Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
Catalog link: https://jainqq.org/explore/022468/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ .................................................................. श्री हर्षपुष्पामृत जैन ग्रन्थमाला-ग्रन्थाङ्क-१०५ । श्री महावीरजिनेन्द्राय नमः । पू. आ. श्री विजयामृतसूरिभ्यो नमः । जगद्गुरु श्री होरविजयसूरिविनेयश्रीमच्छुभविजयगणि-प्रणीता स्यादवादभाषा म हालारदेशोद्धारक पूज्याचार्यदेव श्रीमद् विजयामृत संपादक सूरीश्वर पट्टधरः पू. आ. श्री विजयजिनेन्द्रसूरिवरः रामचन्द्रसूरीश्वराज्ञानुयायिविद्वान पू. मनिराज तपागच्छाधिराजपूज्याचार्यदेवेश श्रीमद्विजय ज श्रीमद-क्षयविजयोपदेशेन श्री पीपलगांव बसवंत श्वे. मू. जैन सङ्घ प्रदत्तज्ञानद्रव्यसहायतः । पामृत जैन ग्रन्थमाला प्रकाशिकालाखाबावल-शांतिपुरी ( सौराष्ट्र ) ..... . : : : : :: : :ere: : :: :: Page #2 -------------------------------------------------------------------------- ________________ श्री हर्षपुष्पामृत जैन ग्रन्थमाला-ग्रन्थाङ्क-१०५ श्री महावीरजिनेन्द्राय नमः । पू. आ. श्री विजयामृतसूरिभ्यो नमः । जगद्गुरु श्री होरविजयसूरिविनेयश्रीमच्छुभविजयगणि-प्रणीता स्यादवादभाषा DESSESOMEOSSE: ___ संपादक - हालादेशोद्धारक पूज्याचार्यदेव श्रीमद् विजयामृत सूरीश्वर पट्टधरः पू. आ. श्री विजयजिनेन्द्रसूरिवरः तपागच्छाधिराजपूज्याचार्यदेवेश श्रीमद्विजयरामचन्द्रसूरीश्वराज्ञानुयायिविद्वान पू. मुनिराज श्रीमद-क्षयविजयोपदेशेन श्री पीपलगांव वसवंत श्वे. मू. जैन सङ्घ प्रदत्तज्ञानद्रव्यसहायतः । 卐 प्रकाशिकाश्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखाबावल-शांतिपुरी ( सौराष्ट्र) reSROSSAGES Page #3 -------------------------------------------------------------------------- ________________ प्रकाशिका:श्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखाबावल-शान्तिपुरी (सौराष्ट्र) वीर सं. २५०८ वि. सं. २०३८ सन् १९८२ प्रथमावृत्ति प्रतय: ५०० प्र -: श्राभार : प्राचीन साहित्य प्रकाशन योजनामा सहाय मले ते मुजब ग्रन्थ प्रकाशित थाय छे. पू. विद्वान मुनिराजश्री अक्षयविजयजी म. ना उपदेशथी श्री पीपलगांव-बसवंत श्री श्वे. मू. जैन संघे ज्ञानखातेथी आपेल सहायथी आ ग्रन्थ प्रगट थाय छे. ते माटे प्रेरक पू. मुनिराजश्री तथा दाता श्री संघनो आभार मानीए, छीए। -प्रकाशक मुद्रक:श्री गौतम आर्ट प्रिन्टर्स नेहरू गेट बाहर, ब्यावर (राजस्थान) Page #4 -------------------------------------------------------------------------- ________________ प्रासंगिक श्री जैन दर्शनना ज्ञान माटे अनेक महान् ग्रन्थोनी रचना महापुरुषोए करेली छे. प्रमाण सम्बन्धी ग्रन्थोमां प्रमाणनयतस्त्वा• लंकर, रत्नाकर अवतारिका, स्यादवादरत्नाकर, न्यायावतार, न्यायखण्डखाद्य, नयोपदेश, नयरहस्य, अनेकान्त व्यवस्था, स्यादवादमंजरी. प्रमाण मीमांसा बिगेरे महान ग्रन्थो छे. बाल जीवोना बोध माटे सरल ग्रन्थनी उपयोगिता जाणीने विद्वान गणिप्रवर श्री शुभविजयजी महाराजे आ स्यादवादभाषा ग्रन्थनी रचना करी छे. आ विषय गहन होवाथी ते विषयनो प्रवेश कठिन पण होय छता तेना अर्थी आत्मा माटे सुदृढ स्यादवाद ज्ञान माटे आ ग्रन्थ घणो उपयोगी छे । आ ग्रन्थना कर्ता श्री शुभविजय गणिवर श्री जगद्गुरु हीरसूरीश्वरजी महाराजना विनेय छे अने श्री विजयसेनसूरीश्वरजी महाराजना प्रश्नोत्तर स्वरूप सेनप्रश्न ( प्रश्नोस रसमुच्चय ) ना संग्राहक छे, तेमणे स्यादवादभाषा ग्रन्थ वि० सं० १६६७ मां रचेलो छे । प्रमाणनयतत्त्वना विषयम प्रमाणनयतत्त्व लोकालंकार महाग्रन्थना संक्षेप - प्रक्रिया स्वरूप आ ग्रन्थ अभ्यासीओने अति उपयोगी छे, आ ग्रन्थ बीजु नाम प्रमाणनयत प्रकाशिका छे । अभिधानचिंतामणि नाममाला बीजक तेमणे वि. सं. १६६१ मां रचेलु छे (जैन संस्कृत साहित्य इतिहास पृ. ११६ ) आ लेखके काव्यकल्पलता (कर्ता वायडगच्छमा श्री जिनदत्तसूरि सं. १२८०) उपर मकरंद नामनी टीका वि. सं. १६६५ मां ३१९६ श्लोक प्रमाणनी रची छे। (जै. सं. सा. इ. पृ. १७०) तथा वि. सं. १६७१ मां कल्पसूत्रवृत्ति पण तेमणे रची छे. (जै. सा. इ. पृ. ५०५ ) Page #5 -------------------------------------------------------------------------- ________________ शेठ देवचंद लालभाई पुस्तकोद्धार फण्ड तरफथी वि. सं. १६६७ मां आ ग्रन्थ प्रताकारे प्रगट थयेल हतो तेनु यथामति संशोधन कयुं छे। २०३८ जेठ वद ५ शनिवार हालारदेशोद्धारक पू. आचार्यदेव ४५, दिग्विजय प्लोट श्रीमद्विजयामृतसूरिवर विनेय तपागच्छ जैन उपाश्रय विजयजिनेन्द्रसूरि जामनगर (सौराष्ट्र) शुद्धिपत्रकम् पृष्ठं पंक्तिः अशुद्धं शुद्धं | पृष्ट पंक्तिः अशुद्धं शुद्धं १ ५ विज्य विजय |१८ २ स प्रमाणा सर्वप्रमाणा १६ प्रकाशि- प्रकाशि- | २५ १ सत्त्व. सत्त्वकायपर कापर चेतन्ये चंतन्ये १ १७ तत्व तत्त्व २५ ७ अत्ताद्वैतं सत्ताद्वैतं ३ ३ ज्ञानते ज्ञायते २७ ३ भिग्ना- भिन्नानी ३ ६ सम्ब धोऽपि सम्बन्धोऽपि नर्था ३१ १३ क्षपवान् पक्षवान् ३ १४ सबन्ध सम्बन्ध । ३१ १५ भावव्यम् भाव्यम् ४ १४ भेदात्रिधा भेदास्त्रिधा ४१ ४ वहण वट्टण ४ १६ प्रतिभिसन प्रतिभासन ४१ ६ परिणाम-परिणम६ १२ द्वितीते द्वितीये मानानां मानानां ६ १५ सम्भवति सम्भवति ४३ १५ गन्धा गन्धो . ट १२ मित्तञ्च निमित्तञ्च | ४७ २ वनाश विनाश १० १ समुदूभूत समुद्भूत | ४७ ५ विरुद्धो विरुद्धयो १८ १ द्विविध- द्विविध- ४७ १६ मिच्छु- मिच्छु मान मानन्तर्येण । जिगीषु जिगीषु Page #6 -------------------------------------------------------------------------- ________________ अहम् । पूज्य आचार्यदेव श्री विजयसिद्धिसूरीश्वरेभ्यो नमः । जगदगुरु श्री हीरविजयसूरीश्वराणां चरणाम्भोजचञ्चरीकेण पं० श्रीशुभविज्यगणिवरेण कृता प्रमाणनयतत्वप्रकाशिकायपरनाम्नी । * स्याद्वादभाषा % ॥ॐ ॥ श्रीहीरविजयसूरीश्वरगुरुभ्यो नमः ॥ श्रीमद्वीरजिनेशं प्रणम्य विज्ञानविशदवागीशम् । श्रीहीरविजयसरिप्रसादमासाद्य पुनरतुलम् ॥१॥ शिशुरपि वाञ्छति लघुधीरलसः स्याद्वादशास्त्रमध्येतुम् । तस्य कृतेऽल्पार्थयुता क्रियते स्याद्वादभाषेयम् ॥२॥ युग्मं । सम्यक्तत्त्वज्ञानक्रियाभ्यां निश्चयसाधिगमः ॥१॥ इतिन्यायस्य प्रथमसूत्रमस्य व्याख्या । सम्यक्तत्वज्ञानं यथार्थतत्वसंवित्तिः । सम्यक्क्रिया च सदसत्प्रवृत्तिनिवृत्तिरूपा ताभ्यां मोक्षावाप्तिर्भवतीति । Page #7 -------------------------------------------------------------------------- ________________ जीवाजीवपुरायपापाश्रवसंवरनिर्जराबंधमो. क्षास्तत्त्वानि ॥ २ ॥ ___ न च जीवादिनवपदार्थानां सम्यग्ज्ञानं तावद्भवति यावदे. पामुद्देशलक्षणपरीक्षा न विधीयते इति । तत्र संज्ञामात्रेण पदार्थप्रतिपादनमुहेशः स चात्रैव सूत्रे विहितः । लक्षणं स्वलक्ष्यव्यावत्तस्वरूपकथनम यथा घटम्य पृथुबुन्धोदगद्याकारवत्वम् । तथा लक्षितस्य लक्षणं घटते नवेतिविचारः परीक्षा तेनैते लक्षणपरीक्षे जीवादीनां सम्यग्ज्ञानार्थ विधातव्ये । तत्र च मानाधीना मेयसिडिरितिन्याया. दानुद्दिष्टस्यापि प्रमाणस्य पूर्व लक्षणमुच्यते । स्वपरव्यवसायि ज्ञानं प्रमाणम् ॥ ३ ॥ तत्र प्रमाणं लक्ष्यं स्वपरव्यवसायिज्ञानत्वं च लक्षणम् । यत्तु 'स्वापूर्वार्थव्यवसायि ज्ञानं प्रमाणमितिप्रमाणलक्षणं' तन्न घटाकोटिमाटीकते, संस्कारसन्निकर्षजन्यस्य सोऽयं घट इति प्रत्यभिज्ञानस्य, एकस्मिन्नेव घटे घटोयं घटोऽयमितिधारावाहिकज्ञानस्य चाप्रामाण्यप्रसङ्गात् । नन्वत्र पूर्वपर्यायहान्युत्तरपर्यायोत्पत्तिमत्कार्यमिति कार्यलक्षणात् फलरूपज्ञानस्यापि कार्यत्वं तथाच कार्यस्य करणजन्यत्वनियमात, यथा-छिदाया दात्रजन्यत्वमतः करणं वक्तव्यम् । सत्यम् । स्वपरव्यवसायिज्ञानमेव करणं, यथा-छिदायां दात्रम् । किं Page #8 -------------------------------------------------------------------------- ________________ पुनः करणं 'साधकतमं करणम्' अतिशयितं च साधक साधकतमं प्रकृष्टं कारणमित्यर्थः । ननु साधकं कारणं हेतुरिति पर्यायास्तदेव न ज्ञानते किं तत्कारणमित्युच्यते 'कार्यानुकृतान्वयव्यतिरेकि कारणं' तचात्मेन्द्रियायेत्र, यथा-मृत्पिण्डचक्रादिकं घटस्य । तच्च कारणं त्रिविधं परिणामिनिवर्तकनिमित्तभेदात् तत्र परिणामिकारणमात्मा, यथा-मृत्पिण्डायेव घटादितया परिणमतीति घटे मृत्पिण्डः पटे तन्तव इत्यादिपरिणामिकारणम् । ननु मृत्पिण्डसंवन्ध इव चक्रादिसम्बधोऽपि घटते तत्कथं घटे मृत्पिण्डः पटे तन्तवो न चक्रतुर्यादयः परिणामिकारणम् । सत्यम् । द्विविधः सम्बन्धः संयोगोऽविष्वग्भावश्च, तत्र साध्यसाधनयोगणगुणिनोरवयवावयविनोस्संबन्धोऽविष्वग्भावस्तादात्म्यं स्वरूपसंवन्ध इति यावत् । स्वरूपसंवन्धत्वं च संवन्धान्तरमन्तरेणापि विशिष्टप्रतीतिजननयोग्यत्वमिति । न चात्र समवायसवन्धस्तस्य भावद्वयधर्मत्वादयुतसिद्धयोश्च संवन्धस्समवायः, अयुतसिद्धत्वे च"तावेवायुतसिद्धौ धौ विज्ञातव्यौ ययोर्खयोः । अविनश्यदेकमपराश्रितमेवावतिष्ठते ॥