Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 48
________________ ४३ तद्वन्तः पुद्गला इति । न केवलं पुद्गलाना स्पर्शादयो धर्माः शब्दादयश्चेति दयन्ते । शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः पुद्गलाः॥८७॥ अत्र पुद्गलपरिणामाविष्कारी मतुष्प्रत्ययो नित्ययोगार्थ विहितः । तत्र शब्दो ध्वनिः । वन्धः परस्पराश्लेषलक्षण: प्रयोगविस्रसादिजनितः। औदारिकादिशरीरजतुकाष्ठादिश्लेषवत् परमाणुसंयोगजवद्वेति २ । सौक्ष्यं सूक्ष्मता ३ । स्थौल्यं स्थूलता ४ । संस्थानमाकृतिः ५ । भेदः खण्डशो भवनम् ६ । तमश्छायादयः प्रतीताः सर्वे एवैते स्पर्शादयः शब्दादयश्च पुद्गलेष्वेव भवन्तीति । पुद्गला देधा परमाणवः स्कन्धाश्च ॥८८॥ तत्र परमाणोर्लक्षणमिदं"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणः। एकरसवर्णगन्धा दिस्पर्शः कार्यलिङ्गाश्च ॥१॥" ५ ॥ एते धर्माधर्माकाशकालपुद्गला जीवैः सह षड् द्रव्याणि । एवाद्यानि चत्वार्येकद्रव्याणि जीवाः पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि तानि पञ्चामूर्चानि पुद्गलास्तु मृर्ता एवेति ॥२॥ सत्कर्मपुद्गलाः पुरायम् ॥ ८ ॥

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58