Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 47
________________ ४२ अथ मतं समयादिकालपर्यायाणां कालद्रव्यमुपादानं न भवति किंतु समयोत्पत्तौ मन्दगतिपरिणतपुद्गल परमाणुः, निमेषोत्पत्तौ नयनपुटविघटनं, घटिकाकालोत्पत्तौ घटिका सामग्रीभूतजलभृतभाजन पुरुषहस्तादिव्यापारः, दिवसादौ दिनकरबिम्बमुपादानादिकरणम् । उपादानत्वं च पूर्वाकारपरि त्यागाजहद्वृत्तोत्तराकारोपादानत्वम्, नैवम्, उपादानकारणसदृशं कार्यमिति वचनात्कालामुद्रव्यमेवेति ४ । पुद्गलाः स्पर्शरसगन्धवर्णवन्तः ॥ ८२ ॥ • अत्र स्पर्शग्रहणमादौ स्पर्शे सति रसादिसद्भावज्ञापनार्थ, ततोऽवादीनि चतुर्गुणानि स्पर्शित्वात् पृथिवीवत्तथा मनः स्पर्शादिमत् असर्वगतद्रव्यत्वात् पार्थिवाणुवदितिप्रयोगौ सिद्धौ । तत्र स्पर्शा मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षाः ॥८३॥ अत्र च स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति स्कन्धेष्वष्टावपि यथासंभवं वक्तव्याः । रसाः तिक्तकटुकषायाम्लमधुराः ॥ ८४ ॥ लवणो मधुरान्तर्गत इत्येके संसर्गज इत्यपरे । गन्धौ सुरभ्यसुरभी ॥ ८५ ॥ कृष्णादयो वर्णाः ॥ ८६ ॥

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58