१॥" इति । ... तस्मान्मृत्पिण्डघटयोरविष्वग्भाव एव संबन्धः, मृत्पिण्डचक्रयो विष्वग्भावस्तत्स्वरूपाभावान्नाहि मृत्पिण्डश्चक्रतया परिणमति नापि चक्रं मृत्पिण्डतया अतस्तयोः संयोग एवं Page #9 -------------------------------------------------------------------------- ________________ संबन्धः । निवर्तकं कारणमात्मैव, यथा-कुम्भकारः कुम्भस्य । निमित्तकारणं चक्षुर्घटादय उपग्राहका । यथा-दण्डादयो घटस्य । तदुक्तंनिर्वतको निमित्तं परिणामी च त्रिधेष्यतेः हेतुः । कुम्भस्य कुम्भकारो धर्ता मृच्चेति समसंख्यः ॥१॥ इति । निमित्तकारणं च द्वेधा निमित्तकारणमपेक्षा कारणं च । यत्र दण्डादिषु प्रायोगिकी ससिकी च क्रिया भवति तानि दण्डादीनि निमित्तकारणानि । यत्र च धर्मास्तिकायादिद्रव्येषु वैस्रसिक्येव तानि निमित्तकारणान्यपि विशेषकारणताज्ञापनार्थमपेचाकारणान्युच्यन्ते । हिताहितप्राप्तिपरीहारसमर्थ हि प्रमाणमतो ज्ञानमेवेदम् । तद् व्यवसायस्वभावं समारोपविरुद्धत्वात् । अत्तस्मिंस्तद. ध्यवसायः समारोपः । सच संशयविषयविपर्ययानध्यवसायभेदात्रिधा । तत्र साधकबाधकप्रमाणाभा. वादानवस्थितानेककोटिसंस्पर्शि ज्ञानं संशयः, यथायं स्थाणुर्वा पुरुषो वेति । विपरीतैककोटिनिष्टंकनं विप. र्ययः, यथा-शुक्तिकायामिदं रजतमिति ॥ किमित्यालोचनमात्रमनध्यवसायो, यथा-गच्छणस्पर्शज्ञानमिति । स्वोन्मुखतया प्रतिभि.सनं स्वस्य व्यवसायोऽर्थस्येव तदुन्मुखतया घटमहमात्मना जानामीति कर्मवत् कत् Page #10 -------------------------------------------------------------------------- ________________ ५ करणक्रियाप्रतीतेः । यथार्थाभिमुख्येन प्रकाशनमर्थव्यवसायो ज्ञानस्य । तथा स्वाभिमुख्येन प्रकाशनं स्वव्यवसायोऽपि तस्येति । को वा तत्प्रतिभासितमर्थमध्यक्षमिच्छन् तदेव तथा नेच्छेत्प्रदीपवत् । यत्तु योगैरुक्तं समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तर समयसमुत्पदिष्णुमानसप्रत्यक्षेणैव लक्ष्यते न पुनः स्वेनेति । तदसत् । परापरज्ञानोत्पादपरं पराया मेवात्मनो व्यापारादविषयान्तरसञ्चारादिति । तत्प्रामाण्यं स्वतः परतश्च ॥ ४ ॥ ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम् ||५|| तदितरत्त्वऽप्रामाण्यमिति ॥ ६ ॥ तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्चेति ॥७॥ ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगत गुणदोषरूपं परमपेच्योत्पद्यते । निश्चीयते त्वभ्यासदशायां स्वतोऽनभ्यासदशायां तु परत इति । तत्र ज्ञानस्याभ्यासदशायां प्रमेयाऽव्यभिचारि तदितरच्चास्तीतिप्रामाण्याप्रामाण्यनिश्चयः संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते । अनभ्यासदशायां तु तदपेच्य जायमानोऽसौ परत इति वस्तुगतिः । अत्र मीमांसका वदन्ति-स्वत एक सर्वथा प्रमाणानां Page #11 -------------------------------------------------------------------------- ________________ प्रामाण्यम् । तथा हि-प्रामाण्योत्पत्तौ प्रगुणा गुणाः प्रत्यक्षेणानुमानेन वा मीयेरन् । यदि प्रत्यक्षेण तत्किमिन्द्रियेण वाऽतीन्द्रियेण वा, नेन्द्रियेणाऽतीन्द्रियाधिकरणत्वेन तेषां तद्धर(द्ग्रह)णायोग्यत्वान्नाप्यतींद्रियेण तस्य चारुविचाराभावाद् । अनुपानेन ते निर्णीयन्ते इति चेत्कुतस्तत्र नियमनिर्णयः स्यान्न प्रत्यक्षाद् गुणेषु तत्प्रवृत्तेः परास्तत्वान्नाप्यनुमानात्तत एव निश्चितावितरेतराश्रयस्य, तदन्तरात्पुनग्नवस्थायाः प्रसक्तेः ततो न गुणास्सन्ति केचिदितिस्वरूपावस्थेभ्य एव कारणेभ्यो जायमानं प्रामाण्यं कथमुत्पत्तो परतः स्यादिति ॥१॥ निश्चयन्तु तस्य परतः कारणगुणज्ञानाद्बाधक भावज्ञानात्संवादिज्ञानाद्वा स्यात्तत्र प्राच्यं प्रकारं प्रागेव प्रक्षिप्तवन्तो गुणग्रहणसमर्थप्रमाणपराकरणाद् । द्वितीते तु तात्कालिकस्य कालान्तरमाविनो वा बाधकस्याभावज्ञानं प्रामाण्यनिश्चायकं स्यात्, पौरस्त्यं ताक्व कूटहाट कनिष्टंकने स्पष्टमस्त्येव, द्वितीयं तु न चमचनुषा सम्भवति ॥२॥ संवादिज्ञानं तु सहकारिरूपं सत्तनिश्वयं विरचयेद्, ग्राहकं वा भवेन्नाद्यभेदो भिन्नकालत्वेन तस्य सहकारित्वासंभवाद्, द्वितीयपक्षे तु तस्यैव ग्राहक सत्सद्विषयस्य विषयान्तरस्य वा ? नाद्यः प्रवत्तकज्ञानस्य दूरनष्टत्वेन ग्राह्यत्वायोगाद्, द्वितीये त्वेकसन्तानं भिन्नसन्तानं वा प्रामाण्यं स्यात्पक्षद्वयेऽपि तैमिरिकावलोक्यमानकचन्द्रमण्डलद्वयदर्शिदर्शनेन व्यभिचारस्तद्धि चैत्रस्य पुनः पुनर्मित्रस्य Page #12 -------------------------------------------------------------------------- ________________ चोत्पद्यत एव ॥ ३॥ तृतीये पुनरर्थक्रियाज्ञानमन्यद्वा तद्वा (द) भवेन्नाग्रिमं प्रवर्त्तकस्य प्रामाण्यानिश्वये प्रवृत्त्यभावेनार्थक्रियाया एवाभावादन्यदपि विज्ञानमेकसन्तानं भिन्नसन्तानं वा द्वयमपि चैतदेकजातीयं भिन्नजातीयं वा चतुष्टयमपि चैतद् व्यभिचारदुःसञ्चरं, तथाहि - एकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरङ्गिणीतोयज्ञानं मिन्नजातीयं च स्तंभकु - भादिज्ञानं कूपपानीयज्ञानस्य न संवादकमिति न ज्ञप्तावपि प्रामाण्यं परतः ॥ ४ ॥ प्रामाण्यं तूत्पत्तौ दौषापेक्षत्वाद् ज्ञप्तौ तु बाधक तत्वात्पत एवेति । अत्र ब्रूमः - यत्तावद्गुणः प्रत्यक्षेण (नुमानेन वा मीयेरमित्याद्युक्तं तदखिलं दोषेष्वपि वक्तु पार्यते । अथ प्रत्यक्षे| जैव चक्षुरादिस्थ न् दोषान् निश्चिकियरे लोकाः किं नैर्मल्यादीनू गुणानपि न । अथ तिमिरादिदोषाभावमात्रमेव नैर्मल्यादि नतु गुणरूपमिति कथं प्रत्यक्षेण गुणनिश्चयः स्वादेवं तहिं नैर्मल्या दिगुणाभावमात्रमेव तिमिरादि नतु दोषरूपमिति विपययकल्पना किं न स्यादिति ॥ १ ॥ यच्चावाचि निश्चयस्तु तस्य परत इत्यादि । तत्र संवादिज्ञानादिति ब्रूमः । कारणगुणज्ञानबाधकाभावज्ञानयोरपि च संवादज्ञानरूपत्वं प्रतिपद्यामहे । अथ बाधका देवाप्रामाण्यनिर्णयो न पुनर्ज्ञाननिर्णायकादेवं तर्हि संवादकादेव प्रामाण्यस्यापि निर्णयोस्त्विति तदपि कथं स्वतो निर्णीत स्यात्, निविशेषणं चेदर्थप्राकटयपर्था षत्यु Page #13 -------------------------------------------------------------------------- ________________ स्थापकं तद्य प्रमाणेऽपि प्रामाण्यनिर्णयकार्यापच्युत्थापना. पत्तिार्थप्राकटयमात्रस्य तत्रापि सद्भावादिति ध्येयम् । तद् दिविधं प्रत्यक्षश्च परोक्षश्च ॥८॥ स्पष्टं प्रत्यक्षम् ॥१॥ प्रबलतरज्ञानावरणवीयांतराययोः क्षयोपशमात् क्षयाद्वा स्पष्टताविशिष्टं वैशिष्टयास्पदीभूतं यत्तत्प्रत्यक्षं, स्पष्टत्वं चानुपानाधाधिक्येन विशेषप्रकाशनम् । तद् द्विविधं सांव्यवहारिकं पारमर्थिकञ्च ॥१०॥ बाह्यन्द्रियादिसामग्रीसापेक्षत्मादपारमार्थिकमस्मदादिप्रत्यक्षम् । परमार्थे भवं पारमार्थिकं मुख्यमात्मसनिधिमात्रापेक्षमवध्यादिप्रत्यक्षमिति । तत्राद्यमिन्द्रियनिमित्तमनिन्द्रियमित्तञ्च ॥११॥ ___ इन्द्रियाणि चक्षुरादीनि । तत्र चतुर्वया॑नि प्राप्यकारीणीति ननु इन्द्रियज्ञाने मनोऽपि व्यापिपर्तीति कथं न तेन व्यपदेशः, उच्यते-इन्द्रियस्यासाधारणकारणत्वान्मनःपुनरनिन्द्रियज्ञानेऽपि व्याप्रियत इति साधारणं तद्, असाधारण्येन चन् यपदेशो दृश्यते, यथा-पयःपवनातपादिजन्यत्वेप्यकुरस्य बीजेनैव व्यपदेशः शाल्यङ्कुरः कोद्रवाङकुरोऽयमिति । अनिन्द्रियं मनोनिमित्तमिति । Page #14 -------------------------------------------------------------------------- ________________ एतद्वितयमवग्रहेहावायधारणाभेदादेकैकशश्चतुर्विकल्पम् ॥ १२॥ तत्र विषयविषयियोग्यदेशावस्थानानन्तरसमुद्भूतसत्तामागोचरदर्शनाजातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहण. मवग्रहः । अवगृहीतार्थविशेषाकाङ्क्षणमीहा । ईहितविशेषनिर्णयोऽवायः । स एव दृढतमावस्थापनो धारणेति । कचिदभेदेपि परिणामविशेषादेषां व्यपदेशभेदः । क्रमोप्यमीषामयमेव तथैव संवेदनादेवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्चान्यथा प्रमेयानवगतिप्रसङ्गो, न खल्वदृष्टमवगृह्मते, न चाऽनवगृहीतं सन्दिह्यते, न चासंदिग्धमीह्यते, न चानीहितमवेयते, न चानवेतं धार्यते । कचित्क्रमस्यानुपलचणमेषामाशूत्पादादुत्पलपत्रशतव्यतिमेदवदिति। पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥१३॥ तद्विकलं सकलञ्च ॥ १४ ॥ असंपूर्णपदार्थपरिच्छेदकत्वाद्रिकलं । तद्विपरीतं तु सफलं। तत्र विकलमवधिमन:पर्यायज्ञानरूपतया द्वधा । अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवविज्ञानम् । संयमविशुद्धिनिबन्धनाद्विशिष्टावरणविच्छेदाजातं मनोद्रव्यपर्यायालंबनं मन:पर्यायज्ञानम् । सकलं तु Page #15 -------------------------------------------------------------------------- ________________ सामग्रीविशेषतः समुदभूतसपस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारस्वरूपं केवलज्ञानमिति । तद्वानहनिर्दोषत्वाभिर्दोषोऽसौ प्रमाणाविरोधिवाकत्वात्तदिष्टस्य प्रमाणेनाबा. ध्यमानत्वात्तद्वाचस्तेनाविरोधसिद्धिरिति । अस्पष्टं परोक्षम् ॥१५॥ प्रासूचितस्पष्टत्वाभावभ्राजिष्णु यत्प्रमाणं तत्परोक्ष, तब स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदात्पञ्चप्रकारम॥