Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 46
________________ ४१ यथा ह्य कः परमाणुः पर्यायनित्योऽपि द्रव्यत्वेन सदा सन्नेव न कदाचिदसत्त्वं भजते तथैकः समयोऽपीति । तथा'दव्ध परियहरूवो जो सो कालो हवेइ ववहारो।। परिणामाइलक्खो वदृणलक्खो 'अ परमहो ॥ १॥ ___ जीवपुद्गलपरियों नवपुराणादिस्तेन लक्ष्यः द्रव्यपर्यायरूपो व्यवहारकालः । स्वोपादानरूपेण स्वयमेव परिणाममानानां भावानां कुम्भकारचक्राधस्तनशिलावत् शीतकालाध्मायनेऽग्निवत् पदार्थपरिणमने य(णतेय)त्सहकारित्वं सा वर्तना सैव लक्षणं यस्य स कालाणुद्रव्यरूपो निश्चयकालः । ततोऽन्यः कालाणुद्रव्यरूपनिश्चयकालो नास्ति । अत्रोत्तरम् । उत्पन्नध्वं. सित्वात्समयः पर्यायः, पर्यायो द्रव्यं विना न भवति । यदुक्तम्"द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केनचित्कि वा दृष्टा मानेन केन वा ॥१॥" ततः समयरूपपर्यायोपादानभूतेन कालाणुरूपनिश्चयकाल. द्रव्येण भाव्यमेव, यथा-इन्धनाग्निसहकारिकारणोत्पन्नौदनपर्यायस्य तण्डुलोपादानकारणवत् कुम्भकारचक्रचीचरादिवहिरङ्गनिमित्तोत्पन्नस्य मृन्मयघटपर्यायस्य मृत्पिण्डोपादानं नरकादिपर्यायस्य जीवोपादानम् । तदपि कस्मादुपादानकारणसदृशं कार्य भवतीतिवचनात् ।

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58