Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
जीवस्य कर्मणा अन्योन्यानुगमात्मा सम्बन्धो बन्धः ॥१३॥
तत्र वन्धनं चन्धः परस्पराश्लेषो जीवप्रदेशपुद्गलानां क्षीरनीरवत् । अथवा बध्यते येनात्मा पारतन्त्र्यमापाद्यते ज्ञानावरणादिना सबन्धः पुद्गलपरिणामः ॥७॥ बद्धस्य कर्मणः शाटो निर्जरा ॥ १४ ॥
बद्धस्य जीवेन सम्बद्धस्य कर्मणो ज्ञानावरणादेः-शाटः शाटनं द्वादशविधेन तपसा विचटनं सा निर्जरा, सा च द्विविधा सकामाऽकामभेदात् तत्राद्या चारित्रिणां दुष्करतपश्चरणकायोत्सर्गकरणद्वाविंशतिपरीषहपरीषहणपराणां लोचादिकायक्लेशकारिणामष्टादशशीलाङ्गरथधारिणां बाह्याभ्यन्तरसर्वपरिग्रहपरिहारिणां निष्प्रतिकर्मशरीरिणां भवति । द्वितीया वन्यशरीरिणां तीव्रतीव्रतरशारीरमानसानेकदुस्सहदुःखशत. सहस्रसहनतो भवति ॥८॥ देहादेरात्यन्तिको वियोगो मोक्षः॥ १५ ॥ - देहादेः शरीरपञ्चकेन्द्रियायुरादिबाह्यप्राणपुण्यापुण्यवर्णगन्धरसस्पर्शपुनर्जन्मग्रहणवेदत्रयकषायादिसङ्गाज्ञानासिद्धत्वादेरात्यन्तिको विरहः पुनर्मोक्ष इष्यते । यो हि शश्वद्भवति न पुन: कदाचिन भवति स आत्यन्तिकोऽत्र परः प्राह
ननु भवतु देहस्यात्यन्तिको वियोगस्तस्य सादित्वात्परं

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58