१६ - तत्र संस्कारप्रबोधसंभृतार्थविषयं तदित्याकारं ज्ञानं स्मरणं, तत्तीर्थकरबिंबमिति यथेति । अनुभवस्मृतिहेतुकं 'तिर्यगूतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभि. ज्ञानम् । यथा तजातीय एवायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्तः इत्यादि । उपलं भानुपलंभसंभवं त्रिकालीकलितसाध्यसाधनसंवन्धाद्यालंबनमिदमस्मिन् सत्येव भवतीत्याकारं ज्ञानमूहापरनामा तक्कः । यथा यावान् कश्चिद् धूमः स सर्वो वही सत्येव भवतीति तस्मिन्नसतिं असो न भवत्येवेति । अनुमानं द्विप्रकारं स्वार्थ परायं च ॥ १७ ॥ तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थ ॥ १८॥ Page #16 -------------------------------------------------------------------------- ________________ ११ निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥ ११ ॥ इष्टमबाधितमसिद्धं साध्यम् ॥ २० ॥ तद्विशिष्टः प्रसिद्धो धर्मी पक्षः । धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः कुत्रचित्प्रमाणतः क्वापि विकल्पप्रमाणाभ्याम् । विकल्पोऽध्यवसायमात्रम् । विकल्पसिद्धे धर्मिणि सत्तेतरे साध्ये | अस्ति सर्वज्ञो नास्ति खरविषाणम् । प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता, अग्निमानयं देशः, परिणामी शब्दो यथा । पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥ २१॥ पचहेतुवचनात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्यापेक्षयाऽत्रोक्तमव्युत्पन्नमतिप्रतिपाद्यापेक्षया तु धूमोऽत्र दृश्यत इत्यादि हेतुवचनमात्रात्मकमपि तद्भवति । बाहुल्येन तत्प्रयोगाभावात्तु नैतत्साक्षात्सूत्रे सूत्रितमुपलक्षितं तु द्रष्टव्यं । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद्भवतीति । साध्यस्य प्रतिनियतधर्मिंसंबन्धिताप्रसिद्धये हेतोरुपसंहारवत्पक्षप्रयोगोप्यवश्यमाश्रयितभ्यः, यथा - पत्र धूमस्तत्र धूमध्वजः । व्युत्पन्नं प्रतिहेतुप्रयोगस्तथोपपत्याऽन्यथानुपपत्यैव वा ॥ २२ ॥ तथैव साध्यसंभवप्रकारेणैवोपपत्तिस्तथोपपत्तिः । अन्यथा साध्याभावप्रकारेणानुपपत्तिरेवान्यथानुपपत्तिस्ताभ्यामिति । Page #17 -------------------------------------------------------------------------- ________________ १२ यथाग्निमानयं प्रदेशः, तथा धूमवच्चोपपत्तेर्धूमवच्चान्यथानुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीय प्रयोगस्यैकत्रानुपयोगः | अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावंशक्तौ च बहिर्व्याप्तिरुद्भावनं व्यर्थम् । मन्दमतींस्तु व्युत्पादयितु दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि । प्रतिबंधप्रतिपत्तेरास्पदं दृष्टान्तः ॥ २३ ॥ स धाऽन्वयव्यतिरेकभेदात् ॥ २४ ॥ साधन सत्तायां यत्रावश्यं साध्यसत्ता प्रदर्श्यते सोऽन्वयइष्टान्तो, यथा-यत्र धूपस्तत्र वह्निर्यथा महानस इति । साध्याभावे साधनस्याभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तो, यथा वयभावे न भवत्येव धूमो यथा जलाशय इति । तोरुपसंहार उपनयो ॥ २५ ॥ यथा धूमात्र प्रदेशे इति । प्रतिज्ञाया स्तूपसंहारो निगमनम् ॥ २६ ॥ यथा तस्मादग्निरत्रेति । एते पक्षादयः पञ्चाप्यवयवाः प्रकीर्त्यन्ते । स हेतुर्द्विधा उपलब्ध्यनुपलब्धिभेदात् ॥ २७ ॥ उपलब्धिर्विधिप्रतिषेधयोग्नुपलब्धिश्च । तत्र विधि: संदेशः प्रतिषेधोऽसदंशः स चतुर्द्धा प्रागभावः १ प्रध्वं Page #18 -------------------------------------------------------------------------- ________________ साभावः २ इतरेतराभावो ३ स्यन्ताभाव ४ श्र। तत्र यनिवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावो, यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्ड इति । यदुत्पत्तो कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावो, यथा कपालकदंबकोत्पत्तौ नियमतो विपद्यमानस्य घटम्य कपालमाला इति । स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतरा भावो, यथा-पटस्वभावाद् घटस्वभावव्यावृत्तिरिति । कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावो यथा-चेतनाचेतनयोरिति । "क्षीरे दध्यादि यत्रास्ति प्रागभावः स उच्यते । नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् ॥१॥ गवयेऽश्वायभावस्तु सोऽन्योन्याभाव उच्यते । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ॥ २ ॥ ___ शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते । इति" उपलब्धेरपि दैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धिश्च ।। २८॥ तत्राविरुद्धोपलब्धिविधिसिद्धौ षोढा, साध्येनाविरुद्धव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचरभेदात् ॥२६॥ Page #19 -------------------------------------------------------------------------- ________________ ततो व्याप्याविरु द्रोपलब्धिःकार्याविरुद्धोपलब्धिः । कारणाविरुदोपलब्धिः ३। पूर्वचराविरुद्धोपलब्धिा ४ । उत्तरचराविरुद्धोपलब्धिः ५ । सहचराविरुद्धोपलब्धि ६ श्चेति । यथा-परिणामी शब्दः कृतकत्वाद्, यः कृतकः स परिणामी दृष्टो, यथा-घटः कृतकश्चायं तस्मात्परिणापी, यस्तु न परिणामी स न कृतको दृष्टो, यथा-वन्ध्यास्तनन्धयः कृतकश्चायं तस्मात्परिणामी १। अस्त्यत्र पर्वते वह्निः धूमसमुपलंमात् २ । अस्त्यत्र छाया छत्रात् ३। उदेष्यति शकटं कृत्तिकोदयात् ४ । उदगाद्धरणिः प्राकृत्तिकोदयात् ५। अस्त्यत्र सहकारफले रूपं रसात् ६ । इति ॥ विरुद्धव्याप्याद्य पलब्धिः प्रतिषेधे षोढा ॥ ३०॥ तत्र विरुद्धव्याप्योपलब्धियथा-नास्त्यत्र शीतस्पर्श उष्णात विरुद्धकार्योपलब्धिर्यथा-नास्त्यस्य क्रोधाद्युपशान्तिवंदनविकारात् । द्वितीयोदाहरणं, यथा-नास्त्यत्र शीतस्पर्शी धूमात् २ । विरुद्धकारणोपलब्धिय॑था-नात्र शरीरिणि सुखमस्ति हृदयशल्यात् ३ । विरुद्ध पूर्वचरोपलब्धियथा-नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् ४ । विरुद्धोत्तरचरोपलब्धिर्यथा. नोदगाद् भरणिमुहूर्तात्पूर्व पुष्योदयात् ५। विरुद्धसहचरोपलब्धिर्यथा-नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति ६ । Page #20 -------------------------------------------------------------------------- ________________ १५ श्रनुपलब्धेरपि द्वै रूप्यमविरुद्धानुपलब्धिविरुद्धानुपलब्धिश्च ॥ ३१ ॥ तत्राविरुद्धानुपलब्धिः प्रतिषेधसिद्धौ सप्तधा स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलब्धि. भेदात् ॥ ३२ ॥ - ततः स्वभावानुपलब्धिः। व्यापकानुपलब्धिः २ । कार्यानुपलब्धिः ३ । कारणानुपलब्धिः ४ । पूर्वचरानुपलब्धि ५। रुत्तरचरानुपलब्धिः ६ । सहचरानुपलब्धिश्चेति ७ । उदाहृतियथा-नास्त्यत्र भूतले घट उपलब्धिलक्षणप्राप्तत्वे सति अनुपलब्धेः १ । नास्त्यत्र शिंशपा वृक्षानुपलब्धेः २ । नास्त्यत्राप्रतिवद्धसामर्थ्याग्निधूमानुपलब्धेः ३ । नास्त्यत्र धुमोऽनग्ने ४ । नोदेष्यति मुहर्तान्ते शकटं कृत्तिकोदयानु. पलब्धेः ५ । नोदगावणिर्मुहूर्तात्प्राक् कृत्तिकोदयानुपलब्धेः ६ । नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धे ७ ॥१॥ इति ॥ विरुद्धानुपलब्धिविधौ पश्चया विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलभभेदात् ।। ३३ ।। विरुद्धकार्यानुपलब्धिः १ । विरुद्धकारणानुपलब्धिः २ । विरुद्धस्वभावानुपलब्धिः ३ । विरुद्धन्यापकानुपलब्धिः ४ । Page #21 -------------------------------------------------------------------------- ________________ विरुद्धसहचरानुपलब्धिश्चेति शउदाहृतियथाऽस्मिन प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेः १ । अस्त्यत्र शरीरिणि दुःखमिष्टसंयोगाभावात् २ । अनेकान्तात्मक वस्तु एकान्तस्वरूपानुपलब्धेः ३। अस्त्यत्र छाया औष्ण्यानु. पलब्धेः४। अस्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनानुपलब्धेः ५ ॥ इति ॥ परंपरया संभवत्साधनमत्रैवान्तर्भावनीयम् । अभूदन चक्रे शिवका स्थासात् कार्यकार्यमविरुद्ध कार्योपलब्धौ यथा-नास्त्यत्र मृगक्रीडनं मृगारिशब्दात् कारणविरुद्धकार्योपलब्धौ यथा २॥ इति ॥ आसवचनाजातमर्थज्ञानमागमः ॥ ३४॥ उपचारादातवचनञ्च ॥ ३५ ॥ यथा अस्त्यत्र निधिः । सन्ति मेदियः ॥ २ ॥ अभिधेयं वस्तु यथावस्थितं यो जानीते यथावानं चाभिधत्ते स प्राप्तः ॥ ३६॥ . स च द्वधा लौकिको लोकोत्तरश्च । तत्र लौकिको जनकादिलोकोत्तरस्तु तीर्थकरादिः । सहजसामर्थ्यसङ्केताभ्यामर्थबोध(निबंध)नं शब्दः ॥ ३७॥ अकारादिः पौद्गलिको वर्ण इति । Page #22 -------------------------------------------------------------------------- ________________ तस्य विषयः सामान्यविशेषाद्यनेकात्मकं वस्तु ३८। अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहा. रावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेश्च।३१। तस्य प्रमाणस्य विसीयन्ते निबध्यन्ते विषयिणोऽस्मिनिति विषयो गोचरः परिच्छेद्यमितियावत् । सामान्यविशेषौ वक्ष्यमाणलक्षणावादिर्यस्य सदसदायनेकान्तस्य तत्तदात्मकं तत्स्वरूपं वस्त्विति । सामान्यं द्वैधा तिर्यगूवतादिभेदात् ॥ ४० ॥ सदृशपरिणामस्तिर्यग् खण्डमुद्गा दिगोत्ववत् । तत्र प्रतिव्यक्ति तुल्या परिणति स्तिर्यक्सामान्यं शवलाशावलेयादिपिण्डेषु गोत्वं यथेति । परापरत्रिवर्तव्यापिद्रव्यमूर्खता, मृदिव स्थासादिषु, पूर्वापरपरिणामसाधारणद्रव्यमूर्खतासामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवदिति । . विशेषश्च देधा पर्यायव्यतिरेकभेदात् ॥ ४१॥ ... एकस्मिन् द्रव्ये क्रममाविनः पर्यायाः, आत्मनि हर्षविषादादिवदिति । विसदृशपरिणामो व्यतिरेको गोमहिषादिवदिति । अज्ञान निवृत्तिर्हानोपादानोपेक्षाश्च फलम् ॥४२॥ Page #23 -------------------------------------------------------------------------- ________________ १८ यत्प्रमाणेन साध्यते तदस्य फलं तद् द्विविधमान पारम्पर्येण च । तत्रानन्तर्येण स ' प्रमाणानामज्ञान निवृत्तिः । पारम्पर्येण हानोपादानोपेक्षा बुद्धयश्च फलम् । तत्प्रमाणाद् भिन्नमभिन्नं च, प्रमाणफलत्वान्यथानुपपत्तेः ॥ ४३ ॥ तस्यैकप्रमातृतादात्म्येन प्रमाणादभेदव्यवस्थितेः । प्रमाणतया परिणतस्यैवात्मनः फलतया परिणतिप्रतीतेः, यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्याददात्युपेचते चेति प्रतीतेः । साध्यसाधनभावेन प्रमाणफलयोः प्रतीयमानत्वात्, कर्त्ता हि साधकः स्वतन्त्रत्वात् क्रिया तु साध्या कतु निर्वर्ण्यत्वादिति । प्रमाणस्वरूपादेरन्यत्तदाभासम् ॥ ४४ ॥ अज्ञानात्मका नात्मप्रकाश कस्वमात्रावभासकनिर्वि कल्पकसमारोपाः प्रमाणस्य स्वरूपाभासाः || ४५ ॥ यथा संनिकर्षाद्यस्वसंविदितपरानव मासकज्ञानदर्शन विपर्ययसंशयान व्यवसायाः प्रमाणाभासाः । यथा - द्विचन्द्रादिज्ञानं, विभङ्गश्च प्रत्यक्षाभासम् । अतस्मिंस्तदिति ज्ञानं स्मरणाभासम् । यज्ञदत्ते स देवदत्तो यथा । असदृशे तदेवेदं तस्मिंश्च तत्सदृशमित्यादिज्ञानं प्रत्यभिज्ञानाभासं यमलज्ञानवत् । Page #24 -------------------------------------------------------------------------- ________________ तुल्ये पदार्थे स एवायमित्येकस्मिश्च तेन तुल्यमित्यादिज्ञानं प्रत्यभिज्ञानाभासं युगलजातज्ञानवदिति । असंवन्धे तद्ज्ञानं तर्कामासम् । यावांस्तत्पुत्रः स श्याम इति । असत्यामपि व्याप्तौ तदाभासस्ताभासः, व्याप्तिरविनाभावो, यथा-स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रीतनयः स श्याम इति । अनुमानाभासमिदं-पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासम् । अनिष्टादिः पक्षाभासः । अनिष्टो मीमांसकस्यानित्यः शब्दः । सिद्धः श्रावणः शब्दः । बाधिता प्रत्यक्षानुमानागमलोकस्वचनैरनुष्णोऽग्निरित्यादिवत् । असिद्धविरुद्धानकान्तिका हेत्वाभासाः ॥ ४६ ॥ प्रमाणेनासिद्धान्ययानुपपत्तिरसिद्धः, परिणामी शब्दश्चाक्षुषत्वात् ॥ ४७॥ तत्र यस्य प्रमाणेनासिद्धाऽन्यथानुपपचिः सोऽसिद्धः । स विविध उभयासिद्धोऽन्यतरासिद्धश्व, तत्र उभयस्य वादिप्रतिवादिसमुदायस्यासिद उभयासिद्धो, यथा-परिणामी शब्दः चानुषत्वादिति । अन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धोऽन्यतरासिद्धो, यथा-अचेतनास्तरवो विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादिति। विपरीतान्यथानुपपत्तिविरुद्धः ॥ ४८ ॥ Page #25 -------------------------------------------------------------------------- ________________ श्रनित्यः पुरुषः प्रत्यभिज्ञानादिमत्त्वात् ॥ ४ ॥ ___ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरवसीयते स विरुद्धः, यदा केनचित्साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदासौ विरुद्धो हेत्वाभासो, यथानित्य एव पुरुषोऽनित्य एव वा प्रत्यभिज्ञानादिमत्त्वादिति २। विपक्षेप्यविरुद्ध वृत्तिरनैकान्तिकः ॥ ५० ॥ . अनित्यः शब्दः प्रमेयत्वात् ॥ ५१ ॥ यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः, सच द्वेधा-निर्णीतवि-पक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । निर्णीता विपक्षे वृत्तिर्यस्य स निर्णोतविपक्षवृत्तिको यथा-नित्यः शब्दः प्रमेयत्वादिति । सन्दिग्धा विपक्षे वृत्तिर्यस्य स सन्दिग्धविपक्षवृत्तिको यथा-विवादपदापमः पुरुषः सर्वज्ञो न भवति वक्तृत्वादिति । अन्वये दृष्टान्ताभासी श्रसिद्धसाध्यसाधनोभयाः।५२॥ अपौरुषेयः शब्दः मूर्तत्वादिन्द्रियसुखपरमाणुघटवत् ॥ ५३॥ विपरीतान्वयश्च यदपौरुषेयं तदमूर्त विद्यु दादिनातिप्रसङ्गात् ॥ ५४ ॥ Page #26 -------------------------------------------------------------------------- ________________ व्यतिरेकेऽसिद्धतव्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत् ॥ ५५ ॥ विपरीतव्यतिरेकश्च यन्नामूर्तं तन्नापौरुषेयमिति॥५६॥ साधम्येण दृष्टान्ताभासो नवधा तत्र साध्यधर्मविकलः १। साधनधर्मविकलः २ । उभयधर्मविकल: ३ । सन्दिग्धसाध्यधर्मा ४ । सन्दिग्धसाधनधर्मा ५। सन्दिग्धोभयधर्मा ६ । अनन्वयः ७। अप्रदर्शितान्वयः ८ । विपरीतान्वयश्च । तत्र साध्यधर्मविकलो यथाऽौरुषेयः शब्दोऽमूर्तत्वात दुःखवदिति १ । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ परमाणुषदिति साधनधर्मविकला २ । मृतत्वात्परमाणोः कलशवदित्युभयधर्मविकलः इति । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतो कलशदृष्टान्तस्य पौरुषेयत्वान्मूर्त्तत्वाच्च साध्यसाधनोमयधर्मविकलता ३ । तथा रागादिमानयं वक्तृत्वाद् देवदत्तवदिति सन्दिग्धसाध्यधर्मा ४। मरणधर्मायं रागादिमत्त्वान्मैत्रवदिति सन्दिग्घसाधनधर्मा ५ । नायं सर्वदर्शी रागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोभयधर्मा ६ । रागादिमान विक्षितः पुरुषो वक्तृत्वादित्यनन्वयः ७ । अनित्यः शब्दः कुतकत्वाद् घटवदित्यप्रदर्शितान्वयः ८। अनित्यः शब्दः कृतकत्वाद्यदनित्यं तत्कृतकं घटवदिति विपरीतान्वयः । इति ॥ . . . Page #27 -------------------------------------------------------------------------- ________________ २२ वैधर्म्येणापि दृष्टान्ताभासो नवधा- असिद्धसाध्यव्यतिरेको १ | sसिद्धसाधनव्यतिरेको २ | सिद्धोभयव्यतिरेकः ३ । सन्दिग्धसाध्यव्यतिरेकः ४ । सन्दिग्धसाधनव्यतिरेकः ५ । सन्दिग्धोभयव्यतिरेको ६ । ऽव्यतिरेको ७ । प्रदर्शितव्यतिरेको ८ । विपरीतव्यतिरेकश्व | | , एषु भ्रान्तमनुमानं प्रमाणत्वाद् यत्पुनर्भ्रान्तिं न भवति न तत्प्रमाणं यथा स्वप्नज्ञानमित्यसिद्धसाध्यव्यतिरेकः स्वप्नज्ञानाद् भ्रान्तत्वस्यानिवृत्तेः १ । निर्विकल्पकं प्रत्यक्ष प्रमाणत्वाद् यत्तु सविकल्पकं न तत्प्रमाणं यथा - लैङ्गिक मित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः २ । नित्यानित्यः शब्दः सच्चाद्यस्तु न नित्यानित्यः स न सन् तद्यथा-स्तम्भ इत्यसिद्धो भयव्यतिरेकः स्तम्भान्नित्यानि - त्यत्वस्य सत्त्वस्य चाव्यावृत्तेः ३ । असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वाद्, यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी, यथा-सुगत इति सन्दिग्धसाध्यव्यतिरेकः ४ । अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वाद्यः पुनरादेयवचनः स वीतरागस्तद्यथा - शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः ५ । न वीतरागः कपिलः करुणास्पदेष्वपि परमकृपया नर्पितनिजपिशितशकलत्वात्, यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितशकलस्तद्यथा तपनबन्धुरिति सन्दिग्धोभयव्यतिरेकः ६ । न वीतरागः कश्चिद्विवक्षितः Page #28 -------------------------------------------------------------------------- ________________ पुरुषो वक्तृत्वाद्, यः पुनैवतभगो-प्रक्ताः पलखण्ड इत्यव्यतिरेकः ७ । अनित्यः शब्दः कृतकत्वादाकाशवदित्य प्रदर्शितव्यतिरेकः ८ । अनित्यः शब्द कृतकत्वाद्, यदकृतकं तन्नित्यं दृष्टं यथाऽऽकाशमिति विपरीतव्यतिरेकः ह | इति ॥ उपनयाभासो यथा - परिणामी शब्दः कृतकत्वाद्, यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकथ कुम्भ इति चेति । sarora धर्मिणि साधनधर्म वा दृष्टान्तधर्मिणि उपसंहरतः उपनयाभासः । तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति तस्मात्परिणामी कुम्भ इति चेति । अत्रापि साधनधर्म साध्यधर्मं वा दृष्टान्तधर्मिणि उपसंहरतो निगमनाभासः । अनाप्तवचनप्रभवं ज्ञानमागमाभासः ॥ ५७ ॥ यथा - मेकलकन्यकायाः फूले ताल हिन्तालयोम् ले सुलभाः पिण्डखजूराः सन्ति त्वरितं गच्छत गच्छत शावकाः । प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं संख्याभ्यासः । सामान्यमेव विशेष एव तदद्वयं वा स्वतन्त्रमित्यादिरस्य विषयाभासः || ५८ ॥ Page #29 -------------------------------------------------------------------------- ________________ २४ अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं तस्य तदाभासमिति । प्रमाणप्रतिपन्नार्थैकदेशपरामर्शो नयः ॥ ५१ ॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नयामासः । स व्याससमासाभ्यां द्विप्रकारः । व्यासतोऽनेकविकल्पः । समासतस्तु द्विभेो । द्रव्यार्थिकः पर्यायार्थिकश्च ॥ ६० ॥ श्राद्यो नैगमसङ्ग्रहव्यवहारभेदात्रेधा ॥ ६१ ॥ तत्र श्रन्यान्यगुणप्रधानभूतभेदाभेदप्ररूपणो नैगमः ॥ ६२ ॥ धर्मयोर्धर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ॥ पर्याययोर्द्रव्ययोद्रव्य पर्याययोश्च मुख्या मुख्यरूपतया यद्विवक्षणं स एवंरूपो नैके गमा बोधमार्गा यस्यासौं नैगमो नाम नयः प्रवचन प्रसिद्ध निलयनप्रस्थदृष्टान्तद्वयगम्यः । उदाहृतिर्यथा - सच्चैतन्यमात्मनीति धर्मयोः १ । वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः २ | क्षणमेकं सुखी विषयासक्तजीव इति तु धर्मधर्मिणोः ३ ॥ इति ॥ धर्मद्वयादीनामेकान्तिकपार्थ क्याभिसन्धिनैगमा भासः ॥ ६३ ॥ Page #30 -------------------------------------------------------------------------- ________________ यथात्मनि सत्वचेतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादि । सामान्यमात्रग्राही परामर्शः सङ्ग्रहः ॥ ६४ ॥ सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः समेकीमावेन पिण्डीभूततया विशेषराशि गृहातीति सङ्ग्रहः । अयमुभयविकल्पः । परोऽपरश्च । तत्राशेषविशेषेष्वोदासीन्यं मनमान: शुद्धद्रव्यं सन्मात्रमभिमन्यमान: परसङ्ग्रहः । यथा-विश्वमेकं सदविशेषादिति । अत्ताद्वैतं स्वीकुर्वाणः सकल विशेषाभिराचधाणस्तदाभासः, यथा-सत्त्व तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भदेषु गजनिमीलिकामवलंबमानः पुनरपरसङ्ग्रहः, यथा-धर्माधर्माकाशकालपुद्गलजीव. द्रव्याणामैक्यं द्रव्यत्वामेदादित्यादि । द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान्निनुवानस्तदाभासः ॥ ६५ ॥ यथा-द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरिति । सदिशेषप्रकाशको व्यवहारः॥६६॥ सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकं विमागेन स्थापनं येनाभिसन्धिना क्रियते स व्यवहारः, यथा-यत्सत्तत् द्रयं पायो वेस्वादि। Page #31 -------------------------------------------------------------------------- ________________ यः पुनरपारमार्थिक द्रव्यपर्यायप्रविभागमभिप्रैति स व्यवहाराभासः ॥ ६७॥ ___ यथा-चार्वाकदर्शनमिति ३ । पर्यायार्थिकश्चतुर्धा ॥ ६८ ॥ अजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च ।। ६१ ॥ तत्र शुद्धपर्यायग्राही ऋजुसूत्रः। ऋजु वर्तमानक्षण : स्थायि पर्यायमात्र प्राधान्यतः सूत्रयन्नभिप्राय ऋजुत्रः, यथा-सुखक्षणः सम्प्रत्यस्तीत्यादि । सर्वथा द्रव्यापलापी तदाभासः ॥ ७० ॥ यथा-ताथागतमतमिति ४ । कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः॥७१॥ ___ कालादिभेदेन कालकारकलिङ्गसङ्ख्यापुरुषोपसर्जनभेदे. नेति । यथा-बभूव भवति भविष्यति सुमेरुग्त्यिादि। तभेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥७२॥ यथा-बभूव भवति भविष्यत्ति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्ताहक सिद्धान्यशन्दवदित्यादि । पर्यायचनिभेदादर्थनानात्वनिरूपकः समभिरूढः॥७३ Page #32 -------------------------------------------------------------------------- ________________ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन समभिरूढः, शब्दनयो हि पर्यायभेदेप्यर्थाभेदमभिप्रेति, समभिरूडस्तु पर्याय मेदे भिनानानभिमन्यते । अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते, यथा-इन्दनादिन्द्रः शकनाच्छकः पुर्दारणात्पुरन्दर इत्यादिषु । पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥ ७४ ॥ यथा-इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादि ६ । क्रियाश्रयेण भेदप्ररूपणमेवम्भूतः ॥ ७५ ।। शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवम्भूतः यथेन्दनमनुभवभिन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते । क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् तदाभासः ॥ ७६ ॥ यथा-विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम् घटशब्दप्रवृत्तिनिमित्तभूत क्रियाशून्यत्वात्पटवदित्यादि ७ ॥ अत्र संग्रहश्लोका: अन्यदेव हि सामान्यममिन्मज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः॥१॥ Page #33 -------------------------------------------------------------------------- ________________ २० सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् सङ्ग्रहो मतः॥२॥ व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः ॥ ३ ॥ तत्र सत्रनीतिः स्याद् बुद्धिपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावस्थितिवियोगतः ॥ ४ ॥ विरोधिलिङ्गसंख्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ ५ ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ ६ ॥ एकस्यापि ध्वनेर्वाच्यं सदा तमोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ ७ ॥ एतेषु प्रथमे चत्वारोऽर्थनिरूपणप्रवणत्वादर्थनयाः । शेपास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः । पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः। तत्र सन्मात्रगोचरसङ्ग्रहान्नैगमो भावाभाषभूमिकस्वाद् बहुविषयः। सद्विशेषप्रकाशकाद् व्यवहारात्सङ्ग्रहः समस्तसत्समूहो. पदर्शकत्वाद् बहुविषयः। वर्तमानविषयाजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वादहुविषयः । कालादिमेदेन भिन्ना. र्थोपदर्शिनः शब्दाहजुमत्रस्तद्विपरीतवेदकत्वान्महार्थः। प्रति Page #34 -------------------------------------------------------------------------- ________________ पर्यायशब्दमर्थमेदमभीप्सनः सपभिरूढाव-शब्दस्तद्विपर्ययानुयायित्वात्प्रभूतविषयः । प्रतिक्रियं विभिन्नमर्थ प्रतिजाननादेवंभूतात्समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः । नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिनिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ७७॥ .. प्रमाणवदस्य फलं व्यवस्थापनीयमिति । अथोत्पादव्ययध्रौव्ययुक्ताः पदार्थाः । ते चादीपमाव्योमसमस्वभागाः । तत्रचैतन्यलक्षणः परिणामी ज्ञानादिधर्मभिन्नाभिन्नः कर्ता साक्षाभोवता स्वदेहपरिमाणः प्रतिशरीरं भिन्नः पौद्गलिकादृष्टवाँश्च जीवः ॥ ७८ ॥ ६ चैतन्यं साकारनिराकारोपयोगात्मकं लक्षणं स्वरूपं यस्यासौ चैतन्यलक्षणः १ । परिणमनं सुरनारकादिष्वपरापरपर्यायेषु गमनं प्रतिसमयमपरापरपर्यायेषु गमनं वा परिणामः स नित्यमस्यास्तीति परिणामी २। ये ज्ञानदर्शनचारित्रसुखदुःखवीर्यमव्याभव्यत्वद्रव्यत्वप्रमेयत्वप्राणधारित्वक्रोधादिपरिणतत्वसंसारित्वसिद्धत्वपरवस्तुव्यावृत्तत्वादयः स्वपरपर्याया जीवस्य भवन्ति, तेभ्यो जीवो न भिन्नो नाप्यभिन्नः किं तु जात्यन्तरतया भिन्नाभिन्नः । यदि हि ज्ञानादिधर्मेभ्यो जीवो Page #35 -------------------------------------------------------------------------- ________________ ३० भिन्नः स्यात्तदाहं जानामि, अहं पश्यामि, अहं ज्ञाताऽहं द्रष्टाहं सुखिनोऽह भव्यश्चेत्याद्यभेदप्रतिभासो न स्यादस्ति च सर्वप्राणिनां सोऽमेदप्रतिभासः । तथा यद्यभिन्नः स्यात्तदायं धर्मी एते धर्मा इति मेदबुद्धिर्न स्यादस्ति च सा । अथवा अभिन्नतायां ज्ञानादिसर्वधर्माणामक्यं स्यादेकजीवाभिन्नत्वात् । तथा च मम ज्ञानं मम दर्शनं चास्तीत्यादिज्ञानादिमिथोमेदबुद्धिर्न स्यादस्ति च सा ततो ज्ञानादिधर्मेभ्यो भिन्नाभिन्न एवाभ्युपगन्तव्यः ३ । करोत्यदृष्टादिकमिति कर्ता ४ । साक्षादनुपचरितवृत्या भुक्ते सुखादिकमिति साक्षाभोक्ता ५। स्वोपात्तवपुर्व्यापकः स्वदेहपरिमाणः ६ । प्रतिक्षेत्रं पृथक प्रतिशरीरं भिन्नः ७ । पुद्गलघटितकर्मपरतन्त्रः पोद्गलिकाऽदृष्टवान् ८। जीवः प्राणमाक्, प्राणाथ द्रव्यभावमेदाद् द्विभेदाः, तत्र द्रव्यप्राणाः पञ्चेन्द्रियत्रिविधवलोच्छ्वासनिःश्वासायूरूपाः । भावप्राणास्तु ज्ञानदर्शनोपयोगरूपाः । एभिः प्राणैरजीवद् जीवति जीविष्यति चेति जीवः आत्मा प्रत्यक्षादिगम्यः गुणप्रत्यक्षत्वात् । प्रयोगश्च। आत्मा प्रत्यक्षः स्मृतिजिज्ञासाचिकीर्षाजिगमिषासंशयविज्ञानविशेषाणां तद्गुणानां स्वसंवेदनप्रत्यक्षत्वात् । इह यस्य गुणाः प्रत्यक्षाः स प्रत्यक्षो दृष्टो, यथा-घट इति प्रत्यक्षगुणश्च जीवः तस्मात्प्रत्यक्षः। . Page #36 -------------------------------------------------------------------------- ________________ ३१ अनुमानगम्योऽपि यथा जीवच्छरीरं प्रयत्नवताधिष्ठितमिच्छानुविधायिक्रियाश्रयत्वात् १ | श्रोत्रादीन्युपलब्धिसाधनानि कतु प्रयोज्यानि करणत्वात् कुठारादीव २ | देहस्यास्ति विधाता आदिमत्प्रतिनियताकारत्वात् घटवत् । यत्पुनरकतु कं तदादिमत्प्रतिनियताकारमपि न भवति यथाऽभ्रविकारः । यश्च देहस्य कर्त्ता स जीवः ३ । तथा इन्द्रियाणामस्त्यधिष्ठाता करणत्वात् । यथा - दण्डचक्रादीनां कुलालः ४ । विद्यमानभोक्तृकं शरीरं भोग्यखात् भोजनवत्, यश्च भोक्ता स जीवः ५ । तथा रूपादिज्ञानं क्वचिदाश्रितं गुणत्त्रात् रूपादिवत् ६ । तथा ज्ञानसुखादिकमुपादानकारणपूर्वकं कार्यत्वात् घटादिवत् ७ । तथा प्रतिपक्षवानयमजीवशब्दः व्युत्पत्तिमतच्छुद्ध पदप्रतिषेधात्, यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान्, यथाऽघटो घटप्रतिक्षपवान्, अत्र हि अघटप्रयोगे शुद्धस्य व्युत्पत्तिमतश्च पदस्य निषेधोऽतोsaश्यं घटलक्षणेन प्रतिपक्षेण भावव्यम् यस्तु न प्रतिपक्षवान् न तत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो, यथा-अखर विषाणशब्दः अडित्थ इति वा ८ । तथा स्वशरीरे स्वसंवेदन प्रत्यक्षमात्मानं साधयित्वा परशरीरेऽपि सामान्यतो दृष्टानुमानेन साध्यते, यथा- परशरीरेऽप्यस्त्यात्मा इष्टानिष्टयोः प्रवृत्तिनिवृत्तिदर्शनात् यथा स्वशरीरे । दृश्येते च परशरीरे इष्टानिष्टयोः प्रवृत्तनिवृत्ती, तस्मात्तत्सात्मकं, आत्माभावे -0 Page #37 -------------------------------------------------------------------------- ________________ ३२ तयोरभावात् यथा-घटे है । नास्ति जीव इति योऽयं जीवनिषेधध्वनिः स जीवास्तित्वेनान्तरीयक एव निषेध शब्दत्वात् , यथा-नास्त्यत्र घट इति शब्दोन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगश्चात्र । इह यस्य निषेधः क्रियते तत्कचिदस्त्येव, यथा--घटादिकं, निषिध्यते च भवता तस्माद. स्त्येवासौ। यच्च सर्वथा नास्ति तस्य निषेधोऽपि न दृश्यते, यथा--पञ्चभूतातिरिक्तषष्ठभूतस्येति १० ॥ स च द्विविधो मुक्तः सांसारिकश्च ॥ ७१ ।। ___ तत्र मुक्तः सकलकर्ममलक्षयभागेकप्रकारः । सांसारिकश्चतुर्विधस्सुरनारकमनुष्यतियग्भेदात् । तत्र सुग भवनपतिव्यन्तरज्योतिब्कवैमानिकभेदाचतुविधाः। नारका रत्नप्रभापृथिव्यायधिकरणभेदेन सप्तधा । मनुष्या द्विप्रकारा गर्भज. सम्मूर्छजमेदात् । तिर्यञ्चोऽप्येकद्वित्रिचतुःपञ्चेन्द्रियमेदात्पश्चविधाः तत्रैकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिभेदात्पश्वप्रकारः। ननु भवतु जीवलक्षणोपेतत्वाद् द्वीन्द्रियादीनां जीवत्वं, . पृथिव्यादीनां तु जीवत्वं कथं श्रद्धेयं, व्यक्ततल्लिङ्गस्यानुपल ब्धेरिति चेत्सत्यं, यद्यपि तेषु व्यक्तं जीवलिङ्ग नोपलभ्यते तथाप्यव्यक्तं तत्समुपलभ्यत एव । यथा-हृत्पूरयतिमिश्रमदिरापानादिभिमर्थिताना व्यक्तलिङ्गाभावेऽपि सजीव Page #38 -------------------------------------------------------------------------- ________________ स्वमव्यक्तलिङ्गळवहियते एवं पृथिव्यादीनामपि सजीवत्वं व्यवहरणीयम् । ननु मूर्छितेषूच्छ्वासादिकमव्यक्तं चेतनालिङ्गमस्ति न पुनः पृथिव्यादिषु तथाविधं किश्चिच्चेतनालिङ्गमस्ति, नैतदेवं, पृथिवीकाये तावत् स्वस्वाकारावस्थितानां लवणविद्रमोपलादीनां समानजातीयाकुरोत्पत्तिमत्त्वम् अर्थीमांसाकुरस्येव चेतनाचिह्नमस्त्येव । अव्यक्तचेतनानां हि संभावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्या वनस्पतेश्च चैतन्यं विशिष्टतु फलप्रदत्वेन स्पष्टमेव, साधयिष्यते च। ततोऽव्यक्तोपयोगादिलक्षणसद्भावात्सचित्ता पृथिवीति स्थितम् । प्रयोगश्च-विद्रुमशिलादिरूपा पृथिवी सात्मिका छेदे समानधातूत्थानात् अर्शोकवत् । ननु च विद्रमपाषाणादिपृथिव्याः कठिनपुद्गलात्मिकायाः कथं सचेतनत्वमिति चेन्नैवं उच्यते, यथाऽस्थि शरीरानुगतं सचेतनं कठिनं च दृष्टमेवं जीवानुगतं पृथिवीशरीरमपीति । अथवा पृथिव्यप्तेजोवायुवनस्पतयो जीवशरीराणि छेद्यभेद्योक्षिप्यभोग्य यरसनीयस्पृश्यद्रव्यत्वात् सास्नाविषाणादिसङ्घातवत् । न हि पृथिव्यादीनां छेद्यत्वादि दृष्टमपतोतु शक्यम् । न च पृथिव्यादिनां जीवशरीरत्वमनिष्टं साध्यते सर्वपुद्गलद्रव्यस्य द्रव्यशरीरत्वाभ्युपगमात्, जीवसहितत्वं च विशेषः। अशस्त्रोपहतं पृथिव्यादिकं कदाचित्सचेतनं सङ्घातत्वात्पाणिपादसङ्घातवत् । तदेवं कदा Page #39 -------------------------------------------------------------------------- ________________ चिरिकश्चिदचेतनमपि, शस्त्रोपहतत्वात् पाण्यादिवदेव । न चात्यन्तं तदचित्त मेवेति १ ॥ अथ नाकायो जीवस्तल्लक्षणायोगात्प्रश्रवणादिवदिति चेन्नैवं हेतोरसिद्धत्वात् । तथा हि-हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं सचेतनं च दृष्टमेवमकायिकस्यापि। यथा-वाण्डके रसमात्रसमं जातावयवमनभिव्यक्तचञ्च्वादि. प्रविभागं चेतनावद् दृष्टं, एलेवोपमान्जीवानामपि । प्रयोगश्चायं। सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात् हस्तिशरीगेपादानभृतकललवत् । हेतोविशेषणोपादानात्प्रश्रवणादिव्यु. दासः १ । तथा सात्मकं तोयमनुपहतद्रवत्वात् अण्डकमध्य . स्थितकललवदिति २ । इदं वा प्राग्वजीवच्छरीरत्वे सिद्ध सति प्रमाणम् । सचेतना हिमादयः कचिदप्कायवादितरोदकवदिति ३ । तथा कचन चेतनावन्त्यापः खातभूपिस्वाभाविकसम्भवात् द ग्वत् ४ । अथवा सचेतना अन्तरिवोद्भवा आपोऽभ्रादिविकारे स्वत एवं सम्भृयपातात् मत्स्यवदिति । तथा शीतकाले भृशं शीते पतति नद्यादिज्वल्पेऽल्पो वही बहुर्वहुतरे च बहुतरो य ऊष्मा संवेद्यते स जीवहेतुक एवाऽल्पबहुबहुतरमिलितमनुष्यशरीरेष्वल्पबहुबहुतरोष्मवत् । शीतकाले जलेषष्णस्पर्श उष्णस्पर्शवस्तुप्रभव उष्णस्पर्शत्वात् , मनुष्यशरीरोष्णस्पर्शवत् । नच जलेष्वयमुष्णः Page #40 -------------------------------------------------------------------------- ________________ ३५ स्पर्शः सहजः अप्सु स्पर्शः शीत एवेति वैशेषिकादिवचनात् । तथा शीतकाले शीते स्कीते निपतति प्रातस्तटाकादेः पश्चिमस्यां दिशि स्थित्वा यदा तटाकादिकं विलोक्यते तदा तज्जलान्निर्गतो वाष्पसंभारो दृश्यते सोऽपि जीवहेतुक एव । प्रयोगस्त्वित्थं - शीतकाले जलेषु वाष्प उष्णस्पशंवस्तु प्रभवो वाष्पत्वात् । शीतकाले शीतल जल सिक्त मनुष्यशारीर बाष्पवत् । प्रयोगद्वयेऽपि यदेवोष्णस्पर्शस्य बाष्पस्य च निमित्तमुष्णस्पर्शं वस्तु तदेव तैजसशरीरोपेतमात्माख्यं वस्तु प्रतिपत्तव्यम् । जलेष्वऽन्यस्योष्णस्पर्शवाष्पयो निंमित्तस्य वस्तुनोऽभावात् । न च शीतकाले उत्कुरुडिकाव करतलगतोष्णस्पर्शेन तन्मध्यनिर्गतवाष्पेन च प्रकृतहेतोर्व्यभिचारः शङ्कयः । तयोरप्यवकरमध्योत्पन्नमृतजीवशरीरनिमित्तत्त्वाभ्युपगमात् । ननु मृतजीवानां शरीराणि कथमुष्णस्पर्शवाष्पयो र्निमित्ती भवन्तीति चेदुच्यते, यथाऽग्निदग्धपाषाणखण्डिकासु जलप्रक्षेपे विध्यातादप्यग्ने रुष्णस्पर्शबाष्पौ भवेतां तथा शीतसंयोगे सत्यप्यत्रापीति । एवमन्यत्रापि बाष्पोष्णस्पर्शयोनिमित्तं सचित्तमचित्तं वा यथासम्भवं वक्तव्यम् । इत्थमेव शीतकाले पर्वतनितम्बस्य निकटे वृक्षादीनामधस्ताच्च य उष्मा संवेद्यते सोऽपि मनुष्यवपुरूष्मावजीवहेतुरेवावगन्तव्यः । एवं ग्रीष्मकाले बाह्यतापेन तैजसशरीररूपादीभवनात् जलादिषु यः शीतलस्पर्शः सोऽपि मानुष Page #41 -------------------------------------------------------------------------- ________________ ३६ शरीर शीतलस्पर्श जीव हेतु कोऽभ्युपगमनीयः । तत एवंविधलक्षणभाक्त्वा जीवा भवन्त्यष्कायाः २ ।। यथा रात्रौ खद्योतकस्य देहपरिणामो जीवप्रयोगनिवृत्त शक्ति विश्वकास्ति, एवमङ्गारादीनामपि प्रतिविशिष्टप्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, एषैवोपमाग्नेयजन्तूनां न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते । एवमन्त्रयव्यतिरेकाभ्यामग्नेः सचितता ज्ञेया । प्रयोगश्चात्र । आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः शरीरस्थत्वात् खद्योतदेहपरिणामवत् १ | तथा आत्मसंयोगपूर्व कोऽङ्गारादीनामृष्मा शरीर - स्थत्वात्, ज्वरोष्मवत् । नचादित्यादिभिरनेकान्तः सर्वेषा - मुष्णस्पर्शस्यात्मसंयोगपूर्वकत्वात् २ | तथा सचेतनं तेजो यथायोग्याहारोपादानेन वृद्धयां दिविकारोपलम्भात् पुरुपत्रपूर्वं त् ३ । एवमादिलक्षणैराग्नेयजन्तवोऽवसेयाः ३ ॥ यथा देवस्य स्वशक्तिप्रभावान्मनुष्याणां वाञ्जनविद्यामन्त्रैरन्तर्धाने शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यमानं चेतनावच्चाध्यवसीयते । एवं वायावपि चतुर्ग्राह्य रूपं न भवति सूक्ष्मपरिणामात् परमाणोखि वह्निदग्धपाषाणखण्डिकागताऽचित्ताग्नेरिव वा । प्रयोगश्चायं । चेतनावान् वायुर पर प्रेरिततिर्यगनियमितदिग्गतिमत्त्वात् गवाश्वादिवत् १ । तिर्यगेव गमननियमात् अनियमितविशेषणोपादानाच्च परमाणुना न · · Page #42 -------------------------------------------------------------------------- ________________ ३७ व्यभिचारस्तस्य नियमितगतिमत्त्वात् 'जीवपुद्गलयोरनुश्रेणि गतिरिति वचनात्' । एवं वायुरशस्त्रोपहतश्वेत नावानवगन्तव्यः ४ ॥ बकुलाशोकचम्पकाद्यनेकविधवनस्पतीना मेतानि शरीराणि न जीवव्यापारमन्तरेण मनुष्यशरीरसमानधर्मभाजि भवन्ति । तथा हि-यथा पुरुषशरीरं बालकुमारयुववृद्धतापरिणामविशेषखात् चेतनावदधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते तथेदं वनस्पतिशरीरमनवरतं बालकुमारयुवावस्थाविशेषैः प्रतिनियतं वर्द्धते तथेदमपि वनस्पतिशरीरमङ्कुर किशलयशाखा प्रशाखादिविशेषैः प्रतिनियतं वर्द्धत इति । तथा यथा मनुष्यशरीरं ज्ञानेनानुगतं एवं वनस्पति शरीरमपि यतः शमीप्रपुनाट सिद्धेरसका सुन्दकवच्छूला गस्त्यामलका कडिप्रभृतीनां स्वापविवोधतस्तद्भावः । तथाऽधोनिश्वातद्रविणराशेः स्वप्ररोहणावेष्टनं तथा वटपिप्पल निम्वादीनां प्रावृट्जलधरनिनादशिशिरवायुसंस्पशदकुरोभेदः । तथा मत्तकामिनीसनूपुर सुकुमारचरणताडनादशोकतरोः पल्लवकुसुमोद्भेदः तथा युवत्यालिङ्गनात् पनसस्य तथा सुरभिमदिरागण्डुक से काल कुलस्य तथा सुरभि - निर्मलजल सेकाच्चम्पकस्य तथा कटाक्षवीक्षणातिलकस्य तथा पञ्चमस्वरोद्गारात् शिरीषस्य विरहकस्य च पुष्पविकिरणं तथा पद्मादीनां प्रातर्विकसनं घोषातक्यादिपुष्पाणां च सन्ध्यायां कुमुदादीनां तु चन्द्रोदये तथासनमेघवृष्टौ शम्या अवक्ष Page #43 -------------------------------------------------------------------------- ________________ ३८ रणम् । तथा वल्लीनां वृत्त्याद्याश्रयोपसर्पणम् । तथा लजालु प्रभृतीनां हस्तादिसंस्पर्शात्पत्रसङ्कोचादिका परिस्फुटा क्रियोपलभ्यतेऽथवा सर्ववनस्पतेर्विशिष्टतु वेव फलप्रदानम् । न चैतदनन्तराभिहितं तरुसंवन्धि क्रियाजालं ज्ञानमन्तरेण घटते तस्मात् सिद्धं चेतनावत्वं वनस्पतेरिति । तथा यथा मनुष्यशरीरं हस्तादिच्छिन्नं शुष्यति तथा तरुशरीरमपि पल्लवफलकुसुमादिच्छिन्नं विशोषमुपगच्छद् दृष्टं न चाचेतनानामयं धर्म इति । तथा यथा-मनुष्यशरीरं स्तनक्षीरव्यञ्जनौदनाद्याहाराभ्यवहारादाहारकम् । एवं वनस्पतिशरीरमपि भूजलाद्याहाराभ्यवहारादाहारकं, न चैतदाहारकत्वमचेतनानां दृष्टं अतस्तद्भावात्सचेतनत्वमिति । तथा यथा-मनुष्यशरीरं नियतायुष्कं तथा वनस्पतिशरीरमपि । तथा यथा-मनुष्यशरीरमिष्टानिष्टाहागदिप्राप्तौ वृद्धिहान्यात्मकं तथा वनस्पतिशरीरमपि । तथा यथा-मनुष्यशरीरस्य तत्तद्रोगसंपर्काद्रोमपाण्डुत्वोदरवृद्धिशोफक्शत्वाङ्गुलिनासिकानिम्नीभवनविगलनादि तथा वनस्पतिशरीरस्यापि तथा रोगोद्भवात्पुष्पफलपत्रत्वगाधन्यथाभवनपतनादि । तथा यथामनुष्यशरीरस्योषधप्रयोगाद् वृद्धिहानिक्षतभुग्नसंरोहणानि तथा वनस्पतिशरीरस्यापि । तथा यथा- मनुष्यशरीरस्य रसायनस्नेहाधुपयोगाद्विशिष्टकान्तिरसपलोपचयादि तथा वन Page #44 -------------------------------------------------------------------------- ________________ स्पतिशरीरस्यापि विशिष्टेष्टनभोजलादिसेकाद्विशिष्टरसवीर्यस्निग्धत्वादि । तथा यथा स्त्रीशरीरस्य तथाविधदौहृदपूरणात्पुत्रादिप्रसवनं तथा बनस्पतिशरीरस्यापि तत्पूरणात्पुष्पफलादिप्रसवनमित्यादि तथा च प्रयोगो-वनस्पतयः सचेतनाः बालकुमारवृद्धावस्था १ प्रतिनियतवृद्धिस्वापप्रबोध २ स्पर्शादिहेतुकोलाससङ्कोचाश्रयोपसर्पणादिविशिष्टानेकक्रिया ३ छिन्नावयवम्लानि ४ प्रतिनियतप्रदेशाहारग्रहण ५ वृक्षायुरभिहितायुष्के ६ ष्टानिष्टाहारादिनिमित्तकवृद्धिहानि ७ आयुर्वेदोदिततनूरोग ८ विशिष्टौषधप्रयोगसंपादितवृद्धिहानिक्षतभुग्नसरोहण 8 प्रति. नियतविशिष्टशरीररसवीर्यस्निग्धत्वरूक्षत्व १० विशिष्टदोहदा ११ दिमत्त्वान्यथानुपपत्तेर्विशिष्टस्त्रीशरीरक्त् । ___अथवैते हेतवः प्रत्येक पक्षण सह प्रयोक्तव्याः । अयं वा संगृहीतोक्तार्थप्रयोगः सचेतना बनस्पतयो जन्मजरामरणरोगादीनां समुदितानां सद्भावात् ५। अत्र समुदितानां जन्मादीनां ग्रहणात् जातं तदधीत्यादिव्यपदेशदर्शनाद् दध्यादिभिरचेतनैन व्यभिचारः शङ्कयस्तदेवं पृथिव्यादीनां सचेतनत्वं सिद्धम् । भाप्तवचनात्सर्वेषां सात्मकत्वसिद्धिरिति । द्वीन्द्रियाः शङ्खशुक्तिकादयः । श्रीन्द्रियाः पिपीलिकादयः। चतुरिन्द्रिया मक्षिकाभ्रमरपत. Page #45 -------------------------------------------------------------------------- ________________ ४० गादयः । पञ्चेन्द्रिया गोमहिष्यादयो गर्भव्युत्क्रान्ताः संमूर्छजाश्चेति ॥ १॥ एतद्विपरीतोऽजीवः ॥ ८॥ स व धर्माधर्माकाशकालपुद्गलभेदात्पञ्चविधः॥८१॥ तत्र धर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्ख्यप्रदेशो गत्युपग्रहकारी च १ । अधर्मो लोकव्यापी नित्योऽवस्थितोऽरूपिद्रव्यमस्तिकायोऽसङ्ख्या देशः स्थित्युपग्रहकारी च २ । आकाशमपि लोकालोकव्यापकमनन्तप्रदेशं नित्यमवस्थितमरूपिद्रव्यमस्तिकायोऽवगाहोपकारकं वक्तव्यम् ३ । कालोऽर्द्धतृतीयद्वीपान्तर्वर्ती परमसूक्ष्मो निर्विभागः एकः समयः । स चास्तिकायो न भण्यते एकसमयरूपस्य तस्य निःप्रदेशत्वात् । आहच"तस्मान्मानुषलोकव्यापी कालोऽस्ति समय एक इह । एकत्वाच स कायो न भवति कायो हि समुदायः॥१॥" स च सूर्यादिग्रहनक्षत्रोदयाऽस्ता दिक्रियाभिव्यङ्गयः एकी. यमतेन द्रव्यमभिधीयते स चैकः समयो द्रव्यपर्यायोभयात्मैव द्रव्यार्थरूपेण प्रतिपर्यायमुत्पादव्ययधर्मापि स्वरूपानन्यभूतक्रममाव्यनाद्यपर्यवसाना(न)न्तसङ्ख्यपरिणामो(माणो)ऽत एव च स स्वपर्यायप्रवाहव्यापी द्रव्यात्मना नित्योऽभिधीयते अतीतानागतवर्तमानावस्थास्वपि कालः काल इत्यविशेषश्रुतेः। Page #46 -------------------------------------------------------------------------- ________________ ४१ यथा ह्य कः परमाणुः पर्यायनित्योऽपि द्रव्यत्वेन सदा सन्नेव न कदाचिदसत्त्वं भजते तथैकः समयोऽपीति । तथा'दव्ध परियहरूवो जो सो कालो हवेइ ववहारो।। परिणामाइलक्खो वदृणलक्खो 'अ परमहो ॥ १॥ ___ जीवपुद्गलपरियों नवपुराणादिस्तेन लक्ष्यः द्रव्यपर्यायरूपो व्यवहारकालः । स्वोपादानरूपेण स्वयमेव परिणाममानानां भावानां कुम्भकारचक्राधस्तनशिलावत् शीतकालाध्मायनेऽग्निवत् पदार्थपरिणमने य(णतेय)त्सहकारित्वं सा वर्तना सैव लक्षणं यस्य स कालाणुद्रव्यरूपो निश्चयकालः । ततोऽन्यः कालाणुद्रव्यरूपनिश्चयकालो नास्ति । अत्रोत्तरम् । उत्पन्नध्वं. सित्वात्समयः पर्यायः, पर्यायो द्रव्यं विना न भवति । यदुक्तम्"द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क कदा केनचित्कि वा दृष्टा मानेन केन वा ॥१॥" ततः समयरूपपर्यायोपादानभूतेन कालाणुरूपनिश्चयकाल. द्रव्येण भाव्यमेव, यथा-इन्धनाग्निसहकारिकारणोत्पन्नौदनपर्यायस्य तण्डुलोपादानकारणवत् कुम्भकारचक्रचीचरादिवहिरङ्गनिमित्तोत्पन्नस्य मृन्मयघटपर्यायस्य मृत्पिण्डोपादानं नरकादिपर्यायस्य जीवोपादानम् । तदपि कस्मादुपादानकारणसदृशं कार्य भवतीतिवचनात् । Page #47 -------------------------------------------------------------------------- ________________ ४२ अथ मतं समयादिकालपर्यायाणां कालद्रव्यमुपादानं न भवति किंतु समयोत्पत्तौ मन्दगतिपरिणतपुद्गल परमाणुः, निमेषोत्पत्तौ नयनपुटविघटनं, घटिकाकालोत्पत्तौ घटिका सामग्रीभूतजलभृतभाजन पुरुषहस्तादिव्यापारः, दिवसादौ दिनकरबिम्बमुपादानादिकरणम् । उपादानत्वं च पूर्वाकारपरि त्यागाजहद्वृत्तोत्तराकारोपादानत्वम्, नैवम्, उपादानकारणसदृशं कार्यमिति वचनात्कालामुद्रव्यमेवेति ४ । पुद्गलाः स्पर्शरसगन्धवर्णवन्तः ॥ ८२ ॥ • अत्र स्पर्शग्रहणमादौ स्पर्शे सति रसादिसद्भावज्ञापनार्थ, ततोऽवादीनि चतुर्गुणानि स्पर्शित्वात् पृथिवीवत्तथा मनः स्पर्शादिमत् असर्वगतद्रव्यत्वात् पार्थिवाणुवदितिप्रयोगौ सिद्धौ । तत्र स्पर्शा मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षाः ॥८३॥ अत्र च स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु संभवन्ति स्कन्धेष्वष्टावपि यथासंभवं वक्तव्याः । रसाः तिक्तकटुकषायाम्लमधुराः ॥ ८४ ॥ लवणो मधुरान्तर्गत इत्येके संसर्गज इत्यपरे । गन्धौ सुरभ्यसुरभी ॥ ८५ ॥ कृष्णादयो वर्णाः ॥ ८६ ॥ Page #48 -------------------------------------------------------------------------- ________________ ४३ तद्वन्तः पुद्गला इति । न केवलं पुद्गलाना स्पर्शादयो धर्माः शब्दादयश्चेति दयन्ते । शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः पुद्गलाः॥८७॥ अत्र पुद्गलपरिणामाविष्कारी मतुष्प्रत्ययो नित्ययोगार्थ विहितः । तत्र शब्दो ध्वनिः । वन्धः परस्पराश्लेषलक्षण: प्रयोगविस्रसादिजनितः। औदारिकादिशरीरजतुकाष्ठादिश्लेषवत् परमाणुसंयोगजवद्वेति २ । सौक्ष्यं सूक्ष्मता ३ । स्थौल्यं स्थूलता ४ । संस्थानमाकृतिः ५ । भेदः खण्डशो भवनम् ६ । तमश्छायादयः प्रतीताः सर्वे एवैते स्पर्शादयः शब्दादयश्च पुद्गलेष्वेव भवन्तीति । पुद्गला देधा परमाणवः स्कन्धाश्च ॥८८॥ तत्र परमाणोर्लक्षणमिदं"कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणः। एकरसवर्णगन्धा दिस्पर्शः कार्यलिङ्गाश्च ॥१॥" ५ ॥ एते धर्माधर्माकाशकालपुद्गला जीवैः सह षड् द्रव्याणि । एवाद्यानि चत्वार्येकद्रव्याणि जीवाः पुद्गलाश्चानेकद्रव्याणि, पुद्गलरहितानि तानि पञ्चामूर्चानि पुद्गलास्तु मृर्ता एवेति ॥२॥ सत्कर्मपुद्गलाः पुरायम् ॥ ८ ॥ Page #49 -------------------------------------------------------------------------- ________________ सन्तस्तीर्थकरत्वस्वर्गादिफलनिर्वर्तकत्वात्प्रशस्तकर्मणां पुद्गला जीवसम्बद्धाः कर्मवर्गणाः पुण्यमित्यर्थः ॥३॥ तद्विपरीतं तु पापम् ॥ १०॥ ___ तुभिन्नक्रमे तस्मात्पुण्याद्विपरीतं नरकादिफलनिवर्त्तकत्वादप्रशस्ता जीवसंबद्धाः कर्मपुद्गलाः पापमित्यर्थः ॥४॥ पन्धस्य मिथ्यात्वाऽविरतिकषाययोगलक्षणहेतव श्रास्रवः ॥ ११ ॥ असद्देवगुरुधर्मेषु सद्देवादिबुद्धिर्मिथ्यात्वम् । हिंसाद्यनिवृत्तिरविरतिः । प्रमादो मद्यविषयादिः । कषायाः क्रोधा. दयः। योगा मनोवाकायच्यापाराः । वन्धस्य ज्ञाना. वरणीयादिकर्मवन्धस्य हेतवः कारणानि आस्रवति कर्म येभ्यः स आस्रवस्ततो मिथ्यात्वादिविषया मनोवाक्कायव्यापारा एवाशुभकर्मवन्धहेतुत्वादास्रव इत्यर्थः ॥५॥ तनिरोधः संवरः ॥ १२॥ तेषां मिथ्यात्वाविरतिकषाययोगानामास्रवाणां सम्यगदर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षादिभिनिरोधो मिवारणं स्थगनं संवरः । पर्यायकथनेन व्याख्या । आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवरः इत्यभिप्रायः । स च देशसर्वभेदाद् द्वेधा, तत्र बादरसूक्ष्मयोगनिरोधकाले सर्व संवरः, शेषकाले सम्यक्त्वमतिपत्तेरारभ्य देशसंवरः ॥६॥ Page #50 -------------------------------------------------------------------------- ________________ जीवस्य कर्मणा अन्योन्यानुगमात्मा सम्बन्धो बन्धः ॥१३॥ तत्र वन्धनं चन्धः परस्पराश्लेषो जीवप्रदेशपुद्गलानां क्षीरनीरवत् । अथवा बध्यते येनात्मा पारतन्त्र्यमापाद्यते ज्ञानावरणादिना सबन्धः पुद्गलपरिणामः ॥७॥ बद्धस्य कर्मणः शाटो निर्जरा ॥ १४ ॥ बद्धस्य जीवेन सम्बद्धस्य कर्मणो ज्ञानावरणादेः-शाटः शाटनं द्वादशविधेन तपसा विचटनं सा निर्जरा, सा च द्विविधा सकामाऽकामभेदात् तत्राद्या चारित्रिणां दुष्करतपश्चरणकायोत्सर्गकरणद्वाविंशतिपरीषहपरीषहणपराणां लोचादिकायक्लेशकारिणामष्टादशशीलाङ्गरथधारिणां बाह्याभ्यन्तरसर्वपरिग्रहपरिहारिणां निष्प्रतिकर्मशरीरिणां भवति । द्वितीया वन्यशरीरिणां तीव्रतीव्रतरशारीरमानसानेकदुस्सहदुःखशत. सहस्रसहनतो भवति ॥८॥ देहादेरात्यन्तिको वियोगो मोक्षः॥ १५ ॥ - देहादेः शरीरपञ्चकेन्द्रियायुरादिबाह्यप्राणपुण्यापुण्यवर्णगन्धरसस्पर्शपुनर्जन्मग्रहणवेदत्रयकषायादिसङ्गाज्ञानासिद्धत्वादेरात्यन्तिको विरहः पुनर्मोक्ष इष्यते । यो हि शश्वद्भवति न पुन: कदाचिन भवति स आत्यन्तिकोऽत्र परः प्राह ननु भवतु देहस्यात्यन्तिको वियोगस्तस्य सादित्वात्परं Page #51 -------------------------------------------------------------------------- ________________ ४६ रागादिभिः सहात्यन्तिको वियोगोऽसंभवी प्रमाणवाधनात् । प्रमाणं चेदं, यदनादिमत् न तद्विनाशमाविशति यथाकाशम् , अनादिमन्तश्च रागादय इति । उच्यते । यद्यपि रागादयो दोषा जन्तोरनादिमन्तस्तथापि कस्यचिद्यथावस्थितस्त्रीशरीरादिवस्तुतत्वावगमेन तेषां रागादीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृश्यते ततः संभाव्यते विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षतो निमूलमपि क्षयः, निमूलक्षयानभ्युपगमेऽपचयस्याप्यसिद्धेः, यथाहि-शीतस्पर्शसंपाद्या रोमहर्षादयः शीतप्रतिपक्षस्य वह्न मन्दतायां मन्दा उपलब्धा उत्कर्षे च निरन्वयविनाशिनः । एवमन्यत्रापि मन्दतासद्भावे निरन्वयविनाशोऽवश्यमेष्टव्यः। ____अथ यथा-ज्ञानावारणीयकर्मोदये ज्ञानस्य मन्दता भवति तत्प्रकर्षे च ज्ञानस्य न निरन्वयो विनाशः एवं प्रतिपक्षभावनोत्कर्षेऽपि न गगादीनामत्यन्तमुच्छेदो भविष्यतीति। तदयुक्तम् । द्विविधं हि बाध्यं सहभूस्वभावं सहकारिसंपाद्यस्वभावं च । तत्र यत्सहभूस्वभावं तन बाधकोत्कर्षे कदाचिदपि निरन्वयं विनाशमा विशति ज्ञानं चात्मनः सहभूस्वभावम् आत्मा च परिणामिनित्यस्ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकर्मोदये ज्ञानस्य न निरन्वयो विनाशः। रागादयस्तु लोभादिकर्मविपाकोदयसंपादितसत्ताकाः ततः कर्मणो निमूलभपगमे तेऽपि निमूलमपगच्छन्ति । प्रयोगश्चात्र । ये सह Page #52 -------------------------------------------------------------------------- ________________ कारिसंपाद्या यदुपधानादपकर्षिणः ते तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणः यथा-रोमहर्षादयो वहिवृद्धौ। भावनोपधानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागादयः ॥ ६ ॥ ___ इति प्रमाणनयतत्त्वं व्यवस्थाप्य वस्तुनिर्णयार्थ वादमाह । विरुद्धोर्धमेयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थं साधनदूषणवचनं वादः॥१६॥ . विरुद्धयोरेकत्र प्रमाणेनानुपपद्यमानोपलम्भयोर्द्धमयो. मध्यादिति । तत्प्रारम्भकश्चात्र जिगीषुस्तत्त्वनिर्णिनीषुश्च॥१७॥ तत्र जिगीषुः प्रसह्य प्रथमं च वादमारमते प्रथममेव च तत्त्वनिणिनीषुरिति द्वावपि प्रारम्भको भवतः । तत्रस्वीकृतधर्मव्यवस्थापनार्थं साधनदूषणाभ्यां परं पराजेतुमिच्छुजिगीषुः ॥१८॥ ___ स्वीकृतो धर्मः शब्दादेः कथंचिन्नित्यत्वादिर्यस्तस्यव्यवस्थापनार्थ यत्सामर्थ्याचस्यैव साधनं परस्य च दूषणं ताभ्यां कृत्वा परं पराजेतुमिच्छजिगीषुरित्यर्थः । तथैव तत्वं प्रतिष्ठापयिषुस्तत्त्वनिर्णिनीषुः ॥ ११ ॥ . तथैव स्वीकृतधर्मव्यवस्थापनार्थ साधनदूषणाभ्यां शब्दादेः कथंचिन्नित्यत्वादिरूपं तत्त्वं प्रतिष्ठापयितुमिच्छुस्तत्त्वनिणेनीषुरित्यर्थः। Page #53 -------------------------------------------------------------------------- ________________ श्रयं च वैधा, स्वात्मनि परत्र च ॥ १ . ० ॥ अयमिति तत्त्वनिर्णिनीषुः कश्चित्खलु संदेहाद्युपहतचेतोवृत्तिः स्वात्मनि तत्वं निर्णेतुमिच्छत्यपरस्तु परानुग्रहिकतया परत्र तथेति द्वेधाऽसौ तत्वनिर्णिनीषुः, सर्वोऽपि च धात्वर्थः करोत्यर्थेन व्याप्त इति स्वात्मनि परत्र च तत्वनिर्णयं चिकीर्षरित्यर्थः । तदिदमिह रहस्यम् । परोपकारैकपरायणस्य कस्यचिद्वादिवृन्दारकस्य परत्र तत्त्वनिर्णिनीपोरानुषङ्गिक फलं जयो, मुख्यं तु परतत्त्वावबोधनम् । जिगीषोस्तु विपर्यय इति । प्रारम्भकप्रत्यारम्भकावेव मल्लप्रतिमल्लन्यायेन वादिप्रतिवादिनौ ॥१०१॥ प्रमाणतः स्वपक्षस्थापनप्रतिपक्षप्रतिक्षेपावनयोः कर्म ॥ १०२॥ वादिप्रतिवादिसिद्धान्ततत्त्वनदीष्णत्वधारणाबाहुश्रुत्यप्रतिभातान्तिमाध्यस्थ्यैरुभयाभिमताः सभ्याः ॥ १०३ ।। वादिप्रतिवादिनोर्यथायोगं वादस्थानककथाविशेषाङ्गीकारणाग्रवादोत्तरवादनिर्देशः साधकबाधकोक्तिगुणदोषावधारणं यथावसरं तत्त्वप्रकाशनेन कथाविवरणं यथासंभवं समायां कथाफलकथनं चैषां कर्माणि । Page #54 -------------------------------------------------------------------------- ________________ ४९ उभयोस्तनिर्णिनीषुवे यावत्तच्च निर्णयं यावत्स्फूर्ति च वाच्यमित्येकः । स्वात्मनि तत्रनिर्णिनीपुः परश्व, परत्र द्वौ वा परस्परमित्येवं द्वापि यदा तस्वनिर्णिनीषु भवतः तदा यात्रता तत्रस्य निर्णयो भवति तावत्ताभ्यां स्फूर्ती सत्यां वक्तव्यम् । अनिर्णये च यावत्स्फुरति तावद्वक्तव्यम् । एवं च स्थितमेतत् । स्वं स्वं दर्शनमाश्रित्य, सम्यक् साधनदूषणैः । जिगोषोनिर्णिनीषोर्वा, वाद एका कथा भवेत् ॥ भङ्गः कथात्र यस्यात्र, निग्रहस्थाननिर्णयः । श्रीमद्रनाकरग्रन्थाङोधनैरव वार्यताम् ॥ २ ॥ श्रीहीर विजय सुरोश्वरचरणाम्भोजचञ्चरीकेण । शुभ विजयाभिषशिशुना दृच्धा स्याद्वादभाषेयम् ॥ ३॥ इति श्रीहीरविजयसूरीश्वर शिष्यपण्डितशुभ विजयगणिना श्रीविजय देवसूरीश्वर निर्देशात् प्रमाणनयतन्त्रप्रकाशिकापरनाम्नी स्याद्वादभाषा समर्थिता ॥ ॥ इति पण्डितप्रवर श्रीशुभ विजयगणिकृता, स्थादादभाषा प्रमाणनयतत्त्वप्रकाशिकापरनाम्नी समाप्ता ॥ 5 Page #55 -------------------------------------------------------------------------- ________________ पृष्ठं . क्रम सूत्र १ सम्यक्तत्त्व २ जीवाजीव . ३. स्वपरव्यवसायि ४ तत्प्रामाण्यं ५ ज्ञानस्य ६ तदितरत्व ७ तदुमय० ८ तद् द्विविधं ६ सष्टं प्रत्यक्षम् १० तद् द्विविध ११ तात्राद्यमिन्द्रिय १२ एतद् द्वितय १३ पारमार्थिक १४ तद्विकलं १५ अस्पष्टं परोक्षम् १६ स्मरण १७ अनुमानं १८ तत्र हेतुग्रहण १९ निश्चितान्यथा २० इष्टमबाधित २१ पक्षहेतु ॥ सूत्रानुक्रमः ॥ -:*:पृष्ठं क्रम सूत्र १ २२ हेतुप्रयोग २ २३ प्रतिबंध २४ स द्वेधा २५ हेतोरुपसंहार ५ | २६ प्रतिज्ञायाः | २७ स हेतुद्विधा २४ उपलब्धेरपि २६ तत्राविरुद्धोप ३० विरुद्धव्याप्या ३१ अनुपलब्धेरपि ३२ तत्राविरुद्धानुप | ३३ विरुद्धानुपलब्धि ३४ आप्तवचनात् | ३५ उपचाराद् १० ३६ अभिधेयं वस्तु १० | ३७ सहजसामर्थ्य | १० | ३८ तस्य विषयः १० / ३९ अनुवृत्तव्यावृत्त ११ | ४० सामान्यं द्वेधा ११ / ४१ विशेषश्च द्वेधा ११ | ४२ अज्ञाननिवृत्तिः orrar xxx russoor Manora2222 Page #56 -------------------------------------------------------------------------- ________________ पृष्ठं २६ 30 क्रम सूत्र पृष्ठं क्रम सूत्र ... ४३ तस्प्रमाणाद् . १८ | ६८ पर्यायाथिकः ४४ प्रमाणस्वरूपादेः । ६९ ऋजुसूत्रः . ४५ अज्ञानत्मका ७० सर्वथा द्रव्यापलापी ४६ असिद्धविरुद्धा ७१ कालादिभेदेन ४७ प्रमाणेनासिद्धा ७२ तभेदेन तस्य ४८ विपरितान्यथा ७३ पर्यायध्वनि ४९ अनित्यः पुरुषः ७४ पर्यायध्वनीना ५० विपक्षेप्य ७५ क्रियाश्रयेण ५१ अनित्यः शब्दः ७६ क्रियानाविष्टं ५२ अन्वये दृष्टान्ता ७७ नयवाक्यमपि ५३ अपौरुषेयः शब्दः ७८ चैतन्यलक्षणः ५४ विपरीतान्वयश्च ७९ स च द्विविधो ५५ व्यतिरेकेऽसिद्ध ८० एतद्विपरीतो ५६ विपरीतव्यतिरेकश्च ८१ स च धर्माधर्मा ५७ अनाप्तवचन ८२ पुद्गलाः ५८ सामान्यमेव | ८३ स्पर्शा ५९ प्रमाणप्रतिपन्ना ८४ रसाः ६० द्रव्याथिकः ८५ गन्धौ ६१ आद्यो नैगम ८६ कृष्णादयो ६२ तत्र अन्यान्य २४ ८७ शब्दबन्ध ६३ धर्मद्वयादीना २४ ८८ पुद्गला द्वेधा ६४ सामान्यमात्रग्राही | ८६ सत्कर्मपुद्गलाः ६५ द्रव्यत्वादिकं ९० तविपरीत ६६ सद्विशेषप्रकाशको २५ | ९१ बन्धस्य ६७ यः पुनरपारमार्थिकं २६ / ९२ तनिरोधः ००००००. २३ २४ २५ Page #57 -------------------------------------------------------------------------- ________________ क्रम सूत्र ९३ जीवस्य कर्मणा ९४ बद्धस्य कर्मणः ९५ देहादेरात्यन्तिको ९६ विरुद्धयोर्धर्मयो ९७ तत्प्रारम्भक ९८ स्वीकृतधर्म ५२ पृष्ठ क्रम ४५ ४५ १०० अयं च द्वेधा ४५ १०१ प्रारम्भक ४७ १०२ प्रमाणतः ४७ |१०३ वादिप्रतिवादि ४७ सूत्र ९९ तत्त्वं प्रतिष्ठापयिषुः ४७ न तो न तो ने वेले. 5 पृष्ठ ४८ ४८ ४८ ४८ Page #58 -------------------------------------------------------------------------- ________________ मुद्रक:श्री गौतम आर्ट प्रिन्टर्स नेहरू गेट बाहर, ब्यावर (राजस्थान)