Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 45
________________ ४० गादयः । पञ्चेन्द्रिया गोमहिष्यादयो गर्भव्युत्क्रान्ताः संमूर्छजाश्चेति ॥ १॥ एतद्विपरीतोऽजीवः ॥ ८॥ स व धर्माधर्माकाशकालपुद्गलभेदात्पञ्चविधः॥८१॥ तत्र धर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्ख्यप्रदेशो गत्युपग्रहकारी च १ । अधर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्ख्या देशः स्थित्युपग्रहकारी च २ । आकाशमपि लोकालोकव्यापकमनन्तप्रदेशं नित्यमवस्थितमरूपिद्रव्यमस्तिकायोऽवगाहोपकारकं वक्तव्यम् ३ । कालोऽर्द्धतृतीयद्वीपान्तर्वर्ती परमसूक्ष्मो निर्विभागः एकः समयः । स चास्तिकायो न भण्यते एकसमयरूपस्य तस्य निःप्रदेशत्वात् । आहच"तस्मान्मानुषलोकव्यापी कालोऽस्ति समय एक इह । एकत्वाच स कायो न भवति कायो हि समुदायः॥१॥" स च सूर्यादिग्रहनक्षत्रोदयाऽस्ता दिक्रियाभिव्यङ्गयः एकी. यमतेन द्रव्यमभिधीयते स चैकः समयो द्रव्यपर्यायोभयात्मैव द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्मापि स्वरूपानन्यभूतक्रममाव्यनाद्यपर्यवसाना(न)न्तसङ्ख्यपरिणामो(माणो)ऽत एव च स स्वपर्यायप्रवाहव्यापी द्रव्यात्मना नित्योऽभिधीयते अतीतानागतवर्तमानावस्थास्वपि कालः काल इत्यविशेषश्रुतेः।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58