नाभिन्न एवाभ्युपगन्तव्यः ३ । करोत्यदृष्टादिकमिति कर्ता ४ । साक्षादनुपचरितवृत्या भुक्ते सुखादिकमिति साक्षाभोक्ता ५। स्वोपात्तवपुर्व्यापकः स्वदेहपरिमाणः ६ । प्रतिक्षेत्रं पृथक प्रतिशरीरं भिन्नः ७ । पुद्गलघटितकर्मपरतन्त्रः पोद्गलिकाऽदृष्टवान् ८। जीवः प्राणमाक्, प्राणाथ द्रव्यभावमेदाद् द्विभेदाः, तत्र द्रव्यप्राणाः पञ्चेन्द्रियत्रिविधवलोच्छ्वासनिःश्वासायूरूपाः । भावप्राणास्तु ज्ञानदर्शनोपयोगरूपाः । एभिः प्राणैरजीवद् जीवति जीविष्यति चेति जीवः आत्मा प्रत्यक्षादिगम्यः गुणप्रत्यक्षत्वात् । प्रयोगश्च। आत्मा प्रत्यक्षः स्मृतिजिज्ञासाचिकीर्षाजिगमिषासंशयविज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यक्षत्वात् । इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टो, यथा-घट इति प्रत्यक्षगुणश्च जीवः तस्मात्प्रत्यक्षः। .

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58