Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
कारिसंपाद्या यदुपधानादपकर्षिणः ते तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणः यथा-रोमहर्षादयो वहिवृद्धौ। भावनोपधानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागादयः ॥ ६ ॥ ___ इति प्रमाणनयतत्त्वं व्यवस्थाप्य वस्तुनिर्णयार्थ वादमाह । विरुद्धोर्धमेयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थं साधनदूषणवचनं वादः॥१६॥ . विरुद्धयोरेकत्र प्रमाणेनानुपपद्यमानोपलम्भयोर्द्धमयो. मध्यादिति । तत्प्रारम्भकश्चात्र जिगीषुस्तत्त्वनिर्णिनीषुश्च॥१७॥
तत्र जिगीषुः प्रसह्य प्रथमं च वादमारमते प्रथममेव च तत्त्वनिणिनीषुरिति द्वावपि प्रारम्भको भवतः । तत्रस्वीकृतधर्मव्यवस्थापनार्थं साधनदूषणाभ्यां परं पराजेतुमिच्छुजिगीषुः ॥१८॥ ___ स्वीकृतो धर्मः शब्दादेः कथंचिन्नित्यत्वादिर्यस्तस्यव्यवस्थापनार्थ यत्सामर्थ्याचस्यैव साधनं परस्य च दूषणं ताभ्यां कृत्वा परं पराजेतुमिच्छजिगीषुरित्यर्थः । तथैव
तत्वं प्रतिष्ठापयिषुस्तत्त्वनिर्णिनीषुः ॥ ११ ॥ . तथैव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां शब्दादेः कथंचिन्नित्यत्वादिरूपं तत्त्वं प्रतिष्ठापयितुमिच्छुस्तत्त्वनिणेनीषुरित्यर्थः।

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58